यच्चोक्तं परैः
उभयमतपरीक्षा
तात्पर्यचन्द्रिका
यच्चोक्तं परैः पौत्रायणस्य या शुक् सा रैक्वेण शूद्रशब्देन सूच्यत इति सौत्रस्य सूच्यत इति पदस्यार्थ इति तन्न । यौगिकेन शूद्रशब्देन शोकस्योक्ततया सूचनाभावात् । केचित्तु ‘‘शुचेर्दश्चे’’त्युणादिसूत्रेण रप्रत्यये धातोश्च दीर्घे चकारस्य च दकारे कृते शूद्र इति भवति । तेन शोचितृत्वमेव शूद्रशब्दार्थ इति सूत्रे विवक्षितम् । न तु शुचा द्रवणं तस्यार्थ इति तदा द्रवणादित्याद्रवणोक्तिस्तु शोके लिङ्गतया । न तु शूद्रशब्दार्थतया । अनादरश्रवणवदाद्रवणस्यापि पञ्चमीनिर्देशेन प्रथमानिर्दिष्टायां शुचि हेतुत्वस्यैवन्याय्यत्वात् । अनादरश्रवणं हि शुचिकारणतया लिङ्गम् । आद्रवणं तु कार्यतयेत्याहुः । तन्न । आद्रवणस्यापि शुचिहेतुत्वे च शब्दापातात् । पञ्चमी तु शुचा द्रवणाच्छूद्रो न तु चतुर्थजातियोगादित्यवश्याध्याहार्यप्रधानसाध्यान्वयात् । किं चात्र शूद्रशब्दस्यौणादिकरप्रत्ययान्ततायां न जात्यर्थत्वनिराससिद्धिः । जातिवाचिनोऽपि तदन्तत्वात् । तस्माद्रुग्द्रावणाद्रुद्र इतिवच्छुचाऽऽद्रवणाच्छूद्र इति नैरुक्तः शूद्रशब्दः ।
यच्चोक्तमुभाभ्याम् अस्यामेव संवर्गविद्यायामुत्तरत्र ‘‘अथ ह शौनकं च कापेयमभिप्रतारिणं च कार्क्षसेनि’’मित्यभिप्रतारिनामापुरुषः कीर्तितः । स चाभिप्रतारीचैत्ररथ इति तावद्वक्तव्यम् । कापेयाख्येन याजकेन योगात् । कापेयेन याज्यतया योगो हि श्रुत्यन्तरे ‘‘एतेन वै चित्ररथं कापेया अयाजय’’न्निति चित्ररथस्यावगतः । न चैवं सत्यभिप्रतारीचित्ररथ एव स्यान्न तु चैत्ररथ इति शङ्क्यम् । तस्याभिप्रतारीति संज्ञाभेदेन चित्ररथादन्यत्वात् । चित्ररथादन्यस्य च चित्ररथयाजककापेययोगश्चैत्ररथत्वं विना न युक्तः । समानान्वयानां हि प्रायेण समानान्वयायाजका भवन्ति । चैत्ररथस्य क्षत्रियत्वं च ‘‘तस्माच्चैत्ररथनामैकः क्षन्त्रपतिरजायते’’ति श्रुत्यन्तरेऽवगतम् ।
एवं चाभिप्रतारिनाम्ना चैत्ररथेन क्षत्रियेण सह समभिव्याहाराल्लिङ्गात्पौत्रायणोपि क्षत्रिय इति द्वितीयार्थ इति । तन्न । समभिव्याहारादित्यस्याध्याहार्यत्वात् । कापेयमभिप्रतारिणमित्यत्राभिप्रतारिणः कापेयेन सहपाठेऽपि याज्यत्वेन तद्योगाप्रतीतेश्च । अस्तु वा याज्यत्वेन तदन्वयः । तथाप्यभिप्रतारिणो न चैत्ररथत्वसिद्धिः । प्रायेणेति वदता त्वयाप्यचैत्ररथानामपि कापेययाज्यत्वाङ्गीकारात् । अस्तु वाऽभिप्रतारिणः कापेययोगात्क्षत्रियत्वम् । तथापि न तत्समभिव्याहारमात्रेण पौत्रायणस्य क्षत्रियत्वम् । कापेय एवानैकांत्यात् । निश्चितब्राह्मण्येन कापेयेन रैक्वेण वा समभिव्याहारात्पौत्रायणस्य ब्राह्मण्यापाताच्च । न च निश्चितब्राह्मण्येन कापेयेन समभिव्याहृतस्याभिप्रतारिणः