०४ सूत्रक्रमयोजना

अत्र चाद्ये सूत्रे..

सूत्रक्रमयोजना

तात्पर्यचन्द्रिका

अत्र चाद्ये सूत्रे न तावद्देवताजीवानां कदाप्यनधिकारः । तेषामेव पदप्राप्तेः पूर्वं मनुष्यशरीरित्वदशायामधिकारादिति तदुपरीत्यनेन सूचयित्वा नापि पदप्राप्त्यनन्तरमनधिकारः । विशिष्टबुद्ध्यादिभावादिति ‘‘सम्भवा’’दित्यनेनोक्तम् । द्वितीये ‘‘तदुपरी’’त्यनेनोक्तदेवतापदस्य सादित्वे कर्मविरोधः शब्देन परिहृतः । तृतीये तस्मिन्नेव शब्दे विरोधो देवताप्रवाहनित्यत्वेनोद्धृतः । तत्र च प्रभवशब्दः प्रभवनियमपर इति भाष्य एवोक्तम् । चतुर्थे देवताप्रवाहनित्यत्वं तद्वाचकवेदनित्यत्वेन साधितम् ।

ननु न वाचकस्य नित्यत्वेन वाच्यनित्यत्वसिद्धिः । शब्दगतशक्तिविषयस्य वाच्यस्य नाशेपि शक्तेस्तदाश्रयस्य शब्दस्य चानाशोपपत्तेः । न हि शक्यनाशे शक्तितदाश्रययोर्नाशनियमः । प्रलये वाच्यस्य देवतादेरभावेपि वाचकावस्थानाच्च । तदा भारतादिवदतीतविषयत्वे चान्यदापि तथास्त्विति ॥ मैवम् । प्रतिकल्पं वेदोक्तकर्माननुष्ठाने प्रतिकल्पं वेदोपदेशधारणादेर्वैयर्थ्यापातात् । अनुष्ठाने च कर्मकालप्रयुक्तानां ‘‘इन्द्रागच्छे’’त्यादीनां देवताह्वानाद्यर्थत्वात्तदा तदभावे चाह्वानाद्ययोगात् । प्रतिकल्पं कर्मानुष्ठानकाले च देवतासत्त्वस्य तत्प्रवाहानादिनित्यत्वं विनाऽयोगादिति दिक् ।

पञ्चमे धर्मिभूतदेवानित्यत्वहेतुकविरोधाभावेऽपि धर्मभूतरूपादिवैचित्र्यनिमित्तकविरोधशङ्काया उद्धारः । तत्र च ‘‘आवृत्ता’’वित्यस्य प्राचीनानां पदस्थानां मुक्तावन्येषां तत्पदप्राप्तिः पुनस्तेषामपि मुक्तिरित्येवं मुक्तेरावृत्तावपीति वा प्राचीनानां मुक्तत्वेन स्वस्वपदादावृत्तावपीति वा स्वस्वपदेष्ववृत्तावपीति वार्थः । एवं ‘‘मुक्तयावृतावपी’’ति भाष्यमपि त्रेधा व्याख्येयम् । स्वस्वपदेष्ववृत्तावपीति टीकायां तु तत्प्रकारद्वयं स्फुटत्वान्नोक्तम् । षष्ठे मध्वाद्युपासनाविशेषफलस्य वसुत्वादेर्वस्वादिभिः प्राप्तत्वान्न तेषां तत्राधिकार इति शङ्का । सप्तमेतु उपासनामात्रफलस्य ज्ञानस्य सर्वैरपि देवैः प्राप्तत्वान्न तेषां तत्राधिकार इति शङ्का । तत्र च ज्योतिश्शब्दो ज्ञानपरः । ज्ञानस्य चाश्रयापेक्षायां ‘‘तदुपरी’’ति प्रस्तुतदेवतान्वयः । ज्योतिषीति सप्तमी च चैत्रस्य बुद्धौ शास्त्रार्थ इतिवत् । तथाच देवताज्ञाने सर्वस्य भावादिति सूत्राक्षरार्थः । अष्टमे तु तदुद्धार इति सूत्रक्रमः ।

