अन्ये तु
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु ॥ अध्ययनस्य पिण्डपितृयज्ञवत्स्वर्गार्थत्वेन पुरुषार्थतया स्वाध्यायसंस्कारत्वाभावादधीतेनैव स्वाध्यायेन जन्यब्रह्मज्ञानान्मोक्ष इति नियमाभावात् शूद्रस्याप्युपनयनाभावेऽपि पुस्तकपठितस्वाध्यायजन्यादपि ब्रह्मज्ञानान्मोक्ष इति शूद्रस्यापि अस्ति ब्रह्मविद्याधिकार इति प्राप्ते दृष्टे सम्भवत्यदृष्टस्याकल्प्यत्वेनाध्ययनस्य स्वाध्यायसंस्कारत्वेनोक्तनियमसम्भवात्पुस्तकपठितस्वाध्यायजन्यज्ञानान्न मोक्ष इति न शूद्रस्य वेद विद्याधिकार इति सिद्धान्तः ।
न चैवं पूर्वतन्त्रस्थापशूद्राधिकरणेन गतार्थता । तत्राप्यनधीयानस्य शूद्रस्याधीतस्वाध्यायजन्यविद्यासाध्यकर्मानधिकारार्थं विद्याभावोक्तेरिति वाच्यम् । तत्रानग्नेः शूद्रस्याग्निसाध्यकर्मानधिकार इत्येवोक्तया विद्याभावानुक्तेरित्याहुः । तन्न । तत्रापि ‘‘अवैद्यत्वादभावः कर्मणि स्या’’दिति सूत्रेऽवैद्यत्वग्रहणेन शूद्रस्य विद्याभावोक्तेः । ननु तत्रावैद्यत्वमभ्युच्चयमात्रम् । अध्ययनस्य संस्कारत्वानुक्तेः । इह तु ‘‘संस्कारपरामर्शा’’दित्यनेन तदुक्तिरिति चेन्न । त्वयापीह सूत्रे संस्कारशब्द उपनयनरूपसंस्कारार्थ इत्युक्तत्वेनाध्ययनस्य स्वाध्यायसंस्कारत्वानुक्तेः । किं चास्मद्रीत्या ‘‘स्वाध्यायोऽध्येतव्य’’ इति त्त्वयो(तव्यो)क्त दृष्टार्थगुणकर्मत्वस्य स्वीकारेण पूर्वपक्षसम्भवे तदस्वीकारेण स न युक्तः । अपि च पूर्वतन्त्रे प्रथमसूत्र एवाध्ययनस्य दृष्टार्थताया उक्तत्वात्तेन गतार्थत्वस्य न परिहारः । कथं च त्वन्मते गतार्थत्वाशङ्का । ऐकशास्त्र्याभावात् । तत्रोक्तस्य वेदनित्यत्वादेरिहापि ‘‘अत एव च नित्यत्व’’ मित्यादावुक्तयंगीकाराच्च ।
किं च सिद्धान्ते ‘‘तदभावाभिलापाच्चे’’ति सूत्रे शूद्रोपनयनाभावस्य ‘‘श्रवणाध्ययनार्थप्रतिषेधाच्चे’’ति सूत्रेऽध्ययनाभावस्य चोक्तत्वेनोपनयनाध्ययने उपेत्यैव पूर्वपक्षयितव्यम् । अध्ययनस्य प्रधानकर्मत्वेन पूर्वपक्षे हि सिद्धान्ते तस्य गुणकर्मतैव वाच्या । अपि च–
दशमस्त्वमसीत्यादिवाक्यादिव भवेद्ध्रुवम् ।
तत्त्वमस्यादिवाक्याच्च शूद्रस्याप्यपरोक्षधीः ॥ १ ॥
