०६ टीकाक्षरार्थनिरूपणम्

टीकाक्षरार्थस्तु

टीकाक्षरार्थनिरूपणम्

तात्पर्यचन्द्रिका

टीकाक्षरार्थस्तु ॥ नाध्यायादिसङ्गतिर्गवेषणीयेति ॥ मुखतो व्युत्पाद्येऽधिकारे न साक्षादध्यायसङ्गतिर्गवेषणीयेत्यर्थः । प्रासङ्गिकसङ्गतेस्तत्रापि सत्त्वात् । फलिते देवतोपास्यत्वलिङ्गसमन्वये साक्षात्सङ्गतेरपि सत्त्वाच्च । पर्वतेतरत्वादीनामपि व्याप्तिरस्ति न वा । आद्यं निरस्यति ॥ का नो हानिः पर्वतेतरत्वादीनामपि व्याप्तिरस्ति चेदिति ॥ द्वितीयं प्रत्याह ॥ अनुमानोपजीव्येन बाधादव्याप्ताविति ॥ चक्रकापातादिति ॥ ईश्वरस्य सर्वज्ञत्वे सिद्धे ‘‘तस्माद्यज्ञा’’दित्यादिना वेदस्य सर्वज्ञप्रणीतत्वसिद्धिः । तत्सिद्धौ च वेदस्य प्रामाण्यसिद्धिः । तत्सिद्धौ च वेदेनेश्वरस्य सर्वज्ञत्वसिद्धिरिति चक्रकापातादित्यर्थः । किं ज्ञानकारणातिरिक्तमात्रजन्यत्वं साध्यं किं वा ज्ञानत्वप्रयोजककारणजन्यत्वे सत्यतिरिक्तजन्यत्वम् । आद्ये प्रमात्वयुक्तज्ञानस्यापि ज्ञानत्वाद्व्याघात इत्याह ॥ तादृशज्ञानस्यापीति ॥ द्वितीयं शङ्कते ॥ ज्ञानकारणतदतिरिक्तजन्यत्वमिति ॥ विशिष्टाभावविकल्पेन व्याघातस्य समीकरणादिति ॥ यथा प्रमायां ज्ञानकारणातिरिक्तकारणमात्रजन्यत्वस्य व्याहतत्वेऽपि ज्ञानकारणमात्राजन्यत्वरूपविशिष्टाभावो न व्याहतः । तस्य जन्यत्वाभावेन वा जन्यत्वेऽपि ज्ञानकारणातिरिक्तजन्यत्वेन वोपपत्तेः । तथा ज्ञानेऽपि यादृच्छिकसंवादस्थलेऽतिरिक्तकारणं विनापि दृष्टाया भ्रमस्याप्यधिष्ठानांशे प्रमात्वेन प्रमात्वरहितज्ञानव्यक्तेरभावेन ज्ञानवदनुवृत्तत्वेन दृष्टायाश्च प्रमाया अतिरिक्तकारणजन्यत्वे ज्ञानस्यापि तज्जन्यत्वप्रसङ्गादित्यर्थः । व्याघात इत्युपलक्षणम् । ईशज्ञानस्य पक्षत्वेऽपि तत्र जन्यत्वाभावेन साध्यसम्भवात्तदंशे बाधोऽपि नेति भावः ॥

प्रतिज्ञानिरासेन निरस्तमिति ॥ परतस्त्ववादिनापि गुणत्वजातेरनङ्गीकारेण गुणशब्देन ज्ञानकारणातिरिक्तकारणस्यैव विवक्षणीयत्वेन पूर्वोक्तव्याघाताद्यापत्तेरित्यर्थः ॥ अजन्यप्रमात्वमिति ॥ जन्यप्रमात्वाभाव इत्यर्थः ॥ व्याप्त्यभावादिति ॥ यादृच्छिकसंवादिदुष्टवाक्यजन्यप्रमायां साध्ये सत्यप्युपाध्यभावादित्यर्थः ॥ तदभावादेवेति ॥ प्रामाण्यस्य साधितत्वेनाप्रामाण्यस्याभावादेवेत्यर्थः ॥ वृश्चिकताण्डुलीयकादिवदिति ॥ यथा गोमयतण्डुलकणादिविजातीयजन्यानामपि वृश्चिकत्वताण्डुलीयकत्वादिजातिस्तथैव अब्राह्मणाज्जातस्यापि सर्गादिकालीनस्य ब्राह्मणत्वजातिरित्यर्थः ॥ सङ्केतितवानिति ॥ अयं शब्दोऽत्र शक्त इति ज्ञापितवानित्यर्थः ॥

