०६ अद्वैतमतपरीक्षा

अन्येतु ‘‘अङ्गुष्ठमात्रः पुरुष’’ इति श्रुतोंऽगुष्ठमात्रो जीवः

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु ‘‘अङ्गुष्ठमात्रः पुरुष’’ इति श्रुतोंऽगुष्ठमात्रो जीवः । परिच्छिन्ने तत्र तन्मात्रत्वसम्भवात् । ‘‘ईशानो भूतभव्यस्ये’’ति चरमश्रुतमीशानत्वं तु प्रथमश्रुताङ्गुष्ठमात्रत्वानुरोधात्सङ्कोचयितव्यम् । न च ‘‘अल्पश्रुते’’रिति न्यायेनेश्वरेऽप्यङ्गुष्ठमात्रत्वम् । तत्र हृत्पुण्डरीकस्येवेह स्थानविशेषस्यानिर्देशादिति प्राप्ते ब्रह्मप्रश्नोत्तरत्वादस्येशानत्वमसङ्कुचितमेव । अङ्गुष्ठमात्रत्वोक्तिस्तु ब्रह्मणो जीवैक्याभिप्रायेति सिद्धान्त इत्याहुः । तत्र तावत्पूर्वपक्ष एवायुक्तः । ‘‘ईशानो भूतभव्यस्ये’’त्यस्याङ्गुष्ठवाक्याच्चरमत्वेपि ‘‘ईशानं भूतभव्यस्ये’’त्यस्य प्रथमत्वेनाङ्गुष्ठवाक्यस्येशानश्रुतिभ्यां सन्दष्टत्वात् । ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवे’’ति वाक्यद्वये स्थानस्यानिर्देशेपि ‘‘अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट’’ इति तृतीयवाक्ये स्थाननिर्देशाच्च ।

सिद्धान्तोऽप्ययुक्तः । तत्पक्षे ‘‘अन्यत्र धर्मादन्यत्राधर्मा’’दित्यत्र ब्रह्मण इव ‘‘येयं प्रेते विचिकित्सा मनुष्य’’ इत्यत्र जीवस्यापि पृष्टत्वेनाङ्गुष्ठवाक्यस्य जीवपरत्वेप्यदोषात् । किञ्च निर्विशेषं ब्रह्मैवैतत्पादार्थः । न च तस्य किञ्चिदपि प्रतीशितृत्वमस्ति । जीवस्य तु स्वनियम्यं देहादिकं प्रत्यस्ति । एवं च–

ईशानो जीव एव स्यात्स्वदेहादेर्नियामकः ।

निर्विशेषं तु नेशानमेकस्याप्यनियामकम् ॥ १ ॥

ऐक्याभिप्रायत्वमपि न तावन्मुख्यार्थत्वाय कल्प्यम् । वाच्यार्थयोरैक्यानङ्गीकारात् । नापि प्रामाण्याय । भेदेप्यङ्गुष्ठमात्रहृदयनिष्ठत्वेन गौणाङ्गुष्ठमात्रत्वसम्भवात् । युक्तं चाभेदायाङ्गुष्ठमात्रादिश्रुतीनामीशानादिश्रुतीनां चामुख्यार्थत्वादप्यङ्गुष्ठमात्रत्वश्रुतिमात्रस्य भेदेन गौणार्थत्वम् । किं च त्वत्पक्षे जीवस्यापि न स्वतोऽङ्गुष्ठमात्रत्वम् । किन्तु हृत्कमलकोशोऽङ्गुष्ठमात्रो मनश्च प्रायेण तत्स्थं तदवच्छिन्नश्च जीव इत्येवमौपाधिकम् । एवं चेश्वरस्य जीवाभेदं विनैव दहराधिकरणोक्ताङ्गुष्ठमात्रहृत्कमलकोशस्थत्वादङ्गुष्ठमात्रत्वोपपत्तौ किं जीवाभेदकल्पनया । किं च पूर्वत्र ‘‘आत्मानं जीवमन्तिका’’दिति ‘‘तं देवाः सर्वेऽर्पिता’’ इति उत्तरत्र च ‘‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती’’ति ‘‘तादृगेव भवती’’ति इतरेण तु जीवन्ती’’ति ‘‘सुप्तेषु जागर्ती’’ति ‘‘नित्योनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामा’’निति ‘‘तमात्मस्थ’’मिति ‘‘भयादस्याग्निस्तपती’’ति भेदस्यैव श्रुतेः कथमभेदपरत्वम् । किं चाङ्गुष्ठमात्रे श्रुतं सर्वदेवोपास्यत्वं न पूर्वपक्षस्यानुगुणम् । जीवमात्रस्य सर्वदेवोपास्यत्वायोगात् । नापि सिद्धान्तस्य । ज्ञेये निर्विशेषे ब्रह्मण्युपास्यत्वायोगादिति ।

