०३ सिद्धान्तनिरूपणम्

सिद्धान्तस्तु

सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ॥

शूद्रशब्दस्य रूढत्वे रथवत्त्वादिबाधकम् ।

रथकारादिशब्दे तु रूढेर्नैवास्ति बाधकम् ॥ १ ॥

अस्ति ह्यत्र ‘‘अयमश्वतरीरथ’’ इति वाक्यशेषस्थं पौत्रायणस्य रथवत्त्वं रूढेर्बाधकम् । भाष्योक्तस्मृत्या शूद्रे रथायोगात् । यद्यपि ‘‘न वेदो यत्र नो रथ’’ इति स्मृत्या रथस्य वेदं प्रति व्याप्यत्वेऽपि पूर्वपक्षिणा शूद्रेऽपि वेदाङ्गीकारान्न रथेन लिङ्गेन वेदानुमानद्वारा शूद्रत्वाभावसिद्धिः । तथापि क्षत्रिये रथस्य स्वाभाविकत्वात्तदन्यत्र चागन्तुकत्वात्स्वाभाविकसम्भवे च नैमित्तिकग्रहणायोगात्साक्षाद्रथेनैव क्षत्रियत्वसिद्धिः ।

न च शूद्रश्रुतेः स्वारस्याय लिङ्गस्यास्वारस्यमिति युक्तम् । हारेत्वातवैवेतीत्वशब्दार्थरथसम्बन्धवाचिन्यास्तवेति षष्ठ्याः क्षत्रियत्वे लिङ्गत्वेऽपि रथसम्बन्धे श्रुतित्वात् । वाक्यशेषस्थं क्लृप्तं शुचा द्रवणरूपं योगं विहाय ‘‘जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस सह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेत्स्यन्ती’’त्यादिपूर्ववाक्यस्थेन सर्वत आवसथ निर्माणादिना तथा ‘‘अयं ग्रामो यस्मिन्नास्स’’ इत्याद्युत्तरवाक्यस्थेन ग्रामेशत्वादिना तथा ‘‘राजा पौत्रायणः शोकाच्छूद्रेति मुनिनोदित’’ इत्यादिस्मृत्या च क्षत्रियत्वावगतेस्तद्विरुद्धरूढिग्रहणायोगाच्च । अत एव सूत्रे ‘‘क्षत्रियत्वावगते’’रित्येवोक्तम् । भाष्ये त्वागन्तुकस्यापि रथस्य वेदं विनाऽयोगाद्वेदस्य च ‘‘संस्कारपरामर्शा’’दित्याद्युत्तरसूत्ररीत्या शूद्रेऽयोगाद्रथेन वेदानुमानद्वारेणाशूद्रत्वसिद्धिरुक्ता ।

यद्वा निषादस्य वेदाभावेऽपि तात्कालिकोपदेशात् ‘‘एतया निषादस्थपतिं याजये’’दिति वाक्यविहितस्थपतीष्टिमात्र इव पौत्रायणस्यापि शूद्रत्वेन वेदाभावेऽपि संवर्गविद्यामात्राधिकारोऽस्त्विति शङ्कानिरासायागन्तुकस्यापि रथस्य वेदव्याप्यतोक्ता भाष्ये । विप्रक्षत्रार्थमपलायनमपि शूद्रस्य पदातितयैवेति टीकायामेवोक्तम् । न च पौत्रायणेन रैक्वाय दीयमानो रथोऽन्यदीय इति युक्तम् । स्वत्वाभावे दानायोगात् । स्वतः प्राप्ततदीयत्वे बाधकाभावाच्च । तवैव सह गोभिरिति वाक्यशेषविरोधाच्च । तस्माद्बाधकाच्छूद्रशब्दे रूढित्यागः । रथकारादिशब्देषु तु न रूढिबाधकमस्तीति वैषम्यम् ।