न च द्वितीयाद्यमृतविद्यादिष्विति ॥ ‘‘तद्यत्प्रथमममृतं तद्वसव उपजीवन्ती’’त्युक्तप्रथमामृतविद्याया वसुत्वफलकत्वेन तत्र वसूनामनधिकारेऽपि ‘‘अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्ती’’त्यादिनोक्तद्वितीयाद्यमृतविद्यासु रुद्रत्वादेः फलत्वेन तत्राधिकारोऽस्त्विति न वाच्यमित्यर्थः ॥ प्रकाशवानस्मिल्लोके भवतीत्यादीनामिति ॥ ‘‘प्रकाशवानस्मिल्लोके भवति । प्रकाशवतो ह लोकाञ्जनयती’’त्यादिनोक्तानां ‘‘एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नामे’’त्यादिविद्याफलानामस्मिल्लोके प्रकाशवत्त्वादीनां मधुविद्यादिफलभूतवसुत्वादावन्तर्भावादित्यर्थः ॥ न ह वा एवंविदि किंचनानन्नं भवतीत्यादीनां सर्वायोग्यत्वादिति ॥ न ह वा एवंविदीत्यादिनोक्तेषु सर्वभोक्तृत्वादिरूपेषु ‘‘ते ह प्राणा अहं श्रेयसि व्यूदिर’’ इत्यादिप्राणविद्याफलेषु रुद्रादेरेव योग्यत्वादित्यर्थः ॥ प्राचीनपक्षे दोषान्तरं चोक्तं भवतीति ॥ न केवलमाद्यपक्षे पूर्वाक्तो वस्वादीनां मधुविद्यादिफले वसुत्वादावधिकाराभावदोषः । किं तु विद्यासाध्ये वसुत्वादिसाधने ज्ञानेऽप्यर्थित्वाभावदोषः । वस्वादीनां सिद्धज्ञानत्वादित्यर्थः ॥

प्रकाशिका

प्रासङ्गिकत्वान्नाध्यायादिसङ्गतिर्गवेषणीयेति टीका न युक्तेव । प्रसङ्गसङ्गतेरेवाभिधानाद्व्याहत्यापत्तेरित्यत आह ॥ मुखत इति ॥ सङ्गतिरिति ॥ ब्रह्मण्युभयत्रप्रसिद्धलिङ्गादिसमन्वयरूपेत्यर्थः । तत्रापि अधिकारे व्युत्पाद्येऽपीत्यर्थः ॥ फलित इति ॥ यथा वैश्वानरनामि्न समन्विते पाचकत्वादिलिङ्गसमन्वयस्य फलितत्वात्तस्य द्वितीये निवेशस्तथाऽत्रापि देवानामधिकारे सिद्धे ‘‘विश्वे देवा उपासत’’ इत्युक्तलिङ्गसमन्वयः फलिष्यतीत्यर्थः । तृतीयसूत्रे कार्यत्वानुमाने शरीरिजन्यत्वस्योपाधित्वमुक्त्वा तत्र व्यर्थविशेषणत्वमाशङ्क्य पक्षव्यावृत्त्यर्थत्वेन सार्थक्येऽभिहिते सति ‘‘पक्षव्यावृत्त्यर्थविशेषणवतोऽप्युपाधित्वे पक्षेतरत्वस्याप्यापद्यते तदिति चेत्का नो हानिः पर्वतेतरत्वादीनामपि व्याप्तिरस्ति चेत् । अनुमानोपजीव्येन बाधादव्याप्तौ स्वयं दुष्टत्वा’’दिति वाक्यं दुर्गमत्वाद्व्यनक्ति ॥ पर्वतेति ॥ अनुमानेति ॥

