अत्र चाद्ये सूत्रे ..
सूत्रक्रमयोजना
तात्पर्यचन्द्रिका
अत्र चाद्ये सूत्रे ‘‘तदाद्रवणा’’दित्यनेन शुचा द्रवणाच्छूद्र इति शूद्रशब्दस्य यौगिकत्वोक्तिः । ‘‘शुगस्य तदनादरश्रवणात्’’ इत्यनेन शोके कारणोक्तिः । ‘‘सूच्यते ही’’त्यनेन शोके व्यग्रताख्यकार्यरूपलिङ्गोक्तिः । द्वितीये वाक्यशेषस्थस्य रूढिबाधकस्योक्तिः । तत्र रथस्यान्यदीयत्वशङ्कानिरासाय भावप्रधानेन चैत्ररथशब्देन पौत्रायणस्य चित्ररथसम्बन्धित्वमुक्तम् । अन्यथा चित्ररथेनेत्यवक्ष्यत् । तत्र च रथमात्रमेव लिङ्गम् । चित्रपदं तु स्वरूपकथनार्थम् । अश्वतरीयुक्तापूर्वरथयोगेन क्षत्रियत्वसम्भावनार्थं वा । तृतीया पञ्चम्योर्हेतुरूपैकार्थत्वाद् व्यत्ययेन तृतीयायाः पञ्चम्यादेशाद्वा रथेन लिङ्गादिति सामानाधिकरण्यम् । अत एवोक्तं भाष्ये ‘‘चित्ररथसम्बन्धित्वेन लिङ्गेने’’ति । तृतीये रूढिबाधके शूद्रस्याध्ययनाङ्गोपनयनाभावे श्रुत्यन्तरोक्तिः । चतुर्थे तत्रैव श्रुत्यन्तरस्थलिङ्गोक्तिः । पञ्चमे तूपनयनाद्यभावेऽप्यध्ययनाद्यस्त्विति शङ्काया निरासः । यद्यप्यत्राद्यसूत्रस्थपरपक्षसाधकनिरासादपि द्वितीयादिस्थस्वपक्षसाधकमेव पूर्वं वक्तव्यम् । तथापि परेण शूद्रशब्दबलादेव सिद्धान्तहेतूनामन्यथयितत्वेन तन्निरासं विना तेषामसिद्धेस् तथा परसाधकनिरासे यत्नाधिक्यात् स्वपक्षसाधकानां तु स्फुटत्वात्तेषां पश्चादुक्तिरिति सूत्रक्रमः ॥
प्रकाशिका
आद्यसूत्र इति ॥ ‘‘शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते ही’’त्यत्र । ‘‘कम्वर एनमेतत्सन्तं स युग्वानं रैक्वमिवात्थे’’ति तत्कृतस्य हंसकृतस्यानादरस्य ‘‘तदुह जानश्रुतिः पौत्रायण उपशुश्रावे’’ति पौत्रायणेन श्रवणादस्य शुक् शोक आसीत् । तया शुचाऽऽद्रवणात्पौत्रायणः ‘‘अहहारेत्वाशूद्रे’’ति रैक्वेण सम्बोधितः । न तु वर्णावरत्वात् । सा हि शुक् ‘‘सहसंजिहान एव क्षत्तारमुवाचे’’त्युक्तव्यग्रतारूपकार्यलिङ्गेन सूच्यते हीति टीकोक्तमर्थं निष्कृष्याह ॥ तदिति ॥ शुक्शब्दोपपदाद्द्रु गतावित्यस्माद्धातोरौणादिके डप्रत्यये गकारलोपे शुद्रेति रूपम् । तथैव निर्देष्टव्ये यश्शूद्रेत्युकारस्य दैर्ध्येण निर्देशः स तस्य शोकाधिक्यज्ञापनाय । ‘‘आधिक्येऽधिक’’मिति सूत्रात् । अत एव सूत्रे तद्द्रवणादिति वक्तव्ये तदाद्रवणादित्याङ्प्रयोग ऊकाररूपदीर्घस्वरार्थज्ञापनाय प्रयुक्त इति टीकायामेव व्यक्तमिति भावः ।