प्रकाशिका

द्वितीयसूत्रभाष्याद्युक्तबाधकाच्छ्रौतशूद्रशब्दस्य रूढित्यागेनाद्यसूत्रभाष्याद्युक्तदिशा यौगिकत्वावश्यंभावात् कल्पकाभावेन, संस्कारादिसूत्राद्युक्तोपनयनाद्यभावश्रुतिलिङ्गदर्शनादिनाऽधिकारप्रयोजकाध्ययनादेरयोगान्नाधिकार इति भावेन द्वितीयसूत्रभाष्याद्युक्तं प्रमेयं तावत्सङ्गृह्याह ॥ शूद्रशब्दस्येति ॥ आदिपदेन वक्ष्यमाणग्रामेशत्वादिग्रहः । अतिप्रसङ्गं निराह ॥ रथकारेति ॥ पूर्वार्धं व्यनक्ति ॥ अस्ति हीति ॥ ‘‘रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्स’’ इति वाक्यशेषस्थमित्यर्थः । वाक्यशेषेत्युक्तया रथवत्त्वस्य पक्षधर्मतोक्ता । रूढेः शूद्रशब्दे । टीकायां भाष्यदिशा शूद्रे वेदाभावेन तदविनाभूतरथाभावमुपपाद्य ‘‘क्षत्रियस्य स्वाभाविकत्वादन्येषामागन्तुकत्वात् स्वाभाविकस्यागन्तुकादाधिक्य’’दिति रथस्य क्षत्रिये स्वाभाविकत्वमुपपादितम् । तत्र भाष्योक्तं समाधिं संस्कारसूत्रावतरणपरटीकोक्तरीत्याऽऽक्षिप्य टीकोक्तमुपपादयति ॥ यद्यपीत्यादिना ॥ स्मृत्येति ॥ ‘‘यत्र वेदो रथस्तत्रे’’ति स्मृत्येत्यर्थः ॥ वेदाङ्गीकारादिति ॥ तथैव प्रागुक्तेरिति भावः । तथापीत्यभ्युपगमवादः । भाष्योक्तसमाधेरपि भाष्ये त्वित्यादिनोपपादयिष्यमाणत्वात् ॥ स्वाभाविकत्वादिति ॥ अयं च सूत्रे चैत्ररथेनेति सम्बन्धवाच्यण्प्रत्ययप्रयोगसूचितस्समाधिः । ननु दुर्बलेन लिङ्गेन कथं श्रुतिबाधः । वैपरीत्यस्यैवौचित्यादित्याशङ्क्य निराह ॥ न चेति ॥ अस्वारस्यम् आगन्तुकपरत्वम् ॥ सम्बन्धेति ॥ ‘‘षष्ठी शेष’’ इति स्वस्वामिभावादौ षष्ठ्या विधानात्सम्बन्धस्यागन्तुकत्वे श्रुतिबाधादित्यर्थः ।