अतिक्रान्तनिषेधस्य व्युत्पन्नस्य शूद्रस्य ब्राह्मणादेरिव पुस्तकपठितादविधिनाधी-तादनधीताद्वा ‘‘तत्त्वमसी’’त्यादिवाक्यात् ‘‘दशमस्त्वमसी’’ति वाक्यादिव ज्ञानं तावज्जायत एव । साक्षात्त्वं च ब्राह्मणादेरिवास्यापि विषयस्वभावादेव भविष्यति । प्रतिबन्धनिरासोऽपि मनननिदिध्यासनाभ्यां सेत्स्यति । यदि चापरोक्ष्यस्वभावस्यापि ब्रह्मण आपरोक्ष्यं लोकविलक्षणत्वाददृष्टविशेषसाध्यं तर्हि तत एव तदापरोक्ष्यं सत्यस्यापि बन्धस्य निवर्तकं स्यात् ।
न च जातमपि ज्ञानं शूद्रकृतयागवन्न सफलमिति वाच्यम् । अज्ञाननिवृत्त्याख्यदृष्टफले ज्ञानस्यान्यानपेक्षत्वात् । इयं शुक्तिरिति वाक्यजं हि ज्ञानं शूद्रस्यापि शुक्त्यज्ञाननिवर्तकम् । अदृष्टद्वारेश्वरप्रसादद्वारा वा ज्ञानस्य बन्धनिवर्तकत्वं च परैर्नाङ्गीकृतम् । अङ्गीकारे च बन्धस्य ज्ञाननिवर्त्यत्वेन मिथ्यात्वोक्तिरयुक्ता स्यात् । अदृष्टनिवर्त्यत्वात् । विध्यतिक्रमेणोत्पन्नः प्रत्यवायस्तु शूद्रस्य प्रपञ्चान्तर्गतत्वाज्ज्ञानेन निवर्तिष्यते ।
प्रकाशिका
अन्ये त्विति ॥ ‘‘स्वाध्यायोऽध्येतव्य’’ इत्युक्ताध्ययनस्य प्रधानकर्मत्वसंस्कारकर्मत्वाभ्यां ब्रह्मविद्या शूद्राधिकारा न वेति सन्देहे भामत्युक्तौ पूर्वोत्तरपक्षावनुवदति ॥ अध्ययनस्येति ॥ अनिर्दिष्टफलकानां स्वर्गफलकत्वस्य ‘‘स स्वर्गःस्या’’दिति विश्वजिदधिकरणे दर्शितत्वात् ‘‘अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती’’त्यादेरनिर्दिष्टफलस्य स्वर्गफलकत्ववत् ‘‘स्वाध्यायोऽध्येतव्य’’ इत्युक्ताध्ययनस्याप्यनिर्दिष्टफलकत्वाद् अनारभ्याधीततया फलवत्कर्मारभ्यानाम्नानाज्जुह्वादिवत्क्रत्वव्यभिचरितत्वाभावात्क्रत्वर्थत्वासम्भवेन स्वर्गार्थतया पुरुषार्थत्वस्यैव वाच्यत्वात् । तथा चाध्ययनस्य स्वाध्यायेनाधीयीतस्वर्गकाम इति वचनव्यक्तया दर्शादिवत्प्रधानकर्मतया स्वाध्यायसंस्कारकत्वरूपगुणकर्मत्वं प्रोक्षणादिव नास्तीत्यर्थः ॥ दृष्टेति ॥ स्वाध्यायसंस्कारद्वारा निश्श्रेयसहेतुकर्मब्रह्मरूपार्थावबोधोऽध्ययनस्य दृष्टं फलमित्यर्थः ॥ उक्तनियमेति ॥ अधीतेनैव स्वाध्यायेन जन्यब्रह्मज्ञानान्मोक्ष इति नियमसद्भावादित्यर्थः ॥ न शूद्रस्येति ॥ उपनयनसाध्याध्ययनाभावादिति भावः । अध्ययनाभावादागन्तुक सामर्थ्याभावे सत्यनधिकार इति चेद्धन्ताधानाभावे सत्यग्न्यभावादग्नि साध्ये कर्मणि मा भूदधिकारः । न च ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नयोनाधिक्रियन्त इति भामत्युक्तगतार्थताशङ्कासमाधाने तदभिप्रायव्यञ्जनेनानुवदति ॥ न चैवमिति ॥ ‘‘अवैद्यत्वादभावः कर्मणि स्या’’दिति सूत्रेण विद्याभावोक्तेरित्यर्थः ॥ तत्रापीति ॥ पूर्वतन्त्रापशूद्राधिकरणे ॥ सूत्र इति ॥ गुणसूत्र इत्यर्थः । विद्यावान्वैद्यः स न भवतीत्यवैद्यस् तत्त्वात्कर्मणि शूद्रस्याधिकाराभाव इत्यर्थः । ‘‘अवैद्यत्वमभ्युच्चयमात्रम् । अभ्युच्चयत्वं चाध्ययनविधेः पुरुषार्थत्वशङ्कायास्तत्र अनिरासादिह संस्कारपरामर्शादित्यध्ययनविधेस्संस्कारकर्मविषयत्वसमर्थना’’दिति कल्पतरूक्तमाशङ्कते ॥ ननु तत्रेति ॥
नन्वयमप्यर्थोऽत्राभिप्रेयत इत्यत आह ॥ किञ्चेति ॥ तव्योक्तेति ॥ तव्यस्य कर्मणि स्मरणेनाध्ययनस्य स्वाध्यायसंस्कारत्वरूपगुणकर्मत्वस्यैव प्रतीतेः । अन्यथा ‘‘ज्योतिष्टोमेने’’तिवत्स्वाध्यायेनाधीयीतेति स्यादित्यर्थः ॥ प्रथमसूत्र इति ॥ ‘‘अथातो धर्मजिज्ञासे’’त्यत्राध्ययनविधौ फलाश्रवणाद्विश्वजिन्न्यायेन स्वर्गः कल्प्य इति प्राप्ते दृष्टे सम्भवत्यदृष्टायोगादर्थावबोधः फलमित्युक्तत्वादित्यर्थः ॥ ऐकेति ॥ रामानुजमत इव पूर्वोत्तरतंत्रयोरित्यर्थः । ‘‘अत एव जगतो वेदशब्दप्रभवत्वादेव । वेदशब्दनित्यत्वमपि प्रत्येतव्य’’मिति त्वया भाषितत्वादित्यर्थः । पूर्वपक्षस्य सूत्रावतारिकारूपस्य सूत्रपदनिवर्त्यस्यैव वक्तव्यत्वादेवंरूपपूर्वपक्षश्च न सूत्रानुगुण इत्याह ॥ किञ्चेति ॥ मोक्षहेतुशाब्दापरोक्ष ज्ञानस्यानधीयाने शूद्रेऽपि सम्भवात्सिद्धान्तोऽप्ययुक्त इत्याह ॥ अपि चेति ॥ नन्वप्रतिबद्धापरोक्षज्ञानमेव मोक्षहेतुः । शूद्रस्य तु न तादृशमित्यत आह ॥ प्रतिबन्धेति ॥ अदृष्टेति ॥ शूद्रस्य तदभावादिति भावः । अत एव अदृष्टविशेषसाध्यत्वादेवेत्यर्थः । ननूत्पन्नेऽपि ज्ञाने विध्यतिक्रमप्रत्यवायप्रतिबद्धत्वान्न कार्यक्षममित्यत आह ॥ विध्यति क्रमेणेति ॥
चन्द्रिकाबिन्दुः
पिण्डपितृयज्ञादिवदिति ॥ पिण्डपितृयज्ञग्रहणं क्रत्वर्थपुरुषार्थत्वविचारास्पदत्वात्तस्येत्यभिप्रायेण । अन्यथा ज्योतिष्टोमादिवदित्यवक्ष्यत् । अध्ययनस्य गुरूच्चारणानूच्चारणलक्षणक्रियायाः ॥ न शूद्रस्येति ॥ उपनयनासंस्कारादि सापेक्षाध्ययनवेदजन्यब्रह्मज्ञानाधिकारो नास्तीत्यर्थः । विद्याभावोक्तिरभ्युच्चययुक्तिरित्यत्र ज्ञापकमाह ॥ अध्ययनस्येति ॥ अध्ययनक्रियाया वेदसंस्कारत्वानुक्तेरित्यर्थः ॥ तव्योक्तेति ॥ अध्ययनेन स्वाध्यायं संस्कुर्यादिति तदर्थ इति भावः । तदस्वीकारेणेति ॥ किन्तु प्रधानकर्मत्वस्वीकारेणेति शेषः। ननु शास्त्रान्तरोक्तस्य पुनश्शास्त्रान्तरोक्तौ गतार्थत्वशङ्काभयः कुत इत्यत आह ॥ तत्रोक्तस्येति ॥ पूर्वपक्षयितव्यमिति ॥ न तु त्वद्रीत्या उपनयनाभावेन अध्ययनाभावमभ्युपेत्य सिद्धान्तेऽपि तदभावोपपादनादिति भावः ॥ वाच्येति ॥ न त्वध्ययनाभावप्रतिपादनमिति शेषः ।
ननु शूद्रस्य तत्त्वमसीति वाक्याज् ज्ञानमुत्पन्नं तथापि तन्नापरोक्षमित्यत आह ॥ साक्षात्त्वं चेति ॥ विषयस्वभावात् । ननु असम्भावनाविपरीतसम्भावनाख्यप्रतिबन्धे सति कथं शूद्रस्य प्रतिबद्धापरोक्षज्ञानमित्यत आह ॥ प्रतिबन्धनिरासोऽपीति ॥ अदृष्टविशेषसाध्यमिति ॥ अध्ययनादिजन्यादृष्टसाध्यविशेषमित्यर्थः ॥ तत एवेति ॥ तादृशापरोक्षज्ञानस्य अदृष्टविशेषसहकृतवेदादिजन्यत्वेन लौकिकज्ञानविलक्षणत्वादेवेत्यर्थः ॥ अङ्गीकार इति ॥ अदृष्टेश्वरप्रसादादीनां द्वारत्वाङ्गीकारे ईश्वरप्रसादादिसहितज्ञानस्य सत्यनिवर्तकत्वमपि वक्तुं शक्यमेवेति मिथ्यात्वाङ्गीकारो व्यर्थ इति भावः । शूद्रस्य तत्त्वमसीति वाक्यजं ज्ञानं विध्यतिक्रमेणोत्पन्नप्रत्यवायप्रतिबन्धवशान् न बन्धनिवर्तकमित्यत आह ॥ विध्यतिक्रमेणेति ॥
पाण्डुरङ्गि
स्वरूपकथनार्थत्वं वैयर्थ्यापरपर्याय एवेत्यभिप्रेत्य । प्रयोजनान्तरमाह ॥ अश्वतरीयुक्तेति ॥ उक्तनियमेति ॥ अधीतेनैव स्वाध्यायेन जन्यब्रह्मज्ञानस्यैव मोक्षसाधनत्वमिति नियमसम्भवादित्यर्थः ॥ त्वयापीति ॥ तथा चात्राप्य वैद्यत्वस्याभ्युच्चयमात्रत्वापत्त्या तेन गतार्थता स्यादेवेति भावः । शूद्रस्य ब्रह्मविद्यायामनधिकारं वदन् पृष्टव्यः । किं तत्त्वमस्यादिवाक्याच्छूद्रस्य ज्ञानमेव नोत्पद्यत उतोत्पन्नमपि निष्फलमिति । नाद्य इत्याह ॥ अतिक्रान्तनिषेधस्येति ॥ न चाकाङ्क्षाद्यनुसारेण वाक्यस्यार्थबोधकत्वादव्युत्पन्नस्य शूद्रस्य कथं वाक्यादर्थबोध इत्यत उक्तं व्युत्पन्नस्येति ॥ तथापि निषेधे विद्यमाने कथं तत्र प्रवृत्तिरित्यतोऽतिक्रान्तनिषेधस्येति । दशमस्त्वमसीति वाक्यादिवेत्यनेन व्युत्पन्नस्य शूद्रस्य दशमस्त्वमसीति वाक्याद्दशमत्वज्ञानं जायते । अन्यथा तदपि न स्यादित्यतिप्रसङ्गं सूचयति ।