द्वितीये क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गादित्यत्र ‘‘अहहारेत्वाशूद्रे’’ति सम्बोधनादुत्तरत्र वाक्ये ‘‘अयमश्वतरीरथ’’ इति चित्ररथशब्दिताश्वतरीयुक्तरथसम्बन्धित्व रूपाल्लिङ्गात्पौत्रायणस्य क्षत्रियत्वावगतेरित्युक्तत्वादिति भावः । तत्र चैत्ररथेनेति तद्धितस्य भावार्थत्वप्रतीतिं निवारयति ॥ तत्रेति ॥ चित्रश्चासौ रथश्च चित्ररथः । चित्ररथस्यायं चैत्ररथः । ‘‘तस्येद’’मित्यण्प्रत्ययः । सम्बन्धश्च स्वाभाविकस्स्वस्वामिभावरूपः । स च भावप्रधानः । चैत्ररथत्वेनेत्यर्थः । ननु चित्रशब्दस्यैव ‘‘रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयत’’ इति स्मृत्याऽश्वतरीयुक्तरथवाचित्वाच्चैत्रेण लिङ्गादिति वक्तव्यं न तु रथेनेति चेत्सत्यम् । यथा भक्तिशब्दस्य ज्ञानस्नेहोभयवाचित्वेऽपि ज्ञानभक्ती इत्यादौ भक्तिशब्दस्यैकदेशस्नेहमात्रार्थत्वं तथेहाप्यश्वतरीयुक्तविशेषणमात्रार्थकत्वाच्चित्रशब्दस्य । चैत्रेणेत्युक्तौ तस्यानेकार्थत्वाच्छिष्याणां व्यामोहस्स्यात् । स मा भूदिति रथशब्दोऽपि प्रयुक्तः । तर्हि चैत्ररथाल्लिङ्गादिति वाच्यमित्यत आह ॥ तृतीयेति ॥ ‘‘हेता’’विति सूत्रे हेतुत्वे तृतीयाविधानात् ‘‘विभाषा गुणेऽस्त्रिया’’मित्यत्र हेतावित्यनुवर्त्य पञ्चमीविधानात्परतन्त्रमात्रस्य गुणत्वोक्तेरित्यर्थः । तृतीये संस्कारपरामर्शात्तदभावाभिलापाच्चेत्यत्र । ‘‘अष्टवर्षं ब्राह्मणमुपनयीते’’त्यादिश्रुतावध्ययनार्थमुपनयनरूपसंस्कारपरामर्शात् ‘‘नाग्निर्न यज्ञ’’ इति श्रुतौ च शूद्रस्य तदभावाभिलापाच्चायं शूद्रशब्दो न रूढ इत्यर्थोक्तेरिति भावः । चतुर्थे तदभावनिर्धारणे च प्रवृत्तेरित्यत्र । गौतमस्य ‘‘नाहमेतद्वेद यद्गोत्रोऽहमस्मी’’ति सत्यकामवचनेन ‘‘नैतदब्राह्मणो विवक्तुमर्हती’’ति शूद्रत्वाभावनिर्धारण एव ‘‘समिधं सोम्याहर उपत्वानेष्य’’ इति तदुपनयने प्रवृत्तेः । सा च शूद्रोपनयननिषेधाभावेन युक्तेति श्रुत्यन्तरगतस्य शूद्रत्वाभावनिश्चयेन प्रवृत्तिरूपलिङ्गस्योक्तिरित्यर्थः । पञ्चमे श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्चेत्यत्र । ‘‘श्रवणेत्रपुजतुभ्यां श्रोत्रपरिपूरण’’मित्यादिश्रुतौ शूद्रस्य वेदश्रवणाध्ययनार्थावधारणानां प्रतिषेधात् ‘‘नाग्निर्न यज्ञः शूद्रस्य तथैवाध्ययनं कुत’’ इति स्मृतेश्चेत्युक्तेरिति भावः ॥ परपक्षसाधकेति ॥ शूद्रशब्दरूढेः परपक्षसाधकत्वाद्रथवत्त्वरूपलिङ्गस्य स्वपक्षसाधकत्वादित्यर्थः ।
चन्द्रिकाबिन्दुः
अ एवार्थिकशाब्दसामानाधिकरण्ययोरन्यतरस्याभिप्रेतत्वादेव । श्रुत्यन्तरोक्तिरिति हेतुगर्भम् । एवमुत्तरत्र ॥ यद्यप्यत्राद्यसूत्रस्थेति ॥ पौत्रायणे क्षत्रियत्वस्य साध्यत्वेन तत्र बाधकत्वेन प्राप्तो योऽपशूद्रशब्दस् तस्यागतिककथनपरत्वादिति भावः ॥