ननूभयोश्श्रुतित्वाविशेषे निर्णयो न स्यात् । प्रत्युत शूद्रेति प्रातिपदिकश्रुत्या प्रबलया प्रत्ययश्रुतेरेवास्वारस्यं युक्तमित्यत आह ॥ वाक्येति ॥ ‘‘कम्वर एनमेतत्सन्तं स युग्वानं रैक्वमिवात्थे’’ति हंसकृतानादरश्रवणेन तस्य शोकोत्पत्तेः ‘‘सहसञ्जिहान एव क्षत्तारमुवाचे’’ति शयनादुत्थानानन्तरमेव रैक्वान्वेषणवचनलिङ्गेनावगमात्तेन च मुनिं प्रत्याद्रवणाच्छुचा द्रवणरूपो योगः क्लृप्त इत्यर्थः । विहायेत्यस्य तद्विरुद्धरूढिग्रहणायोगाच्चेत्यन्वयः । एतच्चाद्यसूत्रभाष्यादितात्पर्यकथनम् । ननु मुनिना सर्वज्ञेन तदीयं शुचा द्रवणं विज्ञाय तदभिप्रायेणैव शूद्रेति सम्बोधितः पौत्रायण इत्यत्र न किञ्चित्कल्पकम् । येन तथा जानीम इत्यत आह ॥ जानश्रुतिरिति ॥ आवसथान् आवासस्थानानि । सर्वत आगत्य मेऽन्नमत्स्यन्तीति बुद्ध्या कारयामासेत्यर्थः । यस्मिन्नास्से वर्तसे । आस उपवेशन इत्यस्य मध्यमपुरुषैकवचनम् । अयं ग्रामस् तुभ्यं दीयत इत्यर्थः । ‘‘मुनिनोदितः । प्राणविद्यामवाप्यास्मात्परं धर्ममवाप्तवा’’निति छान्दोग्यभाष्योदाहृतस्मृत्येत्यर्थः । स्वाभाविकेन रथेनैव साक्षात्क्षत्रियत्वावगमो न वेदद्वारेत्युक्तम् । तत्र सौत्रं ज्ञापकमाह ॥ अत एवेति ॥ इत्येवोक्तं न तु लिङ्गाद्बेदानुमानद्वारा क्षत्रियत्वावगतेरित्युक्तमित्यर्थः । यद्वा न त्वशूद्रत्वावगतेरित्युक्तमित्येवकारार्थः । पारंपर्याश्रयणे हि तथा निर्देशस्स्यादिति भावः । एवं सति भाष्ये पारंपर्याश्रयणं किमर्थमाश्रितम् । कथमुपपद्येत च । शूद्रेऽपि वेदाभ्युपगमात् । त्रैवर्णिकमात्रचिह्नेन रथेन त्रैवर्णिकविशेषक्षत्रियत्वावगमायोगाच्चेत्यतोऽभिप्रायं द्वेधा व्यनक्ति ॥ भाष्ये त्विति ॥ उत्तरसूत्रेति ॥ व्यक्तमेतदनुपदमेवेति भावः ॥ अशूद्रत्वेति ॥ एतेनास्मिन्पक्षे भाष्यादौ क्षत्रियत्वपदमशूद्रत्वपरमिति सूचितम् । अत एव टीकायां ‘‘नन्वेवं वैदिकमात्रे विद्यमानं रथित्वं कथं क्षत्रियत्वे लिङ्ग’’मित्याक्षिप्य रथस्य क्षत्रिये स्वाभाविकत्वेनैव समाधानमुक्तमिति भावः । नन्वेवं सूत्रादावशूद्रत्वावगतेरित्येव वाच्यम् । लाघवादिति चेन्न । वस्तुतस्तस्य क्षत्रियत्वेन तदभिप्रायात् । स्वाभाविकरथस्वीकारपक्षे तथैव वक्तव्यत्वाच्चेति ध्येयम् ॥ इति शङ्कानिरासायेति ॥ विद्यामात्रेऽधिकाराभावेऽपि तद्विशेषसंवर्गविद्यायामधिकारोऽस्त्वित्याशङ्कायां शूद्रे वेदाभावेन तद्व्याप्यरथोऽपि नेति नायं संवर्गविद्यायामधिकारीति वक्तुं वेदव्याप्यतोक्ता भाष्य इत्यर्थः । ननु शूद्रे स्वाभाविकस्यान्तुकस्य वा रथस्यायोगेन नायं शूद्रशब्दो रूढ इति यदुक्तं तदयुक्तम् । ‘‘अपलायनं हि शूद्रस्य विप्रक्षत्रार्थमिष्यत’’ इत्यष्टादशाध्याय गीतातात्पर्योक्तस्मृत्या शूद्रस्यापि युद्धप्रतीत्या रथवत्त्वसिद्धेरित्यत आह ॥ विप्रेति ॥ ‘‘न च वाच्यं पौत्रायणेन दीयमाने’’त्यादिटीकां विवृण्वन् लिङ्गस्यान्यथासिद्धिमाशंक्य निरवकाशतामाह ॥ न चेति ॥ एवं पूर्वार्धविवरणमुखेन टीकाभाष्यार्थं प्रपञ्च्य ‘‘रथकारे’’त्युत्तरार्धं व्यनक्ति ॥ रथकारेति ॥