प्रकाशिका

अन्येत्विति ॥ तत्र भामत्यां

नाञ्जसा मानभेदोस्ति परस्मिन् मानवर्जिते ।

भूतभव्येशता जीवे नांजसा तेन संशयः ॥

इत्यादिना संशयपूर्वोत्तरपक्षा उक्ताः । तथाहि । किमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनपरमेतद्वाक्यमस्तु तदनुरोधेनेशानश्रुतिः कथञ्चिन्नीयतामाहोस्विदीशानश्रुत्यनुग्रहाय ब्रह्मपरमेतदस्तु तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथञ्चिन्नीयताम् । तत्रान्यतरस्यान्यतरानुरोधविशये भामत्युक्तरीत्यैव पूर्वोत्तरपक्षावनुवदति ॥ अङ्गुष्ठेति ॥ तत्र जीवे । तस्यान्तःकरणाद्युपाधिकल्पितब्रह्मभागत्वाद् अन्तःकरणस्य च प्रायो हृत्कमलकोशस्थानत्वात् हृत्कमलकोशस्य च मनुष्याणामङ्गुष्ठपरिमितत्वात्तदवच्छिन्नो जीवोपि तथा । नभ इव वंशपर्वावच्छिन्नमरत्निमात्रमित्यर्थः । न तु ब्रह्मणि । अपरिच्छिन्नत्वादिति भावः ।

किञ्च ‘‘अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बला’’दिति स्मृत्याच जीव एवाङ्गुष्ठमात्रः । सर्वेश्वरस्य यमेन समाकर्षायोगादित्यपि बोध्यम् । ननु कथं जीवे भूतभव्येशानत्वं युक्तमित्यत आह ॥ ईशान इति ॥ दहराधिकरणापौनरुक्तयाय शङ्कोत्तरे अनुवदति ॥ न चेति ॥ युक्तं हृत्पुण्डरीकदहरस्थानत्वं परब्रह्मणः । तदुपलब्धिस्थानविशेषस्य हृत्पुण्डरीकस्य तत्र निर्देशात् । इह तदभावात् । न च ‘‘मध्य आत्मनी’’त्यत्रापि स्थानभेदो निर्दिष्ट इति शङ्क्यम् । आत्मशब्दस्य स्वभावब्रह्मजीवसाधारणतया स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य च भवितुरनिर्दिष्टतया कस्य मध्ये इत्यज्ञानाज्जीवपरयोश्चाञ्जस्येन मध्यासम्भवान्नात्रस्थाननिर्देशस्स्पष्ट इति भावः ॥ ब्रह्मेति ॥ ‘‘अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वदे’’ति प्राग्ब्रह्मणः पृष्टत्वादुत्तरग्रन्थसन्दर्भस्य तत्प्रतिवचनत्वमेव युक्तमिति भूतभव्येशानत्वं निरङ्कुशमेव । न सङ्कोचनीयमित्यर्थः ॥ जीवैक्येति ॥ यथा ‘‘तत्वमसी’’ति जीवस्य त्वंपदार्थस्य तदिति परमात्मना विरुद्धांशत्यागेनैकत्वमुच्यते तथेहाप्यङ्गुष्ठपरिमितस्यापि जीवस्येशानश्रुत्या ब्रह्माभेदः प्रतिपाद्यत इत्यर्थः । तदुक्तं भामत्यां

प्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः ।

जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः ॥ इति ॥

यत्तावदुक्तं प्रथमश्रुताङ्गुष्ठमात्रत्वानुरोधेन चरमेशानत्वं नेयमिति तत्तावन्नेत्याह ॥ ईशान इति ॥ यदपि दहराधिकरण वैषम्यं तदपि नेत्याह ॥ अङ्गुष्ठेति ॥ अभ्युपेत्येदमुदितम् । वस्तुतस्तु ‘‘मध्यआत्मनी’’त्यत्र देहादिमध्यरूपस्थाननिर्देशोऽस्ति । तथा तृतीयवाक्येपि हृदय इति स्पष्टः स्थाननिर्देशोस्तीत्यपि ध्येयम् । यदपीशानत्वमसङ्कुचितं ब्रह्मणीति तदपि नेत्याह ॥ किञ्चेति ॥ यदप्यंगुष्ठमात्रोक्तिरैक्याभिप्रायेति तत्किं वाक्यस्य मुख्यार्थतालाभाय कल्प्यत उत प्रामाण्याय । न द्वयमपि युक्तमित्याह ॥ ऐक्येति ॥ सम्भवादिति ॥ ब्रह्मण इति भावः । ननु को विशेष इत्यत आह ॥ युक्तं चेति ॥ प्रकारान्तरेणान्यथोपपत्तिं वदन्नाभेदकल्पनं युक्तमित्याह ॥ किञ्चेति ॥ अत्र तथा स्थाननिर्देशो नेति तु प्रत्युक्तमिति ध्येयम् । कल्पकाभावमुक्त्वा तत्प्रकरणगतपूर्वोत्तरबहुवाक्यविरोधमाह ॥ किञ्च पूर्वत्रेति ॥ ‘‘य इदं मध्वदं वेद आत्मानं जीवमन्तिका’’दिति जीवस्य समीपस्थमात्मानं वेदेति वाक्ये अन्तिकशब्देन भेदप्रतीतेः ‘‘तं देवास्सर्वेऽर्पितास्तदु नात्येति कश्चने’’ति वाक्ये अर्पिताः प्राप्ता इति प्राप्तृप्राप्यभावेन भेदः । आत्मनि जीव इत्याधारसप्तम्या भेदसिद्धिः । यथोदकं शुद्धेऽशुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ इति सादृश्यवाचिना तादृक्शब्देन भेदसिद्धिः ।