ननु तत्त्वमसीति वाक्याज्जायमानं ज्ञानं ब्राह्मणादेरपरोक्षं भवति । न तथा शूद्रस्येत्यतो न शूद्रस्याधिकार इत्यत आह ॥ ब्राह्मणादेरिवेति ॥ शब्दजन्यज्ञानस्यापरोक्षत्वे विषयापरोक्षत्वस्यैव प्रयोजकत्वेन शूद्रस्यापि तत्त्वमस्यादिवाक्याज्जायमानापरोक्षभूतब्रह्मविषयत्वादपरोक्षमेव । अन्यथा ब्राह्मणादेरपि तत्त्वमस्यादिवाक्यजन्यज्ञानस्यापरोक्षत्वं न स्यादित्यर्थः । ननु तथापि शूद्रस्यापरोक्षज्ञानं न सम्भवति । चित्तैकाग्रयायोग्यत्वरूपासम्भावनाया वा विपरीतसंस्काररूपविपरीतसम्भावनाया वा प्रतिबन्धकत्वादिति चेत् तर्हि तत एव न ब्राह्मणस्याप्यपरोक्षधीः । यदि च तत्र मनननिदिध्यासनाभ्यामेवोक्तप्रतिबन्धनिरासस्तर्हि शूद्रस्यापि तत्समानमित्याह ॥ प्रतिबन्धनिरासोऽपीति ॥
ननु ब्रह्मणो लोकविलक्षणत्वात्तदापरोक्ष्यस्यादृष्टसाध्यत्वाच्छूद्रे चापरोक्षप्रयोजकादृष्टाभावेन तत्साध्यापरोक्षज्ञानस्याप्यसम्भव इत्यत आह ॥ यदि चेति ॥ तत एवेति ॥ शुक्तिकाज्ञानस्य सत्यनिवर्तकत्वादर्शनेऽपि ब्रह्मज्ञानस्य लोकविलक्षणत्वात्सत्यबन्धनिवर्तकत्वोपपत्त्या ज्ञाननिवर्त्यत्वेन बन्धस्य मिथ्यात्वोक्तिर्न स्यादिति भावः । द्वितीयमाशङ्कते ॥ न चेति ॥ अत्र वक्तव्यं ज्ञानस्य फलमज्ञाननिवृत्तिर्वोतादृष्टद्वारेशप्रसादद्वारा बन्धनिवृत्तिर्वा । नाद्य इत्याह ॥ अज्ञाननिवृत्त्याख्येति ॥ ननु ज्ञानस्याप्यज्ञाननिवर्तकत्वमदृष्टद्वारैव । तथा च शूद्रस्य ज्ञाने विद्यमानेऽपि द्वारभूतादृष्टाभावान्न तेनाज्ञाननिवृत्तिरूपं फलं शूद्रस्येत्यत आह ॥ इयं शुक्तिरितीति ॥ अन्यथा शूद्रस्येयं शुक्तिरिति वाक्यजन्यज्ञानेन शुक्तयज्ञाननिवृत्तिर्जायते सा न स्यात् । तत्रापि द्वारभूतादृष्टाभावात् । तस्मात्साक्षादेव ज्ञानस्याज्ञाननिवर्तकत्वे शूद्रस्य तत्त्वमस्यादिवाक्यजन्यज्ञानस्याप्यज्ञाननिवर्तकत्वमावश्यकमिति भावः । अस्तु तर्हि ज्ञानस्यादृष्टद्वारेश्वरप्रसादद्वारा वा बन्धनिवृत्तिरेव फलमिति द्वितीयो निरवद्यत्वादित्यत आह ॥ अदृष्टद्वारेति ॥ परैरित्यनेन तदङ्गीकारेऽपसिद्धान्तं सूचयति ॥ यस्तु वैयात्याज्ज्ञानस्य प्रसादादिद्वारैव बन्धनिवर्तकत्वं ब्रूयात्तं प्रत्याह ॥ अङ्गीकारे चेति ॥ मिथ्यात्वोक्तिरयुक्तेति ॥ ज्ञानत्वेन ज्ञाननिवर्त्यत्वस्यैव मिथ्यात्वरूपत्वादित्यर्थः । ननु च शूद्रस्य तत्त्वमस्यादिवाक्याज्जातस्य ज्ञानस्याज्ञाननिवृत्त्याख्ये दृष्टफलेऽन्यानपेक्षत्वेनाज्ञाननिवृत्तावपि विध्यतिक्रमेणोत्पन्नप्रत्यवायेन साफल्यासम्भवादित्यत आह ॥ विध्यति क्रमेणेति ॥