०७ विशिष्टाद्वैतमतपरीक्षा

केचित्तु

विशिष्टाद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु ‘‘प्राणाधिपः सञ्चरति स्वकर्मभिरङ्गुष्ठमात्र’’ इति श्रुत्यन्तरे जीवस्यांगुष्ठमात्रत्वश्रवणादीश्वरस्य च क्वापि तदश्रवणादिहाङ्गुष्ठमात्रो जीव एवेति प्राप्ते अन्यत्राश्रुतमप्यङ्गुष्ठमात्रत्वमिहेश्वरस्यैव । ईशानशब्दादिति सिद्धान्त इत्याहुः । तन्न । ‘‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ती’’ति श्वेताश्वतरे,

अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ।

ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥

इति तैत्तिरीये चान्यत्रेश्वरस्यापि तच्छ्रवणात् । ईश्वरस्यान्यत्र तच्छ्रवणं नास्तीति कृत्वाचिन्ता त्वस्मदुक्ते गत्यन्तरे सति न युक्ता । यदि च श्वेताश्वेताश्वतरादेरीश्वरविषयत्वे पूर्वपक्षिणो विप्रतिपत्तिस्तर्हि ‘‘प्राणाधिपः सञ्चरती’’त्यादेर्जीवविषयत्वे सिद्धान्तिनोऽपि सा किं न स्यादिति दिक् ।

प्रकाशिका

॥ केचित्त्विति ॥ ‘‘अङ्गुष्ठमात्रः पुरुष’’ इति वाक्यत्रये श्रुतोऽङ्गुष्ठमात्रः प्रत्यगात्मोत परमात्मेति विशये तृतीये ‘‘हृदय’’ इति स्थाननिर्देशेन परोक्तरीतिरयुक्तेत्यन्यथाऽधिकरणशरीरं वर्णितम् । तदनुवदति ‘‘प्राणाधिपस्सञ्चरति स्वकर्मभिरङ्गुष्ठमात्रोरवितुल्यरूपः । सङ्कल्पाहङ्कारसमन्वितोय’’ इति वाक्यस्य कर्मवशत्वादिना जीवपरत्वं सिद्धमिति भावः ॥ जीव एवेति ॥ ईशानत्वं तु प्रथमाङ्गुष्ठमात्रत्वानुरोधेन शरीरेन्द्रियभोग्यभोगोपकरणापेक्षया नेयमिति भावः ॥ ईशानेति ॥ भूतभव्यस्य सर्वस्येशितृत्वं जीवेऽयुक्तमितीशानत्वं निरवकाशम् । अङ्गुष्ठमात्रत्वं तूपासनार्थम् । उपासकहृदयेऽङ्गुष्ठमात्रे वर्तमानत्वात्तदपेक्षया युक्तमिति भावः ॥ ईश्वरस्यापीति ॥ अन्तरात्मत्वमोक्षप्रदत्वसर्वजगदीशानत्वानामीश्वरलिङ्गानामन्यत्र श्रवणादिति भावः ।