चन्द्रिकाबिन्दुः

रथेन लिङ्गेनेति ॥ शूद्रस्यापि वेदेऽधिकारं वदन्तं प्रति रथेन वेदमनुमाय वेदवत्त्वादयमशूद्र इति वक्तुमुचितं न भवतीति भावः । स्वयं सूत्रस्यार्थान्तरमभिप्रेत्य स्वाभाविकरथवत्त्वलिङ्गेन क्षत्रियत्वमेव साधितमिति सूत्रार्थमाह ॥ तथापीति ॥ लिङ्गस्यास्वारस्यमिति ॥ रथवत्त्वमेवोच्यते न तु स्वाभाविकरथवत्त्वं, येन क्षत्रियत्वावगतिः स्यादिति भावः । रथसम्बन्धो हि लिङ्गं क्षत्रियत्वे, स च श्रौत एव, शूद्रश्रुतिवद् रथसम्बन्धे षष्ठ्या अपि श्रुतित्वादिति भावः । बहुपाक्यः बहुस्थलेषु पाककारयिता । अत एव रथसम्बन्धस्य साक्षात् क्षत्रियत्व एव लिङ्गत्वात् । तर्हि भाष्ये रथेन वेदानुमानपर्यन्तधावनं किमर्थमित्यत आह ॥ भाष्ये त्विति ॥ शूद्रे आगन्तुकरथनिरासस्यापि किं प्रयोजनमित्यतः प्रयोजनं दर्शयन् पक्षान्तरमाह ॥ यद्वेति ॥ वेदव्याप्यतोक्तेति ॥ वेदश्चोपनयनादिसंस्कारसापेक्षः । स च शूद्रे निषिद्धः । अतो न वेदः,अतो न रथस् तस्मान्न शूद्रः । ननु आगन्तुकरथस्यापि कथं निषेधः । विप्रक्षत्रार्थमित्युक्तेरित्यत आह ॥ विप्रेति ॥

पाण्डुरङ्गि

हारेत्वातवैवेति ॥ तथा च लिङ्गस्य निरवकाशत्वान्न श्रुतिस्वारस्यार्थं लिङ्गास्वारस्यमित्यर्थः ॥ अत एवेति ॥ साक्षाद्रथेनैव क्षत्रियत्वसिद्धेः संमतत्वादेवेत्यर्थः । तर्हि भाष्ये मध्ये वेदोक्तिरयुक्तेत्यत आह ॥ भाष्ये त्विति ॥ अनेन संस्कारपरामर्शादित्युत्तरसूत्रसहितस्यैव क्षत्रियत्वावगतेश्चेत्यस्य सूत्रस्य पौत्रायणस्य क्षत्रियत्वसाधकत्वं न केवलस्येति प्राप्तम् । अतः पक्षान्तरमाह ॥ यद्वेति ॥ दानायोगादिति ॥ स्वस्वत्वपरित्यागेन परस्वत्वापादनस्यैव दानशब्दार्थत्वादिति भावः ।


यत्तूक्तं परैः ..

तात्पर्यचन्द्रिका

यत्तूक्तं परैः शूद्रशब्दस्यार्थवादस्थत्वाद्रूढित्यागो, रथकारशब्दस्य तु विधिवाक्यस्थत्वात्तदत्याग इति वैषम्यमिति तन्न । मीमांसकमतेऽर्थवादानां स्वार्थपरत्वाभावेऽपि परमतेऽसति बाधकेऽर्थवादेष्वपि स्वार्थात्यागस्य सति बाधके विधावपि स्वार्थत्यागस्य सत्त्वेन तौल्यात् । अहहारेत्वाशूद्रेत्यस्यार्थवादस्य विधिसन्निध्यभावाच्च । किं चाध्ययनमुपनयनसापेक्षम् । शूद्र उपनयनाभावश्च भाष्योक्तश्रुत्यादिसिद्ध इति कथं शूद्रस्याध्ययनम् । न च ‘‘अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीते’’ति श्रुतौ ब्राह्मणस्यैवाध्ययन उपनयनापेक्षा नान्यत्रेति युक्तम् । तमध्यापयीतेत्यत्रोपनीतमात्रपरामर्शात् । ‘‘स्वाध्यायोऽध्येतव्य’’ इत्यध्ययनविधेरनिर्दिष्टकर्तृकत्वेन प्रकृतोपनीतानामेव कर्तृत्वेनान्वयाच्च । ‘‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मने’’ति स्मृत्योपनयनाख्यद्वितीयजन्मवत एवाध्ययनविधानाच्च ।

