अत्र पूर्वाधिकरणसिद्धान्तरीत्या पूर्वपक्षोत्थानादनन्तरसङ्गतिः
अपशूद्राधिकरणम्
तात्पर्यचन्द्रिका
संगतिकथनम्
॥ ॐ शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॐ ॥
अत्र पूर्वाधिकरणसिद्धान्तरीत्या पूर्वपक्षोत्थानादनन्तरसङ्गतिः । फलं तु न चोक्ते विरोधाभावा’’ दित्यादिटीकायामेवोक्तम् । अयं हि टीकार्थः । शूद्रस्याधिकारेऽप्युक्ते मनुष्याधिकारे विरोधो न । शूद्रस्यापि मनुष्यत्वात् । तथा चोक्ताक्षेपाभावेनास्य विचारस्य निष्फलत्वादसङ्गतिरिति न वाच्यम् । शूद्रस्याधिकारवदनधिकारेऽपि श्रुत्यादेः सत्त्वेनाधिकारोपपादकपूर्वपक्षन्यायेनानधिकारस्यापि प्राप्तेः । तथा च सामान्येन मनुष्याधिकारोक्तिः प्रमाणविरुद्धा । अनधिकारे तु सामान्येनोक्तेः शूद्रेतरविषयत्वान्न विरोध इति ।
यद्यप्यत्राद्यसूत्रस्थाथशब्दसूचितस्य त्रैवर्णिकाधिकारस्येहाक्षेपादपि फलं सुवचम् । तथापि टीकायां सन्निकृष्टत्वान्मनुष्याधिकार एवाक्षिप्तः । यद्वा अत्रत्यसिद्धान्तेन त्रैवर्णिकाधिकारे सिद्धेऽथशब्देन तत्सूचनम् । पूर्वपक्षे तु नेति, न तदाक्षेपः शक्यः । अत्र शूद्रादेः किं ब्रह्मविद्याधिकारोऽस्त्युत नेति चिन्ता । तदर्थं ‘‘अहहारेत्वाशूद्रे’’ति श्रुतः शूद्रशब्दः किं रूढः किं वा यौगिक इति । तदर्थं किं रूढिबाधकं नास्त्युतास्तीति । तदर्थं ‘‘अयमश्वतरीरथ’’ इति श्रुतो रथः किं शूद्रे युक्त उत न युक्त इति ।
प्रकाशिका
‘‘मनुष्याधिकारत्वादित्युक्त’’ इति भाष्यदिशा तदानन्तर्यप्राप्तेस्तस्य फलपरत्वमभिप्रेत्यास्य पूर्वानन्तर्ये हेतुमाह ॥ अत्रेति ॥ सम्भवादिति हेतूक्तविशिष्टबुद्ध्यादिमत्त्वेन देवानां यथाऽधिकारस्तथा शूद्राणामपीत्युत्थानादापवादिकीसङ्गतिरित्यग्रे स्पष्टम् । इयं च ‘‘स्वन्यायेने’’ति टीका सूचिता । व्यर्थेयं चिन्तेत्यत आह ॥ फलं त्विति ॥ ‘‘न चोक्ते विरोधाभावादसङ्गतिः । स्वन्यायेन श्रुत्यादिविरोधप्राप्ते’’रिति टीकायामित्यर्थः । तदेतदप्रतीतेर्व्याचष्टे ॥ अयं हीति ॥ शूद्रस्याधिकारेऽङ्गीकृतेऽपि मनुष्याधिकारत्वादित्यनेनोक्ते मनुष्याधिकारे विरोधो नास्तीत्यर्थः । स्वन्यायेनेत्यस्यार्थमाह ॥ अधिकारेति ॥ मनुष्यत्वविशिष्टबुद्ध्यादिरूपन्यायेनेत्यर्थः । अधिकारवदित्यन्वयः । निषेध श्रुत्यादिनाऽनधिकारस्यापि प्राप्तेरित्यर्थः । टीकोक्तं फलमाक्षिप्य समाधत्ते ॥ यद्यपीति ॥ इह पूर्वपक्षे पूर्वन्यायेनाधिकारे सिद्धे ‘‘अथातो ब्रह्मजिज्ञासे’’ त्यत्राथशब्दोक्तत्रैवर्णिकाधिकारो न युक्त इत्याक्षेपसम्भवादित्यर्थः । ननु प्रागुक्तमनुष्याधिकाराक्षेपस्य हृद्यपेक्षयाङ्गुष्ठमात्रत्वं विष्णौ युक्तमित्यस्याक्षेपद्वारा जिज्ञास्यत्वाक्षेपपर्यंतत्वेन व्यवहिताक्षेपः प्रागप्यविशिष्ट इति चेन्न । साक्षाद्व्यवहिताक्षेपापेक्षया सन्निहिताक्षेपस्योचितत्वादित्याशयात् । यद्वैतदनुशयेनाह ॥ यद्वेति ॥ विषयसंशयटीकां व्यनक्ति ॥ अत्रेति ॥ शूद्रादेरित्यादिपदेन त्रैवर्णिकेतरजातेस् त्रैवर्णिकमध्येऽपि भक्तिशमदमादिरहितस्य च परिग्रहः । टीकायां ‘‘तदाद्रवणा’’दिति सूत्रभाष्यानुरोधेन शूद्रस्येत्युक्तावप्युपनयनसंस्काराभावादित्युक्तेर्
अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते ।
गुरुभक्तिविहीनस्य शमादिरहितस्य च ।
न च वर्णावरस्यापि तस्मादध्ययनान्वितः ॥
इत्यादिनिषेधस्य च तुल्यतया समानन्यायविषयाणां टीकोपलक्षणमित्यभिप्रेत्यादिपदं प्रयुक्तम् ॥ इति श्रुत इति ॥ छान्दोग्ये चतुर्थेऽध्याये संवर्गविद्यायां ‘‘तमुह परः प्रत्युवाच अहहारेत्वा शूद्र तवैव सह गोभिर’’स्त्विति पौत्रायणं प्रति रैक्वोक्ते वाक्ये श्रुतस्सम्बुद्ध्यन्तश्शूद्रशब्द इत्यर्थः । ओति सम्बुद्धिः । हारेति लुप्तविभक्तिकः । इत्वा रथः । यदत्र केनचिदुक्तं ‘‘अहहारेत्वाशूद्रे’’ति दक्षिणाप्रत्याख्यानवाक्ये शूद्रवद्ब्रह्मविद्यागौरवमजानानस्स्वल्पां दक्षिणामाहरसीति कोपेन शूद्रेत्यामन्त्रणमित्यन्यथा सिद्धिर्वक्तुं शक्या । तथापि ‘‘आजहारेमाश्शूद्राऽनेनैव मुखेनालापयिष्यथा’’ इत्युत्तरवाक्यस्थशूद्रशब्दात्सन्देह इति तन्न । तथात्वेऽग्रेपि शूद्रेत्युक्तेरनुपपत्तेः । प्रक्रमस्थशूद्रशब्देऽन्यथासिद्धिशङ्कायामुपरितनेति तथात्वशङ्कानपायात् । एकप्रकरणस्थत्वात् । विषयकामुकवृषलवत्कामिन्यादिमुखेनालापयिष्यथा इति वा त्रैवर्णिकवच्छुश्रूषया विना शूद्रवत् हारादिद्रव्यमुखेन विद्यां प्राप्तुमिच्छसीति वा तदानीतकन्यापरिग्रहेणास्याशूद्रत्वशङ्कया शूद्रेत्युक्तेर्वर्णावरत्वान्यनिमित्तकत्वमिति वा शङ्कोदयस्य तत्रापि सम्भवाच्च । किं च क्षत्रियत्वनिर्णायकद्वितीयसूत्रोक्तरथसम्बन्धित्वस्य ‘‘अहहारेत्वे’’ति वाक्य इवोत्तरवाक्येऽभावात्तदनादरश्रवणतदाद्रवण-तत्सूचनानामाद्यसूत्रोपात्तानां भाष्योक्तवाक्यस्थशूद्र शब्द एव सन्निधानेन तन्निर्णयाधीननिर्णयत्वादुत्तरशूद्रशब्दस्य ।