प्रकाशिका

भाष्याद्युक्तमर्थं सूत्रपदारूढं लेशतो दर्शयन् सूत्राणां क्रममाह ॥ अत्र चाद्य इति ॥ ‘‘तदुपर्यपि बादरायणस्सम्भवा’’दित्यत्र तच्छब्देन पूर्वप्रकृतयोग्यमनुष्यत्वं परामृश्यते । तस्मादुपरि तस्योपरीति वा विद्याकर्मभ्यां योग्यमनुष्याणां देवत्वप्राप्त्यनन्तरमप्यधिकारोऽस्तीति विभागविपरिणामाभ्यां पूर्वप्रकृताधिकारपदान्वयः । तेषामप्यधिकारोपयोगिनो विशिष्टबुद्ध्यादेस्सम्भवादित्यर्थः । बादरायणपदं विप्रतिपत्तिसूचनायेति टीकोक्तिः । देवानामधिकारे सन्देहाभावज्ञापनायेति तत्वप्रदीपोक्तिः । अत्र देवानामिति वक्तव्ये तदुपरीत्युक्तिरयुक्ता । अपिपदं च व्यर्थमित्यत आह ॥ न तावदिति ॥ प्रधानहेतूक्तिपरत्वादाद्यत्वमिति भावः ।

ननु तदुपरीति कथम् । ‘‘पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेने’’त्यव्ययेन समासनिषेधात् । न चाव्ययशब्देनोपरिशब्दो न ग्राह्यः । वृत्तावनुदाहृतत्वादिति वाच्यम् । अग्रहणे ज्ञापकस्य वाच्यत्वात् । तत्रैव मंजर्यां ‘‘व्रजस्योपरीत्यप्युदाहर्तव्य’’मित्युक्तेश्च । मैवम् । तत्र प्रकृतषष्ठीसमासस्यैव निषेधात् । इह च ‘‘पञ्चमीभयेने’’त्यत्र योगविभागेन पञ्चमीसमासाश्रयणात् । पञ्चमी च ‘‘अत ऊर्ध्वं प्रवक्ष्यामी’’त्यादाविवावधित्वमात्रविवक्षया युक्ता । अत एव तत्वप्रदीपे ‘‘मनुष्यत्वादुपरी’’त्युक्तम् । षष्ठीसमासपक्षेपि ‘‘पूरणगुणे’’ति सूत्रेऽव्ययशब्देनोपरीत्यस्याग्रहणेन दोषाभावात् । उक्तं च दुर्घटवृत्तौ ‘‘सता तव्येन च कृता पूर्वत्रोत्तरत्र च साहचर्यात्कृदन्ताव्ययस्यैव ग्रहणं तत्र । नत्वन्यस्य । तथाच तदुपरि मदुपरीत्यादिरपि साधु’’रिति ॥ कश्चित्तु तदिति भिन्नं पदम् । षष्ठ्यर्थेऽव्ययं वाऽविभक्तिकं वा लुप्तविभक्तिकं वेत्याह ॥ एतेन तद्ब्रह्मोपासनमुपरि देवादिष्वपि सम्भवतीत्यर्थं वदता केनचिद्रामानुजीयेन षष्ठ्यन्ततच्छब्दस्याव्ययेन समासायोग इत्युक्तं दूषणं निरस्तं ध्येयम् । द्वितीये विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनादित्यत्र येन कर्मणा देवपदं प्राप्तं तस्मिन्नेव पूर्वकल्पे प्रवृत्तकर्मणि पूर्वं देवताभावेनोद्देश्याभावाद्वैयर्थ्याख्यविरोधापत्तेरिति चेन्न । एतद्देवानां पूर्वमभावेप्यनेकेषां योग्यमनुष्याणां देवतापदप्राप्तेः ‘‘तेह नाकं महिमानस्सचन्ते’’त्यादौ दर्शनादित्यर्थः । तथाचान्तरङ्गबाधकनिरासाद्द्वितीयताऽस्येति भावः । यदत्र केनचिदुक्तं मनुष्यप्रवाहस्यानादित्वे विवादाभावेन शङ्काया अनुत्थानाद्दर्शनशब्दस्य स्वार्थे सम्भवति तद्विषयश्रुतिपरत्वमस्वरसमिति तन्निरस्तम् । देवतापदं प्राप्तानामेव प्रवाहस्यानादित्वोक्तया मनुष्यप्रवाहानादित्वानुक्तेः । तदुक्तं टीकायां ‘‘एतद्देवानां पूर्वमभावेपि देवतान्तरसद्भावा’’दिति ॥ दर्शनपदं चाग्रे ‘‘दर्शनात्स्मृतेश्चे’’त्यत्रेव श्रुतौ स्वरसम् । ‘‘दृश्यते हि सौभरिप्रभृतीनां योगिनां युगपदनेकशरीरप्राप्तिः ।

