०२ पूर्वपक्षनिरूपणम्

पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु ॥ न देवादीनां ब्रह्मोपासनाधिकारः । तथाहि । तत्तत्पदविशिष्टा देवाः किमुत्पत्तिविनाशवन्तः किं वाऽनादिनित्याः । नाद्यः । इन्द्रादिपदप्राप्तेः पूर्वं पश्चाच्चेन्द्रादिदेवताभावेन तदुद्देशेन द्रव्यत्यागात्मकयागादिरूपकर्मविरोधात् । न चेन्द्रादिपदोपलक्षित आत्मोद्देश्यः । स च पूर्वं पश्चाच्चास्तीति युक्तम् । भविष्यदिन्द्रादिपदानां मनुष्यादिशरीराणामप्युद्देश्यत्वापातात् । ऐन्द्रादियागशेषार्थवादे तन्मन्त्रे च तत्तत्पदतत्तद्विग्रहादिविशिष्टस्यैवेन्द्रादेस्तत्तद्यागादिना प्रीत्याद्युक्तेश्च । न च चतुर्थ्यंतः शब्द एव देवता । स चानादिनित्य इति वाच्यम् । मन्त्रार्थवादेतिहासपुराणादिना विग्रहादिमद्देवतासिद्धेरभिमान्यधिकरणे वक्ष्यमाणत्वात् । शब्दस्याचेतनत्वेन सुतरामनधिकाराच्च । न चेन्द्रादीनामनित्यत्वेऽपि सर्वकर्मसु ब्रह्मैवोद्देश्यमिति युक्तम् । मनुष्यादिभिरिन्द्राद्यधिष्ठानस्यैव ब्रह्मण उद्देष्टव्यत्वात् । अन्यथा बहुविप्लवापातात् । नन्वेतदिन्द्रोत्पत्तेः पूर्वमिन्द्रान्तरस्य सत्त्वेन तदुद्देश इति चेन्मैवम् । द्वितीयसूत्राशङ्कितकर्मविरोधोद्धारेऽपि तृतीयसूत्राशङ्कितशब्दविरोधानुद्धारात् । अत एव टीकायां ‘‘कर्मादिविरोधा’’दित्यादिशब्दः । ननु द्वितीयोक्तेन देवताप्रवाहस्यानादित्वेनैव कर्मविरोधवच्छब्दविरोधोऽप्युद्धृत एव । अनादेः शब्दस्य साद्यर्थसम्बन्धविरोधेप्यनाद्यर्थसम्बन्धाविरोधात् । तथाच तृतीये पुनः शब्दविरोधाशङ्का न युक्ता ।

न च द्वितीये प्रवाहस्यानादित्वमेवोक्तम् । नत्वनन्तत्वम् । तस्य तृतीये वक्ष्यमाणत्वात् । तथाचानन्तस्य शब्दस्यान्तवदर्थसम्बन्धो विरुद्ध इति शङ्का तृतीये युक्ता । अत एव भाष्ये द्वितीयसूत्रे ‘‘तत्पूर्वं देवताभावा’’दिति तृतीयसूत्रेतु ‘‘देवानामनित्यत्वा’’दित्युक्तमिति वाच्यम् । द्वितीयेऽपि सादित्वप्रयुक्तकर्मविरोधवत्तत्प्रयुक्तशब्दविरोधस्यापि तृतीये सान्तत्वप्रयुक्तशब्दविरोधस्येव तत्प्रयुक्तकर्मविरोधस्यापि परिहारेण द्वितीये कर्मपदस्य तृतीये शब्दपदस्य चायोगादिति चेन्न । उभयत्रोभयविरोधपरिहारेप्याद्यसूत्रे मनुष्याणां सतां कर्मादिना देवादित्वमिति तदुपरीत्यनेनोक्ते तर्हि येन कर्मणा देवादित्वं साध्यं तस्मिन् कर्मण्येव विरोधः । ततः पूर्वं साधनावस्थायां देवताभावादिति शङ्किते कर्मविरोधे द्वितीयसूत्रेण पूर्वपूर्वदेवताप्रवाहस्यानादित्वप्रतिपादकशब्दान्निरस्ते तर्हि तस्मिन् शब्द एव विरोध इति शङ्कितस्य शब्दविरोधस्य तृतीयेन निरासाद्द्वितीये कर्मशब्दस्य तृतीये शब्दशब्दस्य चोपपत्तेः । एतेनानादित्वश्रुतिवत् ‘‘यथैव नियमः काल’’ इति भाष्योदाहृतानन्तत्वश्रुतिरपि द्वितीयसूत्रस्थेन ‘‘दर्शना’’दित्यनेन विवक्षितुं शक्येति पुनस्तृतीये सान्तत्वनिमित्तापि शब्दविरोधशङ्का निर्बीजेति निरस्तम् । उक्तरीत्याऽऽकाङ्क्षाक्रमेण द्वितीयेऽनादित्वस्यैव वक्तव्यत्वेन ‘‘दर्शना’’दित्यनेन तत्रैव शब्दोपन्यासात् ।

