०५ उभयमतपरीक्षा

यत्तूक्तमुभाभ्यां..

उभयमतपरीक्षा

तात्पर्यचन्द्रिका

यत्तूक्तमुभाभ्यां मन्त्रार्थवादादेरनुष्ठेयप्रकाशनस्तुत्यादिपरत्वेन देवतानां विग्रहादिराहित्येनार्थावच्छिन्नशब्दरूपतया शब्दावच्छिन्नार्थरूपतया वा जडत्वेनासामर्थ्यादनधिकार इति प्राप्ते मन्त्रादिभिस्तासां विग्रहादिमच्चेतनत्वादस्त्यधिकार इत्याद्यसूत्रेण सिद्धान्त इति । तन्न । पूर्वसूत्रस्थमनुष्यपदेनेह तत्सजातीयचेतनान्तर एवानधिकार शङ्कोदयेनाचेतनानधिकारपूर्वपक्षस्यासङ्गतेः । अस्मद्रीत्या ‘‘अभिमानी’’ति सूत्रोक्तन्यायेन मन्त्रादेः स्वार्थपरत्वेन विग्रहाद्यङ्गीकारेण पूर्वपक्षसम्भवे तदनङ्गीकारेण तस्य जघन्यत्वाच्च । किं च पूर्वपक्षे स्वार्थे मन्त्रादेरप्रामाण्येऽप्युपनिषदामपि स्वार्थे प्रामाण्यं नास्ति चेद्ब्रह्मैव च न सिध्येत् । अस्ति चेत् ‘‘ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनायापिपासाभ्यामन्ववार्जत्ता एनमब्रुव’’ न्निति ‘‘तत एते व्यजायन्त विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा’’ इत्याद्युपनिषद्भिरेव विग्रहादिसिद्धिः । न हि ताः स्रष्टरि प्रमाणं सृज्ये तु नेति युक्तम् ।

किञ्च–

देवताविग्रहादिश्चेत् श्रुतितात्पर्यगोचरः ।

बाध्यो न स्यान्न चेन्न स्याद्व्यावहारिकसन्नपि ॥ १ ॥

अन्यथा चितिमात्रं च बाध्येतैव कदाचन ।

यजमानप्रस्तरत्वमपि स्याद्व्यावहारिकम् ॥ २ ॥

समर्थितं चैतत्प्राक् । यच्चोक्तं परैर् देवतानां देवतान्तराभावेन तदुद्देशेन हविस्त्यागायोगाद् ऋषीणां च भृग्वादीनां भृग्वाद्यन्तराभावेन तद्वरणायोगाद्यज्ञादिकर्मस्वनधिकारेऽपि ब्रह्मविद्यासु सोऽस्तीति । तन्न । देवतानामपि ‘‘यज्ञेन यज्ञमयजन्त देवा’’ इति ‘‘देवा वै सत्रमासते’’ति ‘‘देवा यज्ञमतन्वते’’ति ‘‘देवा वै चतुर्होतृभिर्यज्ञमतन्वते’’ति ‘‘यद्विश्वदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्व’’मिति ‘‘प्रजापतिर्वा एतेनाग्रेऽयजते’’ति ‘‘इन्द्रोऽश्वमेधाञ्शतमिष्ट्वे’’ति ‘‘देवा वै वरुणमयाजयन्’’ इत्यादिश्रुतिभिः,

ततस्तु देवताः सर्वा ब्रह्मा चैव महर्षयः ।

वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन् ॥

इत्यादिभारतादिवचनैश्च देवानामपि यज्ञादिसद्भावात् । शूद्रवच्च तेषामधिकारनिषेधाभावात् । देवताकर्तृकयज्ञेषु च–

योमे यथा कल्पितवान्भागमस्मिन्महाक्रतौ ।

स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ।

मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥

इति भारते देवादीन्प्रति भगवद्वचनादिभिरग्नीन्द्रादिशब्दमुख्यार्थो भगवानेवोद्देश्यः । अत एव ‘‘इन्द्रो वा अकामयत ज्यैष्ठ्यं देवानामभिजयेयमिति । स एतमिन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं निरवप’’दित्यादिश्रुतयः । भृग्वादिवरणं च मनुष्यविषयम् । यद्वा अनादौ संसारे पूर्वपूर्वभृग्वादिवरणमुत्तरोत्तरेषां युक्तम् ।