आत्मनो वै शरीराणि बहूनि मनुजेश्वर ।

योगी कुर्याद्बलं प्राप्य तैश्च सर्वां महीं चरेत् ॥

इति भारतवचना’’दिति त्वदुक्तरीत्या ममापि श्रुतौ दर्शनादित्यर्थोपपत्तेश्च । शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्यामिति तृतीये येन वेदरूपशब्देन देवानामादिमत्त्वेपि प्रवाहानादित्वमुपेत्य कर्मविरोधो निरस्तस् तस्मिन्नेव वेदरूपे शब्दे ‘‘वाचा विरूपनित्यये’’ त्यादिना नित्येऽनित्यदेवार्थसम्बन्धायोगरूपविरोध इति चेन्न ।

सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।

यथैव नियमः काले सुरादिनियमस्तथा ॥

इत्यादिरूपाद् अतो ऽस्माच्छब्दरूपप्रमाणाद्देवानां प्रतिकल्पं प्रभवात्प्रभवनियमावगमान् महतां प्रत्यक्षाद् यथेदानीं तथोपर्यपि देवा भविष्यन्तीतीतरेषामनुमानाच्चेति स्वरूपनित्यत्वाभावेपि प्रवाहरूपेण नित्यत्वमुपेत्योद्धृतः । तथाचाकाङ्क्षाक्रमात्क्रम इत्यर्थः । अत्र नित्यत्वादिति वाच्ये प्रभवादित्युक्तिर्देवप्रवाहनित्यत्वद्योतनाय । नन्वत्रात इत्युक्तशब्दरूपमानेनैवालम् । किं प्रत्यक्षाद्युपन्यासेनेति चेत् श्रुतावुपचारेणाप्युक्तिरिति शङ्कानिरासार्थत्वात् । तर्हि शब्दप्रत्यक्षानुमानेभ्यः प्रभवादिति सूत्रणीयम् । किं विभागेनेति चेन्न । शब्दस्यान्यानपेक्षप्रमाणत्वेन प्रधानत्वेनादौ पृथङि्नर्देशात् । महतां प्रत्यक्षमस्तीति ज्ञानस्य तत्प्रामाण्यज्ञानस्य च शब्दमूलत्वादनुमानस्यापि शब्दसंवादित्वेनैव प्रामाण्यात्तयोस्समासेन निर्देश इति । एतेन प्रत्यक्षानुमानाभ्यां चेति स्यादिति निरस्तम् । उत्तरसूत्रे युक्तयन्तरसमुच्चायकचशब्दोक्तेश्च । एतेनैव प्रत्यक्षं नोपन्यासार्हम् । विप्रतिपत्तेरिति केनचिदुक्तं निरस्तं बोध्यम् । चतुर्थे अत एव च नित्यत्वमित्यत्र । परोक्तशब्दनित्यत्वादेव वाच्यार्थस्य देवस्य प्रवाहतो नित्यत्वं सिध्यति । न हि वाच्यानित्यत्वे वाचकनित्यत्वं सिध्यतीत्यर्थापत्त्या देवप्रवाहनित्यत्वमत्र साध्यते । पूर्वोक्तश्रुत्याऽर्थापत्तेस्समुच्चयार्थश्चशब्दः । पूर्वं शब्दात्प्रभवनियमोक्तिः । अत्र नित्यत्वरूपतद्धर्मात्तदुक्तिरिति योगविभागः । ननु पूर्वत्र प्रभवशब्दस्य प्रभवनियमपरतया नित्यत्वार्थत्वस्येहानुवृत्त्याऽत एव च प्रभव इत्यन्वये सत्यत एव च नित्यत्वमित्यर्थस्य लाभान्नित्यत्वमित्यवक्तुं शक्यम् । मैवम् । तस्य पञ्चम्यन्तत्वेनेह प्रथमान्ततयाऽनुवृत्तेर्दुर्बोधत्वात् । प्रभवशब्दस्य नित्यत्वार्थकत्वस्यास्पष्टत्वाच्च । अत एव चेत्यस्य प्राक्प्रकृतशब्दनित्यत्वपरामर्शद्योतनाय च नित्यत्वमिति पृथुगुपादानाच्चेति ।