किञ्च दक्षिणा प्रत्याख्यानं शूद्रजातित्वादेव शूद्रेति सम्बोध्य कृतम् । शूद्रप्रतिग्रहस्य निंदनात् । न त्वल्पत्वेनेति विरक्तस्य मुनेः स्वल्पत्वेन प्रत्याख्यानायोगादिति जातिवाचित्वशङ्काया एवोदयेनान्यथासिद्धि शङ्कानुदयाच्च । न च तथात्वेऽग्रेतनवाक्ये दक्षिणापरिग्रहश्रवणविरोध इति शङ्क्यम् । त्वत्पक्षेऽप्यग्रे शूद्रपदश्रवणविरोधस्य तुल्यत्वात् । पुनरागते तस्मिन् दयया तद्दत्तस्वीकरणं मुनेरित्युपपत्तेश्च । तस्माद्भाष्याद्युक्तं ‘‘अहहारेत्वाशूद्रे’’ति वाक्यमेवोदाहरणं युक्तम् । आद्यसूत्रसूचितं चिन्ताद्वयमुक्त्वा द्वितीयसूचितं चिन्ताद्वयमाह ॥ रूढिबाधकमिति ॥ यदि वक्ष्यमाणदिशा शूद्रे वेदाध्ययनादेस्सम्भवेन ‘‘यत्र वेदो रथस्तत्र न वेदो यत्र नो रथ’’ इति स्मृतेर्वेदाविनाभूतोऽपि रथो युक्तस् तदा बाधकाभावेन रूढित्यागायोगाच्छूद्रादीनामप्यधिकारस्सिध्यति । यदा तु सिद्धान्ते वक्ष्यमाणदिशा शूद्रे वेदाभावेन तदविनाभूतो रथो न युक्तस् तदा बाधकसत्त्वेन रूढित्यागेन यौगिकार्थस्याशूद्रेऽपि सम्भवान्नास्त्यधिकार इति सिध्यतीति फलफलिभावस्स्पष्टः । नन्वत्र तदर्थं रथव्यापकमध्ययनं शूद्रे युक्तं न वेति तृतीयसूत्रादिसूचितचिन्तान्तरं कुतो न प्रदर्शितमिति चेद् द्वितीयसूत्रे चैत्ररथेनेति तद्धितप्रत्ययसूचितं स्वाभाविकत्वं रथसम्बन्धस्य प्रतिपादयितुम् । तथा प्रदर्शने हि रथो वेदानुमानद्वाराऽशूद्रत्वज्ञापकस्स्यान्न साक्षादिति साक्षादपि लिङ्गत्वस्य सिद्ध्यर्थमेतावत्येव चिन्ता दर्शिता । एवं चास्मिन्पक्षे रथस्यास्वाभाविकत्वेन शूद्रे युक्तत्वादस्त्यधिकार इति पूर्वपक्षे फलम् । सिद्धान्ते तु तस्यात्र स्वाभाविकस्यैव श्रवणात्तस्य च शूद्रेऽयोगान्नास्त्यधिकार इत्यवधेयम् ।
चन्द्रिकाबिन्दुः
सिद्धान्तरीत्येति ॥ विशिष्टबुद्ध्यादिनेत्यर्थः । पूर्वपक्षेणैव पूर्वाधिकरणाक्षेपालाभेऽपि पूर्वपक्षसदृशन्यायेन पूर्वाधिकरणाक्षेपलाभात् सफलेयं यचिन्तेत्यभिप्रेत्याह ॥ शूद्रस्याधिकारवदित्यादिना ॥ अनधिकारे त्विति ॥ सिद्धान्तरीत्या निश्चिते सतीति शेषः ॥ तत्सूचनमिति ॥ त्रैवर्णिकस्याधिकारसूचनमित्यर्थः ॥
पाण्डुरङ्गि
नन्वाक्षेपे सन्निकृष्टत्वं विप्रकृष्टत्वं वाऽप्रयोजकम् । किन्तु योग्यत्वम् । तच्च व्यवहितस्यापि प्रथमसूत्रस्यैव । तत्राथशब्देन साक्षात्त्त्रैवर्णिकाधिकारस्योक्तत्वात् । किं चापवादविषयं परित्यज्य सामान्यस्य सत्त्वेन तयोर्विरोध एव नोपपद्यते । तथा सति न हिंस्यात्सर्वा भूतानीत्यस्य सामान्यस्याग्नीषोमीयं पशुमालभेतेति विशेषेण विरोधः । प्रकृते च मनुष्याणामधिकार इति सामान्यम् । शूद्रस्य नेति तु विशेषः । तत्कथमनयोर्विरोध इत्यरुचेराह ॥ यद्वेति ॥