प्रकाशिका

मन्त्रेति ॥ मन्त्रस्यानुष्ठेयद्रव्यदेवताप्रकाशनपरत्वेन अर्थवादस्यानुष्ठेयस्तुतिपरत्वेन आदिपदोक्तस्य विधेर्विधेयार्थविधानपरत्वेन देवताविग्रहादौ तात्पर्याभावादतात्पर्यविषयस्यासिद्धेरित्यर्थः । देवताभावे यागासिद्धिरित्यतो भामत्युक्तमाह ॥ अर्थेति ॥ चतुर्थ्यंतशब्दप्रतीतमात्रश्शब्दावच्छिन्न स्तादृगर्थनियमितः शब्दो वा देवतेत्यर्थः ॥ मन्त्रेति ॥ वज्रहस्तः पुरन्दरः । तेनेन्द्रो वज्रमुदयच्छदित्यादिभिरित्यर्थः । न च मन्त्रादीनामन्यपरत्वमुक्तमिति वाच्यम् । प्रकाशनस्तुत्यादिपरत्वेऽपि मानान्तराविरुद्धे स्वार्थेऽपि तात्पर्यात् । अन्यथा गुणिनिष्ठगुणाभिधानरूपस्तुत्यादेरनुन्मेषादिति भावः । गत्यन्तराभावादेवमाश्रीयत इत्यत आह ॥ अस्मदिति ॥ तस्य जडानधिकारपूर्वपक्षस्य । असिद्धं च विग्रहादिराहित्यमित्याह ॥ किञ्चेति ॥ ता एता इत्यैतरेयवाक्यम् । तत एत इत्यदृश्यत्वनये भाष्योक्तश्रुतिरियम् ॥ न हीति ॥ नियामकाभावेन स्रष्टुस्सृज्यसापेक्षतया तत्राप्रामाण्ये स्रष्टर्यपि तथा स्यादित्यर्थः । एवं मतद्वये पूर्वपक्षं साधारणदोषेण निरस्याद्वैतमते सिद्धान्तोऽप्ययुक्त इत्याह ॥ किञ्चेति ॥ न स्यादिति ॥ ब्रह्मवदिति शेषः । न चेत् श्रुतितात्पर्यगोचर इत्यनुषङ्गः । सन्नपि विग्रहादिरित्यन्वयः । यजमानप्रस्तरत्ववदिति भावः । विपक्षे बाधकाभावाद्व्याप्तिहीनौ द्वावपि तर्कावित्यत उभयत्र विपक्षे बाधकमाह ॥ अन्यथेति ॥ तात्पर्यगोचरस्यापि बाध्यत्व इत्यर्थः ॥ यजमानेति ॥ अन्यथेत्यनुषङ्गः । तात्पर्यागोचरस्यापि व्यावहारिकत्व इत्यर्थः ॥ प्रागिति ॥ जिज्ञासाधिकरणे ।

