पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
॥ पूर्वपक्षस्तु ॥ विशिष्टबुद्ध्यादिमत्त्वाद्देववच्छूद्रादिरपि वेदविद्याधिकारी । ननु शूद्र उपनयनाभावादध्ययनरहितः । तद्रहितश्च नाधिकारीति ‘‘अध्ययनमात्रवतः’’ इत्यत्र वक्ष्यत इति चेन्न । वैदिकसंवर्गविद्याश्रोतारं पौत्रायणं प्रति ‘‘अहहारेत्वाशूद्रे’’ति रैक्वस्य सम्बोधनरूपेण, शूद्रस्यापि विदुरादेर्वेदार्थावधारणादिरूपेण च लिङ्गेन शूद्रेऽप्युपनयनाध्ययनयोः सत्त्वात् । यद्वा शूद्रस्यानुपनीतस्यैवाध्ययनमस्तु । अथवा अनधीयानस्यैव शूद्रस्य श्रुताल्लिखितनिरीक्षिताद्वा वेदादर्थज्ञानमस्तु । न चात्र शूद्रशब्दः शोकेनाद्रवणाद्यौगिकः । रूढेर्बलवत्त्वात् । अन्यथा ‘‘वर्षासु रथकार आदधीते’’त्यत्र रथकारशब्दस्यापि योगेन त्रैवर्णिकपरत्वापातादिति ।
प्रकाशिका
‘‘विशिष्टबुद्ध्यादिमत्त्वेऽपि शूद्रस्यान्येभ्योऽविशेषा’’दिति टीकां विवृण्वन्पूर्वसिद्धान्तन्यायेन पूर्वपक्षं व्यनक्ति ॥ विशिष्टेति ॥ एतच्च ‘‘सम्भवा’’दिति पूर्वहेत्वर्थकथनम् । ननु पूर्वन्यायेऽविशिष्टेऽपि बाधकादपवादस्स्यादिति शङ्कते ॥ नन्विति ॥ अष्टमे वर्षे ब्राह्मणमुपनयीत तमध्यापयीतेति त्रैवर्णिकानेवाधिकृत्योपनयनविधानात् । उपनीतस्यैवाध्ययनविधेरिति भावः ॥ अध्ययनेति ॥ ज्ञानपादे ‘‘असार्वत्रिकी’’त्येतदधिकरणे गुणसूत्रे अर्थित्वादेस्सर्वेषां सत्त्वेन ज्ञानेऽधिकारस्सर्वेषाम् । अन्यथा कस्यापि न स्यात् । अर्थित्वादेस्सर्वत्र साम्येऽपि केषाञ्चिदेवाधिकारो नान्येषामित्यत्रार्थित्वाद्यन्यविशेषाभावादित्याशङ्क्य यथाशक्तयखिलवेदाध्ययनवत्त्वरूपविशेषणान्तरयुक्तस्यैवाधिकारो न सर्वेषां तादृग्विशेषणस्य विष्णुभक्तयादिविहीने वर्णावरादौ चायोगादिति वक्ष्यत इत्यर्थः । एतेन ‘‘शूद्रस्य वेदविद्याधिकारादर्शना’’दिति टीकोक्तिरुपलक्षणम् । अधिकारप्रयोजकाध्ययनाभावाच्चेत्यपि ग्राह्यमिति सूचितम् ॥ विद्याश्रोतारमिति ॥ एतेनानधिकारेऽपि पौत्रायणो विद्यां विचारयामासेति निरस्तम् । अनधिकारिणं प्रति मुनेरुपदेशायोगादिति । एतेन ‘‘पौत्रायणस्ये’’त्यादिटीका विवृता ॥ विदुरादेरिति ॥ धर्मव्याधादिरादिपदार्थः । प्रसिद्धमेतत्पुराणादाविति भावः । एतेन ‘‘युक्तया लिङ्गदर्शनेन चे’’ति टीकायां लिङ्गदर्शनेनेत्यस्य शूद्रेति सम्बोधनरूपलिङ्गदर्शनेन विदुरादेर्वेदार्थावधारणरूपलिङ्गदर्शनेन चेत्यर्थ उक्तो भवति ॥ उपनयनेति ॥ अष्टवर्षं ब्राह्मणमित्यत्र ब्राह्मणशब्दस्य ब्रह्माणनयोग्यत्वेन यथा त्रैवर्णिकपरत्वं तथा चतुर्वर्णपरत्वमपि स्यादिति विधिबलाद्वा विध्यभावेऽपि शूद्रे विद्यासम्बन्धान्यथानुपपत्त्यैव तदङ्गोपनयनादेराक्षेपलब्धत्वाद्वा सत्त्वादित्यर्थः । इयं च संस्कारसूत्रनिरस्याशङ्का । नन्वेवं स्थपत्यादेरप्यग्न्याधानादिसिद्धिस्स्यात् । न चेष्टापत्तिः । षष्ठे तदभावस्योक्तत्वादित्यत आह ॥ शूद्रस्येति ॥ कल्पकं तु निरवकाशलिङ्गदर्शनमेवेति भावः । इयं च ‘‘श्रवणाध्ययनार्थे’’ति पञ्चमसूत्रव्यावर्त्यशङ्केति ध्येयम् । एवं च तदविनाभूतो रथोऽपि शूद्रे युक्त इति भावः । द्वितीयसूत्रव्यावर्त्यं शङ्कापूर्वमाह ॥ न चेति ॥ अन्यथेति ॥ रथकाराधिकरणमुक्तं जन्मादिसूत्रे । निषेधश्रुत्यादेस्तूपचरितार्थत्वादिना समाधानं कार्यमिति भावः ।
चन्द्रिकाबिन्दुः
उपनयनाध्ययनयोरिति ॥ उक्तलिङ्गद्वयाक्षिप्तयोरिति शेषः । रथवत्त्वादीत्यादिपदेन सार्वत्रिकावासादिकारयितृत्वग्रामेशत्वादीनां क्षत्रियलिङ्गानां ग्रहणम् ॥
पाण्डुरङ्गि
ननु शूद्रेति सम्बोधनं न पौत्रायणस्य शूद्रत्वनिश्चायकम् । शुचा द्रवणनिमित्तकत्वेनापि तस्योपपत्तेरित्यरुचेराह ॥ शूद्रस्यापीति ॥ ननु श्रुतिरुक्तरीत्या योगेन सावकाशा लिङ्गमपि विदुरादेर्जन्मान्तरसिद्धापरोक्षज्ञानत्वेनेतरशूद्रवैलक्षण्याद्वेदार्थावधारणोपपत्तेरित्यरुच्याऽह ॥ यद्वेति ॥ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीतेति श्रुतौ ब्राह्मणस्यैवाध्ययन उपनयनाद्यपेक्षा । न तु शूद्रादेरित्यर्थः । ननु तमध्यापयीतेत्यत्र न ब्राह्मणपरामर्शः । अपि तूपनीतमात्रपरामर्श इति कथमनुपनीतस्य शूद्रस्याध्ययनमित्यरुचेराह ॥ अथवेति ॥ अन्यथेति ॥ योगेन रूढिबाध इत्यर्थः ।