अनुकूलेन तर्केण सनाथे सति साधने ।

साध्यव्यापकताभङ्गात्पक्षेनोपाधिसम्भवः ॥

इत्युक्तदिशेत्यर्थः । चक्रकमस्पष्टत्वाद्दर्शयति ॥ ईश्वरस्येति ॥ प्रमा ज्ञानसामग्रीव्यतिरिक्तकारणजन्याकार्यत्वादित्यनुमाने विकल्पेन व्याहत्यादिना दूषिते सति ‘‘प्रमात्वयुक्तज्ञानस्यैवंविधत्वं साध्यत इति चे’’दित्याशङ्क्य ‘‘तादृशज्ञानस्यापि ज्ञानकारणातिरिक्तकारणजन्यत्वसाधने व्याघातानिस्तारात् । ज्ञानकारणतदतिरिक्तजन्यत्वं साध्यत इति चेन्न । ईशप्रमायां बाधादित्युक्तम् । तद्दुर्गमत्वाद्विकल्पेन घटयति ॥ किं ज्ञानेति ॥ ‘‘ज्ञानेऽपि कार्यत्वेन तत्साधनसौलभ्या’’दिति पूर्ववाक्ये ज्ञानं ज्ञानकारणमात्रजन्यं न कार्यत्वादित्यपि स्यादिति प्रतिबन्ध्युक्तया तर्हि व्याघातस्स्यादित्याशङ्क्योक्तं विशिष्टेत्यादि । तदप्रतीतेर्व्यनक्ति ॥ यथेति ॥

ननु प्रमात्वस्य ज्ञानत्वन्यूनवृत्तिनस्तथात्वेऽपि ज्ञानकारणजन्यकृत्स्नज्ञानवर्तिनो ज्ञानत्वस्य न तथात्वम् । ज्ञानहेतुं विना क्वापि तस्यादृष्टेरित्यत आह ॥ यादृच्छिकेति ॥ ननु तत्रापि विषयाबाध एवातिरिक्तं कारणमिति चेन्न । विषयसत्त्वस्य प्रामाण्यशरीरत्वेन प्रामाण्यं प्रति हेतुत्वाभावात् । स्वतस्त्ववादिना विषयसत्त्वस्य स्वीकृतत्वेन सिद्धसाधनतापत्त्या ततोऽन्यस्यैव कस्यचिद्वक्तव्यत्वेन तस्य तत्राभावात् । विस्तरस्तु तर्कताण्डवे प्रथमपरिच्छेदे द्रष्टव्य इति भावः । ननु ज्ञानमात्रं पक्षीकृत्य ज्ञानकारणमात्रजन्यत्वाभावे साध्यमाने तत्फलस्यातिरिक्तजन्यत्वस्येशज्ञाने बाधादित्यत आह ॥ व्याघात इत्युपलक्षणमिति ॥ यद्यपि व्याघातस्येति वक्तव्यम् । तथापि व्याघातो नेति फलितत्वात्तदभिप्रायेणैवमुक्तिः । यद्यपि कार्यत्वेनेत्युक्तया तदतिरिक्तं ज्ञानं पक्ष इति लभ्यते । अन्यथा भागासिद्ध्यापत्तेः । तथापि पूर्वं प्रमापक्षकपरोक्तानुमाने भागासिद्धिमवधीर्य तथैवोद्भावनादिहापि तत्पक्षीकारेण दोषोद्धारः कृत इति ध्येयम् । ‘‘प्रमा गुणजन्या तदन्वयव्यतिरेकित्वादित्येतदपि प्रतिज्ञानिरासेन निरस्तमि’’ति वाक्यार्थमप्रतीतेराह ॥ परतस्त्वेति ॥ आदिपदेनेशप्रमायां बाधादिर्ध्येयः ।