औत्युक्तमन्यदपि निराह ॥ यच्चेति ॥ पूर्वतन्त्रे हि षष्ठस्याद्यपादे ‘‘फलार्थत्वात्कर्मणश्शास्त्रं सर्वाधिकारं स्यादि’’ति द्वितीयेऽधिकरणे देवर्ष्यादीनामधिकारोऽस्ति न वेति विशये फलार्थित्वादिनाऽधिकारोऽस्तीति प्राप्ते देवानां देवतान्तराभावेन तदुद्देशेन हविस्त्यागायोगाद्भृगुप्रभृत्यृषीणां भृग्वाद्यन्तराभावेनार्षेयवरणायोगादनधिकारः कर्मणि देवर्ष्यादीनामिति सिद्धान्तितम् । तदुक्तन्यायेन कर्मण्यधिकाराभावेऽपीत्यर्थः । प्राचां वस्वादिदेवानां भृग्वाद्यृषीणां च क्षीणाधिकारत्वेनेदानींदेवत्वऋषित्वयोरभावादिति भावः ॥ सोऽस्तीति ॥ तथेह बाधकाभावादिति भावः । यज्ञं विष्णुम् । यज्ञो वै विष्णुरिति श्रुतेः । अयजन्त आराधितवन्तः । एतत्पुरुषसूक्तगतं वाक्यम् । ‘‘देवावै सत्रमासत ऋद्धिपरिमितं यशस्कामा’’ इति तैत्तिरीये द्वितीयकाण्डे तृतीयप्रश्नादावारण्यके च वाक्यम् । ‘‘देवा यज्ञमतन्वते’’त्यपि पुरुषसूक्तस्थं वाक्यम् । ‘‘देवा वै चतुर्होतृभि’’रिति परातेद्वितीयकाण्डे द्वितीयप्रश्ने वाक्यम् । चतुर्होतृभिश् चतुर्होतृनामकैः । अग्निर्होतेत्यादिमन्त्रैरित्यर्थः । ‘‘यद्विश्वेदेवा’’ इत्येतदपि पराते प्रथमकाण्डे चतुर्थप्रश्ने वाक्यम् ॥ प्रजापतिर्वा इति ॥ एतेन ‘‘प्रजापतिर्वाव ज्येष्ठः । स ह्येतेनाग्रेऽयजते’’ति सप्तमकामकाण्डस्थं वाक्यमुपात्तमित्याहुः । अन्ये तु शाखान्तरस्थमिति । ‘‘इन्द्रोऽश्वमेधा’’निति तृतीये ‘‘श्रुत्यादिबलीयस्त्वाच्च न बाध’’ इत्यत्र भाष्योक्तश्रुतिः । देवा वा इति पराते द्वितीयकाण्डे द्वितीयप्रश्ने श्रुतम् । अत्र वाक्य आद्यन्तयोश्श्रुतषष्ठ्यन्तपदयोर्देवतानामपि देवानामिति विशेषणविशेष्यभावेनान्वयः । देवतानामपीत्यस्य ‘‘साऽस्य देवते’’त्यादाविव सम्प्रदानभूतस्वामिवाचित्वाद्देवतापदस्य यज्ञेष्वाराध्यानामपीत्यर्थः । तेन न पौनरुक्त्यदोषः । देवानामपीत्यपिशब्दो न केवलं मनुष्याणामिति समुच्चयार्थः । अर्थवादानां स्वार्थे तात्पर्यस्य परेषामप्यनुमतत्वादन्यथा देवतातद्विग्रहाद्यसिद्ध्यापत्तेरित्यग्रे वक्ष्याम इति भावः । नन्वबाधे स्वार्थे तात्पर्यम् । इह च बाधकान्न स्वार्थे तात्पर्यमस्तीति चेत् तत्किं शूद्रादिवन्निषेध उत देवतान्तराभावादिरूपः प्रागुक्तः । आद्य आह ॥ शूद्रेति ॥ ‘‘नाग्निर्नयज्ञश्शूद्रस्य तथैवाध्ययनं कुत’’ इति ‘‘न च वर्णावरस्याप्यधिकार’’ इतिवन्न देवानामधिकार इति निषेधाश्रवणादिति भावः । द्वितीय आह ॥ देवतेति ॥ वेदसूत्रे वेदार्थनिर्णायकसूत्रे । वज्रिणं वज्रशब्दवाच्यं माम् । वज्रयन्तर्गतमिति वा । शक्रः प्रसिद्धेन्द्रः । यजतामिति द्वितीयार्थे षष्ठी । यजतः । अथवा ‘‘यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपस्विनः । वयं हनामद्विषत’’ इत्यादाविव यजतामिति लोडात्मनेपदम् । अत्र विष्णुविषयत्वाप्रतीतेराह ॥ भगवद्वचनादिभिरिति ॥ अत एवेति ॥ भगवत एवोद्देश्यत्वादित्यर्थः । अभिजयेयं प्राप्नुयामित्यर्थः । इन्द्राय इन्द्रशब्दवाच्याय विष्णवे । इयं च श्रुतिः पराते तृतीयकाण्डे प्रथमप्रश्ने श्रूयते । एवं देवानामधिकारं समर्थ्य ऋषीणां तमाह ॥ भृग्विति ॥ अनेकमानविरोधेन सङ्कोचो न्याय्य इति भावः ॥ पूर्वपूर्वेति ॥ यदत्रोक्तं भामत्यां प्राचां भृग्वादीनां क्षीणाधिकारत्वेनेदानीमृषित्वाभावादिति तन्न । भृग्वादित्वानपायात् । उक्तं च तन्त्ररत्ने ‘‘न च भृग्वादयो भृग्वादिसगोत्रा इति भाष्यमयुक्तम् । कुतः । अनादिर्हि कालोऽस्माकं भृगोरपि पूर्वं भृग्वन्तरसम्भवात् । ततः पूर्वमप्येवमेवेति सम्भवत्येव भृगोर्भार्गवत्वमित्यस्त्येवर्षीणामधिकार’’ इति । ‘‘ऋष्युदाहरणमनादरणीय’’मिति शास्त्रदीपिकायामपि ऋष्युदाहरणानादरणमुक्तम् ।