ननु श्रुतप्रकाश एवैतदाशङ्क्य ‘‘कृत्वाचिन्तेयम् । परमात्मनोऽन्यत्रांगुष्ठमितत्वश्रवणाभावमुपेत्यानेन वाक्येनांगुष्ठमितत्वं सिध्यति नेति विचार्यत’’ इत्यादिना समाहितमित्यत आह ॥ ईश्वरस्येति ॥ ‘‘यदामन्त्रगतं ब्रह्मलिङ्गं क्लिष्टं कृत्वा तावपि मन्त्रौ विवादास्पदीकृतौ तदानीं न कृत्वाचिन्तेय’’मिति श्रुतप्रकाशोक्तं पक्षान्तरमप्यपाकरोति ॥ यदि चेति ॥ ननु तत्र कर्मवशत्वादिकं जीवलिङ्गं श्रुतं चेदिहाप्यन्तरात्मत्वादिब्रह्मलिङ्गानि श्रुतानीति समम् । एतेषां जीवेपि क्लेशेन नयने तेषामपि कथञ्चिद्ब्रह्मणि नेतुं शक्यत्वादिति समम् । किं च वाक्यद्वयक्लेशापेक्षया ‘‘प्राणाधिप’’ इत्येकस्यैवान्यथानयनमुचितम् । अपि च कृत्वाचिन्तात्वपक्षे ‘‘हृदयेसन्निविष्ट’’ इति वाक्ये हृदय इति स्थाननिर्देशो नास्तीत्येव कृत्वाचिन्तासम्भवे किं पररीतिमवधीर्य वाक्यान्तरान्वेषणक्लेशेन । अपि च जीवस्याप्याराग्रमात्रस्याङ्गुष्ठमात्रत्वममुख्यमित्युपासनार्थं तदिति निर्वाह्यम् । तत्परमात्मपरत्वेऽपि सम्भवति । उपासनार्थमल्पपरिमाणत्वस्य परस्मिन्नुक्तदिशा श्रवणात् । अन्यथा जीवेप्यश्रवणात् । यदपि जीवो ब्रह्मवेति विचारे नेश्वरसम्बन्धिलिङ्गान्निर्णयः । किं त्वीश्वरत्ववाचिशब्दादेवेति वा पूर्वपक्ष्याशङ्किताया ईशानशब्दान्यथासिद्धेर्निरासार्थो वेति सौत्रैवकारार्थकथनं तदपि ‘‘स्वशब्दा’’दित्यादाविवावधारणेन विनाऽप्युपपत्तेरतिशयार्थालाभाच्चापेशलम् । तदेतदभिप्रेत्योक्तं दिगिति ॥ एतेन यत्केनचिदुक्तमङ्गुष्ठमात्रो जीवः शिवो वेति संशये रामानुजरीत्या पूर्वपक्षयित्वा ‘‘सर्वैश्वर्यसम्पन्नः सर्वेश्वरश्च शम्भुराकाशमध्य’’ इति श्रुत्या भूतभव्येशितृत्वस्य शिवलिङ्गत्वादीशानश्रुतेस्तत्र रूढत्वाच्च शिव एवाङ्गुष्ठमात्र इति तन्निरस्तम् । पूर्वपक्षे तन्मतोक्तदोषग्रासात् । यदत्रोक्तं ‘‘अङ्गुष्ठं च समाश्रित’’ इत्यादिमन्त्रोऽप्यङ्गुष्ठमात्रत्वश्रवणादेव जीवपर इत्यत्राक्षिप्यते । अतो न दोष इति तन्न । अङ्गुष्ठमात्रत्वस्याद्यापि जीवमात्रधर्मत्वासिद्धेः । प्राणाधिप इति श्रुतेरपि जीवपरत्वे विवादादित्युक्तत्वात् ।

अथ सत्यवतः कायात्पाशबन्धवशं गतम् ।

अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥

इति स्मार्तवचसोपि तैत्तिरीयाद्यनेकवाक्यबाधकत्वासामर्थ्यात् । किं चाङ्गुष्ठमात्रे श्रुतस्य सर्वदेवोपास्यत्वस्य जीवमात्रेऽनुपपत्तिश्च । सिद्धान्तोप्ययुक्तः । ‘‘न ते विष्णो जायमानो न जातः सहि सर्वाधिपतिस्सहि सर्वपालस्स ईशस्सविष्णुः सप्तार्धगर्भाभुवनस्य रेत’’ इत्यादिश्रुतिभिः–

सर्वेशो विष्णुरेवैको नान्योस्ति जगतःपतिः ।

ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते ॥

इत्यादिस्मृतिभिस्सर्वेशितृत्वस्य विष्ण्वेकनिष्ठत्वात् । विष्णौ निरूढवामनश्रुतिविरोधाच्च । ईशानशब्दस्य यौगिकार्थप्रतिसम्बन्धिभूतभव्याद्युपादाने रूढ्यनुन्मेषाच्च । ‘‘ईशानः प्राणदः प्राण’’ इति विष्णौ प्रयोगाच्चेति ।

चन्द्रिकाबिन्दुः

तदश्रवणाद् अङ्गुष्ठमात्राश्रवणात् । ननु सिद्धान्तिनः कथं प्राणाधिपस्सञ्चरति स्वकर्मभिरिति वाक्यस्य जीवविषयत्वेऽसम्प्रतिपत्तिः । स्वकर्मभिरित्युक्तत्वादित्याशङ्क्य तस्य स्वाधीनकर्मभिरित्यर्थसम्भवे असम्प्रतिपत्तिरुपपादयितुं शक्येत्यभिप्रायेणाह ॥ दिगिति ॥