प्रमा गुणजन्या न प्रमात्वादित्यत्र परेणा जन्यप्रमात्वमुपाधिराशङ्कितः । स न युक्तः । घटादौ साध्याव्यापकत्वस्य स्पष्टत्वादित्यत आह ॥ जन्यप्रमात्वाभाव इति ॥ तर्हि व्याप्त्यभावादिति दूषणं न लगतीत्यत आह ॥ यादृच्छिकेति ॥ दुष्टेति साध्यसत्त्वोपपादनम् । तत्रापि गुणजन्यत्वमस्तीति प्रत्युक्तम् । ‘‘अत एव चे’’ति सूत्रे ‘‘न चाप्रामाण्येनोपपत्तिः । तदभावादेवे’’त्युक्तम् । न वाङ्मात्रेण परिहारयोग इत्यतस्तं व्यनक्ति ॥ प्रामाण्यस्येति ॥ तत्रैव ‘‘ब्राह्मणादेव ब्राह्मण इति नियमस्य क्वचिदन्यथात्वोपपत्तेर्वृश्चिकताण्डुलीयकादिव’’दित्युक्तम् । तत्र दृष्टान्तांशमप्रतीतेर्विवृणोति ॥ यथेति ॥ समानेति सूत्रे ‘‘ब्रह्मादिविबुधानां नामानि निर्ममे । ताञ्छब्दांस्तेषु संयोजितवा’’निति वाक्यमयुक्तमिव । तथात्वे शब्दार्थसम्बन्धस्यौत्पत्तिकत्वानापत्तेरत आह ॥ अयं शब्द इति ॥ क्वचित्संकेतितवानिति टीकापाठः । तत्राप्ययमेवार्थो ध्येयः । संयोजितवानिति प्रतीकं तु बाहुल्याभिप्रायेण । यद्वैतदनुरोधेन पाठान्तरं लेखकदोषमूलमिति कल्प्यम् । मध्वादिष्विति सूत्रे ‘‘न च द्वितीयाद्यमृतविद्यादिषु वस्वादीनामधिकारस्सम्भवतीति वाच्य’’मिति शङ्कावाक्यं व्यनक्ति ॥ तद्यदिति ॥ तत्रैव ‘‘सामान्यफलानां प्रकाशवानस्मिल्लोके भवतीत्यादीनां तत्फलेंऽतर्भावात् । न ह वा एवंविदि किंचनानन्नं भवतीत्यादीनां सर्वायोग्यत्वा’’दिति वाक्यद्वयं क्रमेण व्यनक्ति ॥ प्रकाशवानिति ॥ ज्योतिषीति सूत्रे टीकास्थं वाक्यं व्यनक्ति ॥ न केवलमिति ॥ शिष्टं स्पष्टमुपन्यासमुखेनेति भावः ॥

चन्द्रिकाबिन्दुः

अतोऽपि न विरुद्धमित्याह ॥ मुखत इति ॥ एवमुत्तरत्रापि यथाश्रुतवाक्यार्थानुपपत्त्या चन्द्रिकाप्रवृत्तिरूह्या ॥