चन्द्रिकाबिन्दुः

ननु देवानां विग्रहादिराहित्यं कथमर्थवादादिना विग्रहादिप्रतिपादनादित्यत आह ॥ मन्त्रार्थवादेत्यादि ॥ सजातीये अनधिकारशङ्कोचिता न तु विजातीय इत्यभिप्रायेणोत्तरमाह ॥ तन्नेति ॥ किं च त्वत्पूर्वपक्षी उपनिषदां प्रामाण्यं नाङ्गीकरोति उताङ्गीकरोति वेति विकल्प्य क्रमेण दूषयति ॥ किञ्चेति ॥ ब्रह्मैव न सिध्येदिति ॥ तथा च ब्रह्मविद्याधिकारविचारो दूरपरास्त इति भावः ।

ननु देवतासृष्ट्यंशावच्छेदेनोपनिषदामप्यत्राप्रामाण्यमित्यत आह ॥ न हि ता इति ॥ मन्त्रार्थवादादीनां विग्रहादौ तात्पर्यमङ्गीकृत्य योऽयं सिद्धान्तः सोऽप्ययुक्त इत्याह ॥ किञ्च देवताविग्रहेति ॥ न चेदिति ॥ तात्पर्यगोचरो न चेत् । व्यावहारिकसन्नपि न स्यादित्यर्थः । अन्यथा श्रुतितात्पर्यगोचरस्यापि बाध्यत्वे ॥ यजमानप्रस्तरत्वमपीति ॥ अत्राप्यन्यथेत्यनुकृष्यते । तत्रायमर्थः । अन्यथा श्रुतितात्पर्यविषयस्यापि व्यावहारिकसत्त्वाङ्गीकारे । एतदधिकरणे परोक्तमेव प्रासङ्गिकं प्रमेयान्तरं निराकर्तुमनुवदति ॥ यच्चोक्तमिति ॥ स देवतानामपीत्यस्य भगवानेवोद्देश्य इत्यनेनैव सम्बन्धः । अधिकारानधिकारौ हि अपूर्वत्वात्तु श्रुतिस्मृतिमात्रावसेयावित्यभिप्रेत्य देवताधिकारे श्रुतीरुदाहरति ॥ यज्ञेनेत्यादि ॥ यज्ञशब्दस्य ज्ञानयज्ञपरत्वेनापि सावकाशं मन्वानश् चतुर्होत्रादिघटितं देवा वै चतुर्होतृभिरित्यादिवाक्यमुदाहृतवानिति । एवमनेकवाक्योदाहरणे देवयागोभयसामान्यविशेषविषयकत्वं स्वारस्यं प्रयोजनमूह्यं वेदाख्यधर्मसूचके ॥ अत एव इन्द्रशब्दमुख्यार्थमुद्दिश्य इन्द्रकर्तृकयागधर्मस्य उपपन्नता ॥