‘‘नापि भारतादिवदतीतविषयत्वेनोपपत्तिः । अनुपपत्तेरुक्तत्वा’’दिति टीकां विवृण्वन्नर्थापत्तेरन्यथोपपत्तिमाशङ्क्य समाधत्ते ॥ नन्विति ॥ अर्थापत्तेरनुमानत्वेपि तद्विशेषत्वात्पृथगुक्तिः । ननु तद्वाच्यदेवतास्वरूपस्य नित्यत्वे सर्वमुपपन्नमिति चेन्न । ‘‘सूर्याचन्द्रमसा’’वित्याद्युत्पत्तिविरोधात् । ‘‘अग्नौ सर्वेदेवा विलीयन्त’’ इति लयश्रुतिबाहुल्याच्च । ‘‘न च श्रुतीनामयथार्थत्वं बाधकाभावा’’दित्यादिटीकोक्तं मनसि निधायाह ॥ दिगिति ॥ पञ्चमे समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्स्मृतेश्चेत्यत्र नियतैकपाठस्य वेदस्य नानाविधनामरूपवद्देववाचित्वेऽप्रामाण्यमाशङ्क्य प्राचां देवानां प्राप्तमुक्तित्वेन पुनस्स्वपदेष्ववृत्तावपि पुनस्तदन्येषां ‘‘यथापूर्व’’मिति श्रुत्या ‘‘अनादिनिधना नित्ये’’त्यादिस्मृत्याच प्राचीनसमाननामरूपत्वात्तत्प्रतिपादकैकविधस्यापि प्रामाण्योपपत्तिरित्युद्धारः कृत इत्यर्थः । एवं चावसरक्रम इति भावः । अपिरत्र यद्यप्यवृत्तिस् तथाप्यविरोध इति शङ्काद्योतकः । टीकोक्तमुपलक्षणमिति भावेनाह ॥ तत्र चेति ॥ आद्योऽर्थस्स्वयमुत्प्रेक्षितः । द्वितीयस्तत्वप्रदीपोक्तः । तृतीयस्तु तत्र टीकायां चोक्त इति ध्येयम् । षष्ठे मध्वादिष्वसम्भवादनधिकारं जैमिनिरित्यत्र ‘‘वसूनामेवैको भूत्वे’’त्यादिना मध्वादिविद्यासु वस्वादिपदानामुपासनाप्राप्यफलत्वश्रवणाद्देवानां च प्राप्ततत्पदत्वेनार्थिताऽसम्भवात्तत्रानधिकारं जैमिनिर्मन्यत इत्युक्तेः । सप्तमे ज्योतिषि भावाच्चेत्यत्र ज्योतिषि सर्वज्ञत्वे सर्ववस्तूनां भावादन्तर्भावाद्देवानां सर्वज्ञतया सर्वविद्याज्ञानितया मोक्षहेतुज्ञानार्थमपि न तत्राधिकार इत्युक्तत्वाच्छङ्काद्वयं सूत्रद्वये कृतमित्यर्थः । विवक्षितार्थलाभप्रकारमाह ॥ तत्रचेति ॥ अष्टमे भावं तु बादरायणोस्ति हीत्यत्र । सर्वविद्यासु देवानामधिकारभावं बादरायणो मन्यते । अस्ति ह्यतिशय इत्युक्ततया ज्ञाने मोक्षे चातिशयाधायकतयाऽनधिकारशङ्काद्वयोद्धारः कृत इत्यर्थः ॥

चन्द्रिकाबिन्दुः

सम्भवादित्यनेनेति ॥ तथा च साधकोक्तिपरं सूत्रमिति भावः ॥ शब्देनेति ॥ दर्शनादिति पदेनोक्तेनेति शेषः ॥ न हीति ॥ दाहनाशेऽपि वह्निगतदाहकशक्तेरनाशादिति भावः । तदभावे धर्मिभूतेत्यादि क्रमे हेतुगर्भं विशेषणम् ॥ स्वस्वपदादावृत्तावपीति ॥ स्वस्वपदान्निर्गमनेपीत्यर्थः । विशेष फलस्येति । अनेन मास्तु विशेषफलविद्याधिकारः सामान्यफलविद्यास्वधिकारोऽस्त्विति शङ्काक्रमेणोत्तर सूत्रप्रवृत्तिरिति क्रमे निमित्तं सूचितम् । ज्ञानस्य चेतनधर्मत्वेन यत्किञ्चिच्चेतनलक्षणाश्रयाकाङ्क्षायामित्यर्थः ॥ चैत्रस्येति ॥ बुद्धाविति ॥ अधिकरणसप्तमी सम्बन्धश्च विषयित्वमिति द्रष्टव्यम् । न तु विषयसप्तमी । तथात्वे शास्त्रार्थे बुद्धिरिति निर्देशो भवेदिति भावः । तदुद्धारः शङ्काद्वयोद्धारः ।

पाण्डुरङ्गी

तदुद्धारः शङ्काद्वयोद्धार इत्यर्थः ।