प्रकाशिका

उत्तरोत्तरपूर्वपक्षकोटेः पूर्वपूर्वकोटिहेतुतां व्यञ्जयिष्यन्नन्त्योपान्त्ययोस्तां तावद्व्यंजयन् ‘‘तथाही’’त्यादिटीकां विवृणोति ॥ तत्तत्पदेति ॥ इन्द्रादीति ॥ एतेन ‘‘अमराणा’’मित्यादिटीकार्थ उक्तः ॥ द्रव्यत्यागात्मकेति ॥ ‘‘यजति चोदनाद्रव्यदेवताक्रिय’’मिति चतुर्थजैमिनिसूत्रोक्तेः ‘‘यज्ञो देवतामुद्दिश्य द्रव्यत्याग’’ इति नवमगीताभाष्योक्तेश्चेति भावः । आत्मा चेतनः । इष्टापत्तिमाशङ्क्याह ॥ ऐन्द्रेति ॥ ‘‘यदनेन हविषाऽऽशास्ते तदश्यात्तदृध्यात्तदस्मै देवा राधन्तां वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावती’’त्याद्यर्थवाद इत्यर्थः । मीमांसकमतमपाकरोति ॥ न च चतुर्थ्यंत इति ॥ मन्त्रेति ॥ वज्रहस्तःपुरन्दरः । तेनेन्द्रो वज्रमुदयच्छदित्यादिनेत्यर्थः । एतेन भामत्याद्युक्तजडदेवतापूर्वपक्षः प्रत्यूढः । सिद्धान्तमाशङ्क्याह ॥ न चेति ॥ ब्रह्मचानादिनित्यमिति भावः ॥ बहुविप्लवेति ॥ साक्षात्तस्यैवोद्देश्यत्वे सर्वस्य वैष्णवत्वेनैन्द्राग्नेयादिकर्मव्यवस्था नस्यादित्यर्थः । उक्तदोषपरिहारमाशंक्य दोषान्तरमाह ॥ नन्विति ॥ शब्देति ॥ अनादेश्शब्दस्याद्यन्तवदर्थसम्बन्धेऽप्रामाण्याख्यविरोध इत्यर्थः । ‘‘न च वाच्यं कर्मविरोधाभाववदयमपि परिहर्तव्य इती’’ति टीकां विवरीतुं शब्दविरोधस्य पुनरुत्थानमाक्षिप्य द्वेधासमाधिमाह ॥ नन्वित्यादिना विरोधशङ्कासमाधाने युक्ते इत्यन्तेन ॥ युक्ततां हेतुभेदोपन्यासेनाशङ्क्य निराह ॥ न चेति ॥ इति वाच्यमित्यन्वयः । तृतीये सूत्रे अतः प्रभवादित्यंशेनेत्यर्थः । सूत्रार्थस्त्वग्रेस्पष्टः ।