पाण्डुरङ्गि

ननु ता एता इत्यादेस्सृज्ये न तात्पर्यमिति चेत्तथात्वे स्रष्टर्यपि न स्यादविशेषादित्याह ॥ न हीति ॥ ननु श्रुतितात्पर्यागोचरस्यापि विग्रहादेर्ब्रह्मज्ञानेतरज्ञानाबाध्यत्वाद्व्यावहारिकत्वम् । यजमानप्रस्तरत्वादेर्ब्रह्मज्ञानेतरज्ञानबाध्यत्वादव्यावहारिकत्वमित्यत आह ॥ समर्थितं चेति ॥ श्रुतौ श्रद्धालुना त्वया श्रुतेस्तात्विकविषयत्वस्यैव वक्तव्यत्वात् । न चैतद्देवताशरीरादिकं प्रमाणान्तरप्राप्तम् । येन तद्वाक्यमनुवादकं सत्तत्रातात्पर्यादप्रमाणं न स्यादित्यादिनाऽन्तराद्यधिकरणेषु समर्थितमित्यर्थः । देवानां कर्मस्वनधिकारः किं साधकाभावात्किं वा निषेधसद्भावात्किं वाऽनुपपत्तिसद्भावादिति विकल्पान्मनसि निधायाद्यं दूषयति ॥ देवतानामपीति ॥ न द्वितीय इत्याह ॥ शूद्रवच्चेति ॥ तृतीये देवानां देवतान्तरभावेन तदुद्देशेन हविस्त्यागायोगो बाधक इति तावन्निराकरोति । देवताकर्तृकयज्ञेष्विति ॥ वेदसूत्रेति ॥ सूचनात्सूत्रमित्यर्थः । ऋषीणां भृग्वादीनां भृग्वाद्यन्तराभावेन तद्वरणायोगात्स्वेन स्ववरणस्य च कर्तुमशक्यत्वान्न कर्मण्यधिकार इत्यत आह ॥ भृग्वादीति ॥ भृग्वादिवरणस्य मनुष्यमात्रविषयत्वे गौणता भवतीत्यरुच्याऽह ॥ यद्वेति ॥


ननु ‘‘वसन्ते ब्राह्मणोऽग्नीनादधीत..

तात्पर्यचन्द्रिका

ननु ‘‘वसन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः शरदि वैश्य’’ इति ‘‘वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं शरदि वैश्य’’मिति च त्रैवर्णिकानामेवाधानोपनयने श्रुते इति अत्रैवर्णिकानां देवानां तदभावात्तत्साध्याग्निविद्ययोरभावान्न धर्माधिकार इति चेन्न । ‘‘देवा वै भद्राः सन्तोऽग्निमाधित्सन्ते’’त्युपक्रम्य ‘‘ते पुनर्वस्वोरादधते’’ति ‘‘देवावा अग्निमादधते’’त्यादौ देवतानामप्याधानश्रवणात् । ‘‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’’ इति ब्रह्मणः, ‘‘ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वण’’मित्यादौ देवर्षीणां नारदादीनां चाध्ययनश्रवणाच्च ।