क्षत्रियत्ववन्निश्चितब्राह्मण्येन रैक्वेण समभिव्याहारात्पौत्रायणस्यापि क्षत्रियत्वमिति वाच्यम् । ब्राह्मणसमभिव्याहृतस्य क्षत्रियत्वनियमाभावात् । रैक्वसमभिव्याहारस्यैव लिङ्गतया वक्तव्यत्वेन चैत्ररथसमभिव्याहारस्य सूत्रे लिङ्गत्वोक्त्ययोगाच्च । यच्चोक्तं तृतीये ‘‘संस्कारपरामर्शा’’दित्यस्य ‘‘तं होपनिन्य’’ इत्येतद्विषयवाक्यमिति तन्न । अस्माकं मते ‘‘अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीते’’त्यत्र तच्छब्देन प्रकृत संस्कारपरामर्शवत् ‘‘तं होपनिन्य’’ इत्यत्रोपनयनाख्यसंस्कारोक्तिमात्रसद्भावेऽपि तत्परामर्शाभावात् । यच्चोक्तं चतुर्थे ‘‘प्रवृत्ते’’रित्यस्य ब्रह्मोपदेशे प्रवृत्तेरित्यर्थ इति तन्न । ‘‘नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्यहरोपत्वानेष्य’’ इतित्वयाप्युदाहृते वाक्य उपनयने प्रवृत्तेरेव साक्षाच्छ्रवणात् । यच्चोक्तं शूद्रस्य स्मृत्या श्रवणादिप्रतिषेधादिति पञ्चमार्थ इति तन्न । भाष्योक्ते श्रौतप्रतिषेधे सम्भवति स्मार्तप्रतिषेधपरत्वायोगात् । स्मृतेः श्रवणादिप्रतिषेधाच्चेति चशब्दस्य भिन्नक्रमत्वापाताच्चेति ।
प्रकाशिका
एवं मतद्वयेऽप्यधिकरणशरीरं निरस्याद्यसूत्रार्थं तावन्निरस्यति ॥ यच्चेत्यादिना ॥ ‘‘कम्बर एन’’मित्यादिवाक्यादस्य जानश्रुतेस्स्वस्मिन्ननादरश्रवणाद्या शुगुत्पन्ना सा रैक्वेण शुचा द्रवणाच्छूद्रेति शब्देन सूच्यते हि यस्मात्तस्मान्नायं शूद्रो जात्येत्यर्थः ॥ केचित्त्विति ॥ अस्य शुश्रूषोर्जानश्रुतेर्ब्रह्मज्ञानवैकल्येन हंसोक्तानादरवाक्यश्रवणात्तदा तदैव ब्रह्मविदो रैक्वस्य सकाशं प्रत्याद्रवणाच्छुगस्य सञ्जातेति सूच्यते हि यतोऽतः शूद्रेत्यामंत्र्यते । न वर्णावरत्वेनेत्यर्थः ॥ शुचेर्दश्चेतीति ॥ उणादौ द्वितीयपादे ‘‘स्फायितं चिवं चिशकिक्षिपिक्षुदिसृपी’’त्यादिसूत्रोक्तप्रकारेण ‘‘अमितम्यो दीर्घश्चे’’ति सूत्रानन्तरात् ‘‘शुचेर्दश्चे’’ति सूत्रात्प्रक्रियामाहुरित्यर्थः । ननु हेतुद्वयं व्यर्थमित्यत आह ॥ अनादरेति ॥ प्रधानेति ॥ तथा च त्वत्पक्षे एकेन कृतकार्यत्वात्तत्रैव हेत्वन्तरत्वेऽतिशयालाभः प्रधानसाध्यानन्वयोऽध्याहारश्चेत्येते दोषा इति भावः ॥ जातिवाचिनोऽपीति ॥ अत एव ‘‘शुचेर्दश्चे’’त्यत्र वृत्तौ ‘‘शोचतीति शूद्रो वृषल’’ इत्युक्तमिति भावः ॥ रुग्द्रावणादिति ॥ यथा ‘‘रोदेर्णिलुक्चे’’ति सूत्रेण रोदयतीति रुद्र इति व्युत्पादितत्वेऽपि ‘‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दन’’ इति निरुक्तिबलात्प्रकृतिप्रत्ययान्तरकल्पनेन रुद्रशब्दनिष्पत्तिस्तथेहापीत्यर्थः ।
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥
इति ऋग्भाष्यटीकोक्तदिशा वर्णविकारादिना शुचा द्रवणादेव हेतोश्शूद्रशब्दनिष्पत्तिर्ध्येयेति भावः । एतेन यदुक्तं श्रुतप्रकाशे ‘‘औणादिकनिर्वाहापेक्षया नैरुक्तप्रक्रियया निर्वाहस्यामुख्यत्वान्न नैरुक्तनिर्वाहः कार्य’’ इति तन्निरस्तम् । तथात्वे जातिवाचित्वानपायात् । सूत्राननुगुणत्वाच्चेति ॥ द्वितीयसूत्रार्थमपि प्रत्याह ॥ यच्चेति ॥ कापेययोगेऽपि चित्ररथत्वं कुत इत्यत आह ॥ कापेयेनेति ॥ संज्ञाभेदेनेति ॥ ‘‘अथैष ज्योति’’रित्यादौ संज्ञाभेदेन कर्मान्यत्वस्य द्वितीये स्थितत्वादिति भावः । एतावता तत्त्वं कुत इत्यत आह ॥ समानेति ॥ तथा चाभिप्रतारिणश्चित्ररथयाजककापेयेन याज्यतया योगस्तस्य चित्ररथान्वयजत्वेनेति चैत्ररथत्वमित्यर्थः । भवत्वभिप्रतारी चैत्ररथस् ततश्च किमित्यत आह ॥ चैत्ररथस्येति ॥ द्वितीयेति ॥ यद्यपि रामानुजमते क्षत्रियत्वावगतेरित्येव द्वितीयम् । उत्तरत्रेत्यादितृतीयम् । तथापि क्षत्रियत्वावगतेरित्यत्र हेत्वनुक्तेर् उत्तरत्रेत्यत्रैव हेतूक्तेर् ग्रामेशत्वादिलिङ्गाध्याहारेण योगविभागे ज्ञापकाभावात् हेत्वध्याहारस्य क्लिष्टत्वाच् चैत्ररथेनेत्यस्य क्षत्रियत्वावगतौ हेत्वन्तरपरत्वे च शब्दापातेन च सर्वस्यापि द्वितीयत्वमेव युक्तमिति वा परमते द्वितीयत्वात्तदभिप्रायेण वा स्वमतरीत्या वा द्वितीयेत्युक्तमिति ध्येयम् । अत्र रैक्वान्वितस्य जानश्रुतेः क्षत्रियत्वनिर्धारणं क्षत्रियप्रायपाठाधीनम् । सोभिप्रतारिणः क्षत्रियत्वाधीनः । तदपि तस्य चैत्ररथत्वनिर्धारणाधीनम् । तच्च तस्य कापेययाज्यत्वावधारणाधीनमित्युक्तम् । तत्र किमपि निर्धारयितुमशक्यम् । निर्धारकाभावादिति क्रमेणाह ॥ कापेयमिति ॥ कापेय एवेति ॥ अभिप्रतारिसहपाठेऽपि कापेये क्षत्रियत्वाभावादिति भावः । ननु सन्दिग्धक्षत्रियभावस्यैव निश्चितधर्मान्तरोपेतान्यसहपाठेन तादृशत्वनिश्चयः । ‘‘विशये प्रायदर्शना’’दित्युक्तम् । न चैवं कापेयः । येनातिप्रसङ्ग इत्यत आह ॥ निश्चितेति ॥
ननु कापेयादिसहपाठेऽपि न पौत्रायणस्य ब्राह्मण्यम् । तत्सन्देहस्य तस्मिन्बीजाभावेनाभावादिति चेन्न । संवर्गविद्याश्रोतृत्वादेस्तद्बीजत्वसम्भवात् । ननु तथापि ग्रामेशत्वादिना क्षत्रियलिङ्गेन ब्राह्मणसहपाठो बाध्यत इति चेत्तर्हि शूद्रश्रुत्या क्षत्रियसहपाठोऽपि बाध्यताम् । तद्यौगिकत्वस्याद्याप्यसिद्धेरिति भावः । ननु ब्राह्मणसहपाठः क्षत्रियत्वस्यैव लिङ्गं न ब्राह्मण्यस्येति शङ्कते ॥ न चेति ॥ यच्चेति ॥ उभाभ्यामिति सर्वत्र सम्बध्यते । ‘‘उपत्वानेष्ये तं होपनिन्य’’ इति जानश्रुतेरुपनयनसंस्कारपरामर्शात् ‘‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हती’’ति संस्काराभावाभिलापाच्चेति सूत्रार्थः ॥ चतुर्थ इति ॥ ‘‘नैतदब्राह्मणो विवक्तुमर्हति । समिधं सोम्या हरे’’ति शूद्रत्वाभावनिर्धारणे जात एव तं प्रति ब्रह्मोपदेशे प्रवृत्तेरिति सूत्रार्थः ॥ यच्चोक्तमिति ॥ ‘‘अथहास्य वेदं शृृण्वतस्त्रपुजतुभ्यां श्रोत्रपरिपूरणम् उदाहरणे शरीरभेद’’ इति स्मृत्या शूद्रस्य वेदश्रवणादिप्रतिषेधाच्च न तस्याधिकार इत्यर्थः । एतेन रामानुजरीतिदूषणेनैव तद्रीत्यविशिष्टं कस्यचिच्छैवस्य मतमपि प्रत्युक्तम् । सूत्रार्थोऽपि तथैव निरस्यः । यदत्रोक्तं द्वितीयसूत्रार्थदूषणेऽभिप्रतारिणः कापेयसम्बन्धः प्रतीयमानः श्रुत्यन्तरप्रसिद्धस्तद्याज्यत्वलक्षण एव पर्यवस्यतीति ‘‘याज्यत्वेन तद्योगाप्रतीते’’रिति दोषो न इति तन्न । तथा विशिष्यश्रुत्यन्तराभावात् । ‘‘चित्ररथं कापेया अयाजय’’न्नित्यस्य सामान्यत्वात् । अन्यथाऽभिप्रतारिणः कापेययाज्यत्वे सिद्धे चैत्ररथत्वसिद्धिस्तत्सिद्धौ कापेययाज्यत्वसिद्धिरित्यन्योन्याश्रयापत्तेः । किं चात्र सहपाठस्यैव श्रवणेन सम्बन्धस्याप्रतीतेश्च । अत एव सहपाठेऽपीत्युक्तम् । भोजनार्थं सहोपविष्टावित्येव हि पाठस्सहपाठः । न च तावन्मात्रेण कश्चन सम्बन्धस्सिध्यति । एतेनैव हस्तिहस्तिपयोस्सहस्थितयोर्दर्शनेऽयमस्य हस्तिप इतिवदत्राप्ययमस्य याजक इति ज्ञानं भवतीति निरस्तम् । याजकत्वप्रत्यायकाभावात् । अत एव याज्यत्वेनेत्युक्तमिति ।
चन्द्रिकाबिन्दुः
शोचितृत्वमिति ॥ तेन शोचतीति शूद्रः न तु शुचा द्रवतीति व्युत्पत्तिरिति भावः । आद्रवणे अनादरश्रवणे च शोकहेतुत्वं किं समानमित्याशङ्क्य तयोर्मध्ये एकस्य एकत्र ज्ञप्तिकारणत्वम् एकत्र तूत्पत्तिकारणत्वमित्यभिप्रेत्याह ॥ अनादरश्रवणं हीति ॥ चैत्ररथेन लिङ्गादित्यस्य चैत्ररथसमभिव्याहारात् तल्लिङ्गादिति । अयं चैत्ररथश्चाभिप्रतारीनामा कश्चन क्षत्रियः । अभिप्रतारिणश्च क्षत्रियत्वं कापेयाख्यऋषिसम्बन्धात् । कापेयो हि चित्ररथस्य पुरोहितः । चित्ररथश्च वाक्यान्तरबलात् क्षत्रिय इति सिद्धः । अभिप्रतारिणश्च कापेयः पुरोहितः । न च वाच्यं कापेयपुरोहितकत्वमात्रेण कथं क्षत्रियत्वमिति । चित्ररथवंशजातत्वाद् अभिप्रतारिणः । न च चित्ररथवंशजातकत्वमपि कथं निर्णेयमिति वाच्यम् । चित्ररथपुरोहितकापेयपुरोहितकत्वात् । लोके तद्वंशजानामेव कूटस्थपुरोहिता एव पुरोहिता भवन्तीति दृष्टम् । यथा वसिष्ठो दिलीपवंशजानाम् । तथा चाभिप्रतारी चैत्ररथः क्षत्रियः । तेन सहोक्तत्वलिङ्गेन पौत्रायणोऽपि क्षत्रिय इत्यादिसूत्रार्थ इति । उभाभ्यामित्युक्तं दूषयितुमनुवदति ॥
यच्चोक्तमुभाभ्यामिति ॥ ननु न ब्राह्मणसमभिव्याहारत्वेन प्रयोजकता किं तु दैशिकसमभिव्याहारात् पौत्रायणः क्षत्रिय इति उच्यते इत्यत आह ॥ रैक्वेति ॥ तन्मते साक्षादुपनयनस्योक्तत्वेन परामर्शशब्दास्वारस्यमित्याह ॥ अस्माकमिति ॥ साक्षादिति ॥ उपनयने ब्रह्मोपदेशसत्त्वेऽपि स न साक्षात् श्रुत इति भावः ॥