पाण्डुरङ्गि

ननु पूर्वाधिकरणोक्तसर्वदेवोपास्यत्वाक्षेपनिरासकस्यास्याधिकरणस्य पूर्वाधिकरणस्याध्यायादिसङ्गतत्वेन तत्सङ्गतत्वेनाध्यायादिसङ्गतत्वात्कथमेतत् । न च साक्षादध्यायादिसङ्गत्यभावे तात्पर्यम् । देवतोपास्यत्वरूपलिङ्गसमन्वयस्य साक्षादपि सत्त्वादित्यतः प्रासङ्गिकत्वादध्यायादिसङ्गतिर्न गवेषणीयेति टीकां व्याचष्टे ॥ मुखत इति ॥ व्याख्याबीजं सूचयति ॥ प्रासङ्गिकेति ॥ का नो हानिरित्यादिटीकाग्रन्थस्य शङ्काज्ञापकचेच्छब्दयुक्तत्वेन शङ्काग्रन्थत्वप्रतीतिनिरासाय विकल्पमुखेन टीकामुत्थापयति ॥ पर्वतेतरत्वादीनामिति ॥ अनुमानोपजीव्येन बाधादव्याप्तावित्यादिटीकाया अयमर्थः । अव्याप्तौ, उपाधेः साध्याव्याप्तौ, अनुकूलतर्केण हेतोः साध्यव्याप्यत्वे निर्णीते साध्यव्याप्यहेत्वव्यापकत्वेन पक्ष एव साध्यव्यापकताभङ्गादुपाधिलक्षणानाक्रान्तत्वादनुपाधित्वमिति । चक्रकापातादित्यस्य दुर्बोधत्वात्तद्व्याचष्टे ॥ ईश्वरस्येति ॥ ज्ञाने व्यभिचारापरिहारादिति टीकाया अयमर्थः । प्रमां पक्षीकुर्वता न प्रमामात्रं पक्षीकर्तुं शक्यम् । ईश्वरप्रमायां वक्ष्यमाणप्रकारेण बाधात् । नापि जन्यप्रमामात्रम् । यादृच्छिकयथार्थवाक्यजन्यप्रमायां बाधात् । तस्मात्तद्व्यावृत्तजन्यप्रमामात्रं पक्षीकर्तव्यम् । तत्र च कार्यत्वसद्भावेऽपि ज्ञानकारणातिरिक्ताजन्यत्वे सति ज्ञानकारणजन्यत्वाभावस्याभावात्तत्र व्यभिचारादित्यर्थः ।

ननु ज्ञानकारणमात्रजन्यं नेति साधयितुं न शक्यते । अत्र ज्ञानकारणातिरिक्ताजन्यत्वे सति ज्ञानकारणजन्यत्व रूपविशिष्टाभावस्य साध्यत्वात्तत्र च ज्ञाने ज्ञानकारणजन्यत्व रूपविशेष्याभावप्रयुक्तविशिष्टाभावासम्भवेन ज्ञानकारणातिरिक्ताजन्यत्वरूपविशेषणाभावप्रयुक्तविशिष्टाभावो वाच्यः । तथा च व्याघात इति शङ्कानिरासाय टीकायां विशिष्टाभावविकल्पेनेत्याद्युक्तम् । तस्यार्थो न ज्ञायत इत्यतो व्याचष्टे ॥ यथेति ॥ प्रतिज्ञानिरासेनेत्युक्तया ज्ञानं गुणजन्यमित्यत्र प्रतिज्ञानिरासकव्याघातस्यासम्भवादित्यतो व्याचष्टे ॥ परतस्त्ववादिनेति ॥ अजन्यप्रमात्वमुपाधिरिति टीका । तत्र घटादौ गुणजन्यत्वाभावरूपसाध्यसद्भावेऽप्यजन्यप्रमात्वाभावेन साध्याव्यापकत्वतदवस्थ्यादनुपपन्नत्वेन भातीत्यतो व्याचष्टे ॥ जन्यप्रमात्वाभाव इति ॥ तथा च साध्यव्यापकतेत्यर्थः । व्याप्त्यभावाप्रतीतेराह ॥ यादृच्छिकेति ॥ तदभावादेवेत्यत्राप्रामाण्याभावे हेतुर्नोक्त इत्यतस्तं वदन्नेव वाक्यं व्याख्याति ॥ प्रामाण्यस्येति ॥ सङ्केतितवानित्ययुक्तम् । सङ्केतस्येश्वरेच्छाविशेषरूपत्वेन शब्दानां साङ्केतिकत्वापत्त्या स्वाभाविकशक्तिः कुत्रापि न स्यादित्यतो व्याख्याति ॥ अयं शब्द इति ॥ प्राचीनपक्ष इत्यत्र कः प्राचीनः पक्षः । कथं चायं तत्र दोष इत्यतस्तदुपपादयितुमाह ॥ न केवलमिति ॥

॥ इति देवताधिकरणम् ॥ ८ ॥