त्वत्प्रसादेन भगवन् स्वाध्यायतपसोर्मम ।

कुशलं चाव्ययं चैव सर्वस्य जगतस्तथा ॥

इति मोक्षधर्मे चतुर्मुखं प्रति रुद्रवचनाच्च । देवानां त्वन्मते कर्मानधिकारेऽपि वैदिकज्ञानाधिकारवदुपनयनाभावेऽप्यध्ययनोपपत्तेश्च । अध्ययनाभावेऽपि देवानां स्वयं प्रतिभातवेदत्वाच्च । ‘‘अथ पुमर्थसाधनान्यर्थो धर्मो ज्ञानमित्युत्तरोत्तरम् । तत्राधिकारिणो मनुष्या ऋषयो देवा इत्युत्तरोत्तर’’मित्यादिश्रुतिसिद्धस्य देवानां कर्माधिकारस्यात्रैवर्णिकत्वादिनाऽपलापे तत एव तेषां ब्रह्मविद्यानधिकारापाताच्च । ‘‘देवा एव ब्रह्मचारिण’’ इति प्रक्रम्य ‘‘सर्ववर्णाः सर्वाश्रमिणः सर्वं ह्येते कर्म कुर्वन्ति’’ इत्यादिश्रुतेर्देवानामत्रैवर्णिकत्वाभावाच्च । ‘‘एतया निषादस्थपतिं याजये’’ दित्यादिवचनादत्रैवर्णिकत्वेनानाहिताग्नीनामपि निषादस्थपत्यादीनां लौकिकाग्नौ वैदिककर्माधिकाराङ्गीकाराच्च । देवा वै सत्रमासतेत्याद्यर्थवादानां मानान्तरप्राप्तिविरोधयोरभावेन देवताविग्रहाद्यर्थवादानामिव त्वन्मते स्वार्थे प्रामाण्याच्च । देवानामुपासनांगकर्मानधिकारे उपासनानधिकारापाताच्च ।

प्रकाशिका

देवानामधिकारे बाधकान्तरमाशङ्क्य निराह ॥ नन्विति ॥ तत्साध्येति ॥ आधानोपनयनसाध्ययोरग्निविद्ययोरित्यर्थः । अग्निराहवनीयादिः । विद्या त्वध्ययनसाध्यार्थज्ञानम् । आधित्सन्त आधातुमैच्छन् । ‘‘देवा वै भद्रास्सन्तोऽग्निमाधित्सन्त तेषामनाहितोऽग्निरासीद् अथैभ्यो वामंवस्वपाक्रामत् ते पुनर्वस्वो’’रित्यादिश्रवणात्तैत्तिरीयशाखायामित्यर्थः । तच्छब्दपरामर्शद्योतनाय ‘‘इत्युपक्रम्ये’’त्युक्तम् । अध्ययनमप्यस्तीत्याह ॥ य इति ॥ प्रहिणोति उपदिशति । भगवः भगवन् । ‘‘मतुवसोरुसम्बुद्धौ छन्दसी’’ति मतोः रुः । ननूपनयनसंस्काराभावादध्ययनोक्तिरुपचरितार्थेत्यत आह ॥ देवानामिति ॥ ‘‘विविदिषन्ति यज्ञेन दानेन तपसे’’त्यादिश्रुत्या ‘‘यज्ञादिश्रुतेरश्वव’’दिति सूत्रेण च कर्मणोऽपि विद्यांगत्वादिति भावः । उपनयनसाध्याध्ययनाभावेऽपि विद्यासम्पत्तिमाह ॥ अध्ययनेति ॥ ननु बाधकात्कर्मानधिकारेऽपि ‘‘मघवान्प्रजापतौ ब्रह्मचर्यमुवासे’’त्यादिश्रुतिसिद्धत्वाद्ब्रह्मविद्यायां सोऽङ्गीकार्य इति चेत्तुल्यं कर्मण्यपि । अन्यथा तत्रापि न स्यादिति श्रुत्युदाहरणपूर्वमाह ॥ अथ पुमर्थेति ॥ श्रुतीति ॥ ज्ञानपादे ‘‘नाविशेषा’’दित्यत्र भाष्योक्तश्रुतिसिद्धेत्यर्थः । तत एव अत्रैवर्णिकत्वादेवेत्यर्थः । तदधिकारस्याप्युपनयनसापेक्षत्वादिति भावः ।