अस्त्वेवं ततः किमित्यत आह ॥ तथाचेति ॥ द्वितीयसूत्रे इन्द्रादिदेवव्यक्तिसादित्वप्रयुक्तकर्मविरोधपरिहारेऽपि तेषामनित्यत्वेनोत्तरकाले देवतानामभावेन नित्यस्य शब्दस्य तत्सम्बन्धो विरुद्ध इति शङ्का युक्तेत्यर्थः । हेतुभेदे ज्ञापकमाह ॥ अत एवेति ॥ परिहारेणेति ॥ अन्यथा शब्दे देवसादित्वप्रयुक्तस्य कर्मणि देवतानित्यत्व प्रयुक्तस्य विरोधस्यान्यत्रापरिहृततयाऽनुद्धृतत्वापातात् । अत्रोद्धारन्यायस्योभयत्र साम्याच्चेति भावः । भाष्यं तूपलक्षणतया कथञ्चिन्नेयमिति शङ्कितुर्भावः । अत एव ‘‘शब्द इति चे’’दिति सूत्रांशविवरणटीकायां ‘‘न च वाच्यं कर्मविरोधाभाववदयमपि विरोधः परिहर्तव्य इति । अतीतदेवताप्रवाहे प्रमाणसद्भावेनातीतकालविरोधस्यैव परिहर्तुं शक्यत्वात् । उत्तरकालेऽन्यदेवताभावनियमे प्रमाणाभावेन विरोधस्य कर्मण्यपि साम्या’’दित्युक्तमिति हृदयम् । उभयोरुभयत्र परिहारं टीकाभिमतमुक्त्वा तत्र यस्सूत्रविन्यासायोगश्शङ्कितस्तमुद्धरति ॥ उभयत्रेति ॥ कर्मादिनेति ॥ विद्ययेत्यादिशब्दार्थः ॥ शब्दादिति ॥ ‘‘तेह नाकं महिमानस्सचन्ते’’त्यादिशब्दादित्यर्थः ॥ तत्रैवेति ॥ अनादित्व एवेत्यर्थः । अयं च परिहारः ‘‘अतीतदेवते’’त्यादिटीकासूचितः ।

चन्द्रिकाबिन्दुः

टीकोक्तं कर्मविरोधमुपपादयितुमाह ॥ न चेन्द्रादीत्यादिना ॥ वक्ष्यमाणत्वादिति ॥ तथा च शब्दो न देवतेति भावः ॥ अन्यथेति ॥ इन्द्राद्यधिष्ठानस्थब्रह्मण उद्देश्यत्वमित्यनङ्गीकृत्य केवलब्रह्मण एवोद्देश्यत्वमित्यङ्गीकारे द्विदेवत्वादिनियम इन्द्राग्न्यादिभिन्नपदोपादानं च न स्यादिति विकल्पो द्रष्टव्यः ॥ तृतीयसूत्रेति ॥ तत्र देवानामनित्यत्वेन वेदस्य वाच्यहीनत्वापत्त्या अप्रामाण्यमिति यो विरोधस्स न परिहृत इति भावः । द्वितीयसूत्रेऽपि साद्यर्थसम्बन्धप्रयुक्तानादिवेदे या प्राप्ताप्रामाण्यशङ्का सा निराकृतेत्यभिप्रेत्याह ॥ अनादेश्शब्दस्येति ॥ तृतीये देवानां नाशप्रयुक्तवेदाप्रामाण्यशङ्कापरिहारः क्रियते । अतो न वैयर्थ्यमित्याशङ्क्य निराकरोति ॥ न च द्वितीये प्रवाहस्येत्यादिना ॥ द्वितीय इति सूत्र इति शेषः ॥ अयोगादिति ॥ सादित्वसान्तत्वप्रयुक्तकर्मशब्दविरोधयोः परिहारस्य सूत्रद्वयेऽप्यविशेषात् (एकत्र कर्मणीति एकत्र शब्द इति विशेषोक्तययोग इति भावः ॥) उभयत्रोभयेति ॥ अनेन सूत्रत्रयमप्युभयविधविरोधपरिहाराभिप्रायेण प्रवृत्तमिति भाष्यटीकाकाराद्यभिप्राय इत्यभिप्रायः । शङ्काक्रमेण पदविशेषोपादानमित्यभिप्रेत्याह ॥ आद्य सूत्र इति ॥ एतेनेत्यस्यार्थमाह ॥ उक्तरीत्येति ॥ अनादित्वस्यैवेति ॥ सादित्वप्रयुक्तशङ्कानिरासार्थमनादित्वस्यैव दर्शनादित्यनेन ग्रहणादिति भावः ।

पाण्डुरङ्गि

अन्यथेति ॥ सर्वकर्मसु ब्रह्मण एवोद्देश्यत्वे कर्मभेदे वा सूक्तभेदे वा देवताभेदस्यैव प्रयोजकत्वेन देवतैक्ये यागव्यवस्था सूक्तव्यवस्था वा न स्यादित्यर्थः ।