न च ‘‘नाग्निर्न यज्ञो न संस्कार’’ इत्यादिश्रुतौ शूद्रे संस्कारादेरभावोक्तिमात्रम् । न तु प्रतिषेध इति शंक्यम् । संस्कारभावेऽपि तत्सापेक्षाध्ययनाभावसिद्धेः । सामान्यविधिप्राप्तयज्ञाद्यभावोक्तेस्तत्प्रतिषेधं विनाऽयोगाच्च । टीकायां प्रतिषेधं विनाप्यभावोक्तिसम्भवमुपेत्योत्तरसूत्रमवतारितम् । न च शूद्रस्याध्ययनाभावेऽपि लिखितपाठादिना वेदार्थावधारणम् । भाष्योक्तश्रुत्याऽर्थावधारणादेरपि निषेधात् । विदुरादेस्तु जन्मान्तरसिद्धापरोक्षज्ञानत्वेनेतरशूद्रवैलक्षण्याद्वेदार्थावधारणेऽपि न दोषः ।

प्रकाशिका

स्वयं बाधकभावाभावाभ्यां रथकारशब्दवैषम्यमुक्त्वाऽन्योक्तं वैषम्यमनूद्य प्रत्याह ॥ यत्त्विति ॥ ‘‘वर्षासु रथकारोऽग्नीनादधीते’’त्याधानविधिवाक्यस्थत्वादित्यर्थः ॥ स्वार्थात्यागस्येति ॥ अन्यथा पूर्वाधिकरणे देवताविग्रहाद्यसिद्ध्यापत्तेरिति भावः ॥ स्वार्थत्यागस्येति ॥ ‘‘ब्रह्मजिज्ञासा तद्विजिज्ञासस्वे’’त्यादौ विचारलक्षकत्वाद्युक्तेरिति भावः ॥ विधिसन्निधीति ॥ तथात्वे वायुक्षेपिष्ठादिवाक्यवद्विध्येकवाक्यतया विधेयस्तुतिपरत्वेन स्वार्थे तात्पर्याभावात्तत्त्यागस्स्यात् । न चैवमित्यर्थः । एवं द्वितीयसूत्रभाष्याद्युक्तरथवत्त्वरूपलिङ्गरूपबाधकोपपादनेनाद्यसूत्रभाष्याद्युक्तयोगं समर्थ्य न शूद्रस्याधिकार इत्युक्त्वा यत्पूर्वमुक्तं शूद्रस्याप्यध्ययनादिसत्त्वादस्त्यधिकार इति तदिदानीं ‘‘संस्कारपरामर्शा’’दिति सूत्रभाष्यटीकार्थविवरणेन निराकर्तुमाह ॥ किञ्चेति ॥ श्रुत्यादीति ॥ नाग्निर्न यज्ञो न संस्कारो न व्रतानि शूद्रस्ये’’त्यादिसिद्ध इत्यर्थः । यदप्यनुपनीतस्यैवाध्ययनमस्त्विति तदाशङ्क्य सौत्रपरामर्शशब्दार्थव्यञ्जनेन निराह ॥ न चेति ॥ एतेन ‘‘अष्टवर्षं ब्राह्मण’’मित्यादिटीका विवृता । ननु तत्राध्यापनाङ्गत्वमेव श्रुतं न त्वध्ययनाङ्गत्वमित्यत आह ॥ स्वाध्याय इति ॥ तथा चैतदनुरोधादध्यापयीतेत्यत्राप्यध्ययनविधावेव तात्पर्यम् । हितैषिपित्रादिना शिक्षणीयो बालक इति भावेनाध्यापनोक्तिरिति भावः ॥ द्वितीयजन्मवत एवेति ॥ एतेन टीकायां स्मृत्युक्तेः फलं सूचितं भवति । ‘‘तदभावाभिलापा’’दित्यस्याध्ययनाभावे हेतुत्वं स्पष्टयति ॥ न च नाग्निरिति ॥ सामान्येति ॥ स्वर्गकामादिमात्रोद्देशेन यागादिविधिप्रवृत्तेस्तादृशयागादेरभावोक्तयन्यथानुपपत्त्यानिषेधसिद्धिरित्यर्थः । टीकाविरोधमाशंक्याह ॥ टीकायामिति ॥ यदप्युक्तमथवाऽनधीयानस्येति तत् ‘‘श्रवणाध्ययनार्थे’’ति सूत्रभाष्याद्यर्थव्यक्तयाऽऽपाकरोति ॥ न च शूद्रस्येति ॥ ‘‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरण’’मित्यादिश्रुत्येत्यर्थः । ‘‘कथं विदुरधर्मव्याधादीनां वैदिकार्थावधारणमस्ती’’त्यादिटीकोक्तशंकां हृदि कृत्वा भाष्याद्युक्तमेव समाधिमाह ॥ विदुरादेस्त्विति ॥