अत्रैवर्णिकत्वमभ्युपेत्योक्तम् । वस्तुतस्तु तदेव नेत्याह ॥ देवा इति ॥ श्रुतेरिति ॥ ज्ञानपादे ‘‘मौनवदितरेषामप्युपदेशा’’दिति सूत्रे ‘‘देवा एव ब्रह्मचारिणो, देवा एव गृहस्था, देवा एव वनस्था यथा ह्येते मुनय एवं सर्ववर्णा’’ इति भाष्योक्तकौण्ठरव्यश्रुतेरित्यर्थः । एवं देवानामग्निविद्ये तत्प्रयोजकत्रैवर्णिकत्वं च प्रसाध्येदानीमग्नेरभावेऽप्यधिकारं न्यायेनोपपादयति ॥ एतयेति ॥ षष्ठस्याद्यपादे ‘‘स्थपतिर्निषादःस्याच्छब्दसामर्थ्या’’दित्यन्तिमेऽधिकरणे ‘‘वास्तुमयं चरुं निर्वपे’’दिति प्रकृत्य ‘‘एतया निषादस्थपतिं याजये’’दिति श्रुतम् । तत्र यो द्विजातिरेव निषादानामाधिपत्यं करोति तस्याधिकार उत यो निषाद एव स्थपतिस्तस्येति संशये पक्षद्वयेऽपि शब्दस्य यौगिकत्वात्षष्ठीसमासाश्रयणेऽग्निविद्यावतामेवाधिकार-लाभाद्द्विजानामेवाधिकार इति प्राप्ते षष्ठीसमासाश्रयणे निषादपदस्य तत्सम्बन्धिनि लक्षणाप्रसङ्गात्कर्मधारये तदभावाच्छत्यर्थलाभायाविदुषो निषादस्यैवाधिकार इति सिद्धान्तितम् । तथा च सिद्धेऽधिकारे ‘‘स्थपतीष्टिः प्रयाजवदग्न्याधेयं प्रयोजये’’दित्यष्टमपादीयतृतीयाधिकरणे ‘‘एतये’’ति श्रुतस्थपतीष्टिः किमाहवनीयादिषु स्यादुत लौकिकाग्नाविति संशये प्रकृतित आहवनीयादिप्राप्तेस्तस्य चाधानाधीनत्वादसत्यपि स्थपतेराधानविधाविष्टिरेवेयमाधानं प्रयोजयेदिति प्राप्ते वसन्तादिवाक्यविहिताधानजन्याग्निगतसंस्कार वाचित्वादाहवनीयादिशब्दस्य स्थपतिकृतेन चाधानेनाविहितेन संस्कारासिद्धेर्नाधानाक्षेप इति लौकिकाग्नावेवेष्टिस्स्यादित्युक्तं तद्वद्देवानामधिकारस्स्यादित्यर्थः ।

ननु विषमोऽयमुपन्यासः । स्थपतेरिष्टिविधानबलेनैतस्य सर्वस्य कल्पनेऽपि प्रकृतेऽपि देवानां विशिष्य कर्मविध्यभावात् । प्रागुदाहृतवचनानां चार्थवादत्वेन सत्रादिप्रशंसापरत्वेन स्वार्थे तात्पर्याभावात् । अन्यथा ‘‘वायुर्वै क्षेपिष्ठा देवता, अग्निर्हिमस्य भेषजं, को हि तद्वेद यद्यमुष्मिल्लोकेऽस्ति वा न वेति आदित्यो यूपो भवती’’त्यादेरपि स्वार्थपरता स्यादित्यत आह ॥ देवा वा इति ॥ मीमांसकमते तथात्वेऽपि न त्वन्मते तथात्वं युक्तम् । अन्यथा देवता विग्रहाद्यसिद्ध्यैतदधिकरणसिद्धान्तानुन्मेषस्स्यादित्यर्थः । तदुक्तं भामत्यां ‘‘मन्त्रादिपदसमन्वयात् प्रतीयमानोऽर्थः प्रमाणान्तराविरोधे सत्यभ्युपेतव्यः । न तु विरोध’’ इति ॥ उपासनाङ्गेति ॥ यद्यपि नित्ये कर्मण्यंगानधिकारेऽपि प्रधानेऽधिकारश्शक्यांगोपसंहारेण समर्थितः ‘‘सर्वशक्तौ प्रवृत्तिस्स्यात्तथा भूतोपदेशा’’दिति षष्ठतृतीयपादीयाद्यनये । तथाप्युपासनायाः फलार्थतया विधानेन काम्यत्वाद्वा कर्मणां शक्यत्वेन वा तद्वैषम्यं ध्येयम् । एतेन कर्माङ्गविद्याधानानधिकारिणोऽपि स्थपतेः कर्माधिकारोऽस्तीति निरस्तम् । ‘‘नाग्निर्नयज्ञश्शूद्रस्य तथैवाध्ययनं कुत’’ इति स्थपतेस्तत्राधिकारनिषेधस्येव देवानां कर्माधिकारनिषेधाभावात् ।