चन्द्रिकाबिन्दुः

तौल्यादिति ॥ विध्यर्थवादयोरिति शेषः । तथा च बाधकमेव रूढित्यागोपयुक्तं न त्वर्थवादत्वमिति भावः ॥ विधिसन्निध्यभावाच्चेति ॥ विधिसन्निधौ हि अर्थवादस्य गुणत्वाद् गुणे त्वन्याय्यकल्पनेत्युक्तेः । तदा रूढार्थपरित्याग उदितो भवतीति भावः ॥ उपनीतमात्रेति ॥ तथा च तमिति उपनीतस् तमध्यापयीतेत्यर्थः । नतु ब्राह्मणस्याप्यध्ययनविधौ प्रवेश इति भावः । तत्प्रतिषेधं विना यज्ञादिप्रतिषेधं विना ॥

पाण्डुरङ्गि

नार्थवादमात्रस्य स्वार्थे तात्पर्याभावः । किन्तु विधिसन्निहितस्यैव । प्रकृते च विधेरभावेन तत्सान्निध्याभावान्न स्वार्थे तात्पर्यत्याग इत्याह ॥ अहहारेत्वेति ॥ संस्कारपरामर्शादित्येतत्सूत्रसूचितां युक्तिमाह ॥ किञ्चेति ॥ शूद्रस्यैवानुपनीतस्यैवाध्ययनमस्त्विति द्वितीयं पूर्वपक्षं निराकर्तुं शङ्कते ॥ न चेति ॥ ननु तमित्यत्र ब्राह्मणस्यैव परामर्शः पूर्वं तस्यैव प्रकृतत्वादित्यत आह ॥ स्वाध्यायोऽध्येतव्य इति ॥ ननु प्रतिषेधं विना सामान्यविधिप्राप्तयज्ञाद्यभावोक्तेरयोगेन नाग्निर्न यज्ञ इत्यादौ तत्प्रतिषेध इत्यङ्गीकारे टीकाविरोधः । अभावोक्तिमात्रस्यैवाभ्युपगतत्वादित्यत आह ॥ टीकायामिति ॥ अथ वेत्यादितृतीयपक्षं दूषयति ॥ न चेति ॥ आदिपदेन लिखितनिरीक्षितसङ्ग्रहः । एवं शूद्रश्रुतेः शूद्रत्वनिर्णायकत्वाभावमुपपाद्य पूर्वपक्षीयं लिङ्गं ‘‘विदुरादीनां तूत्पन्नज्ञानत्वादिति’’ भाष्योक्तं परिहारं मनसि निधाय विघटयति ॥ विदुरादेस्त्विति ॥