चन्द्रिकाबिन्दुः

देवानाम् अग्निविद्ययोर् अत्रैवर्णिकत्वादनधिकार एवेति अभिप्रेत्य शङ्कते ॥ नन्विति ॥ आधानोपनयने इति ॥ तथा चोपनयनाभावाद् देवानां वेदाधिकारो नास्तीति हृदयम् । त्रैवर्णिकत्वाभावेऽपि श्रुत्या आधानस्याध्ययनस्योक्तत्वान्नानुपपत्तिरित्यभिप्रेत्याह ॥ देवा वै भद्रा इत्यादि ॥ कर्मानधिकारेऽपीति ॥ कर्म कुर्वत एव ज्ञानाधिकारः ‘कर्मणा शुद्धसत्त्वस्ये’त्यादेरिति भावः । उत्तरोत्तरमित्यतिशयिताधिकारिणो मनुष्या ऋषयः देवाश्चेत्यभिप्रायः । तत एव त्रैवर्णिकत्वादेव । कर्मब्रह्मविद्याधिकारयोरपि श्रुत्युक्तत्वादित्यभिप्रायः ।

अत्रैवर्णिकत्वमेवासिद्धमित्याह ॥ देवा एव ब्रह्मचारिण इति ॥ लौकिकाग्नाविति ॥ तद्वद्देवानामाधानाभावेऽपि लौकिकाग्नावेव वैदिककर्मकरणमस्त्विति भावः । देवा वै सत्रमासतेत्याद्यर्थवादानां न स्वार्थे तात्पर्यमित्यत आह ॥ देवा वै सत्रमासतेत्यादि ॥ अर्थवादानामिति ॥ मानान्तरप्राप्तिर्वा तद्विरोधो वा नास्तीत्यर्थः ॥ उपासनाङ्गेति ॥ उपासनाया अङ्गं कर्मेति उपासनाङ्गकर्मास्तीति वा । उपासनैव उद्गीथाद्युपासनाङ्गं यस्य कर्मणस्तदुपासनाङ्गं कर्मेति चार्थः ।

पाण्डुरङ्गि

ननु देवाः कर्माधिकारिणो न अत्रैवर्णिकत्वादित्यनुमानविरोधाद्देवानामनधिकारितेत्याशङ्क्य तर्हि देवा न ब्रह्मविद्याधिकारिणोऽत्रैवर्णिकत्वाच्छूद्रवदित्यनुमानविरोधाद्ब्रह्मविद्याधिकारोऽपि न स्यादित्याह ॥ अथ पुमर्थसाधनानीति ॥ यदि च ब्रह्मविद्यानधिकारसाधकमत्रैवर्णिकत्वानुमानं देवानां ब्रह्मविद्याधिकारप्रतिपादकश्रुतिविरोधादप्रमाणम् । तर्हि कर्मानधिकारसाधकमप्यनुमानं तत्प्रतिपादकश्रुतिविरोधादमानमिति समानम् । तदेतदाह ॥ इत्यादिश्रुतिसिद्धस्येति ॥ ननु तथापि न देवानां कर्मण्यधिकारः । तत्प्रतिपादकवाक्यस्य मानान्तरप्राप्तितद्विरोधाभ्यां तत्रातात्पर्यादित्यत उक्तं मानान्तरेत्यादि ॥