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।

इतरेण तु जीवंति यस्मिन्नेतावुपाश्रितौ ॥

इत्यत्रोपजीव्योपजीवकभावेन ‘‘य एष सुप्ते’’ष्वित्यादौ स्पष्टो भेदः । व्यावहारिकभेदपराण्येतानीति प्रत्युक्तमन्तर्यामिनये । ज्ञेय इति हेतुगर्भम् ।

चन्द्रिकाबिन्दुः

ननु ईशानो भूतभव्यस्येत्यनेनोक्तमतीतानागतेशानत्वं जीवस्य न सम्भवतीत्यत आह ॥ ईशान इति ॥ तत्र हृत्पुण्डरीकस्येति ॥ तत्र उपाध्यनुक्तया अङ्गुष्ठमात्रत्वमेव प्रतीयते । तच्च न ब्रह्मण इति भावः ॥ सन्दष्टत्वादिति ॥ तथा च अङ्गुष्ठमात्रवाक्यस्य ईशानवाक्यसन्दष्टतया ब्रह्मपरत्वनिर्णयात् पूर्वपक्षानुदय इति भावः । हृदयाद्युपाध्यनुक्तिरिति नास्तीत्याह ॥ अङ्गुष्ठमात्र इति ॥ जीवस्यापि पृष्टत्वेनेति ॥ इदं च परमताभिप्रायेण । ‘येयं प्रेते’ इत्यादिवाक्यस्यापि अस्मन्मते ब्रह्मप्रश्नत्वेनान्यत्र व्याख्यातत्वात् ॥ न च तस्येति ॥ निर्विशेषस्य क्रियावेशशून्यत्वादित्यभिप्रायः ॥ वाच्यार्थयोरिति ॥ अङ्गुष्ठमात्रः पुरुष इति पदद्वयप्रतिपाद्यार्थयोरित्यर्थः ॥ भेदेऽपीति ॥ अस्मदुक्तरीत्येति शेषः ॥ युक्तं चेति ॥ व्याप्ते निर्विशेषे ब्रह्मणि अङ्गुष्ठमात्रत्वेशितृत्वयोरभावादिति भावः । तत्स्थं हृत्कमलाकाशस्थम् । अर्पिता आश्रिता ॥ ज्ञेय इति ॥ मुमुक्षुज्ञेयस्य शुद्धत्वेन सगुणस्यैवोपास्यत्वमिति भावः ।

पाण्डुरङ्गि

किं चाल्पश्रुतेरित्युक्तन्यायेनेश्वरेंऽगुष्ठमात्रत्वं सम्भवत्येवेति तेनैव गतार्थता । न च तत्र हृत्पुण्डरीकस्येवेह स्थानविशेषस्यानिर्देशान्नाङ्गुष्ठमात्रत्वमीश्वरस्येत्युक्तम् । तत्राह ॥ अङ्गुष्ठमात्र इति ॥ यद्यप्यत्र मध्य आत्मनीत्यनेनापि स्थाननिर्देशाद्वाक्यद्वये स्थाननिर्देशाभावोक्तिरयुक्ता । तथापि स्पष्टमधिष्ठानस्यानुक्तत्वाभिप्रायेणेयमुक्तिरिति बोध्यम् । यदुक्तमङ्गुष्ठमात्रत्वोक्तिस्तु जीवैक्याभिप्रायेति तत्रैक्याभिप्रायात्वं किं मुख्यार्थत्वाय कल्प्यं किं वा प्रामाण्याय । नाद्य इत्याह ॥ न तावदिति ॥ ननु च मत्पक्षे लक्षणावत्, भवत्पक्षेऽङ्गुष्ठमात्रत्वस्य गौणत्वं भवतीत्यविशेषात्कुतो भवन्मतमेव प्रामाणिकमित्यतो लक्षणापेक्षया गौण्या मुख्यत्वादिति परिहारे सत्येव परिहारान्तरमाह ॥ युक्तं चेति ॥ ज्ञेय इति ॥ तत्पादप्रतिपाद्य इत्यर्थः । यद्वा ज्ञेये ज्ञानविषय इत्यर्थः । उपासनाया अविद्यमानविषयकत्वाद्ब्रह्मविषयत्वं न सम्भवति । ब्रह्मणो ज्ञानविषयत्वेन ज्ञानस्य च परमार्थसत्कर्मत्वेन तत्कर्मभूतब्रह्मणः परमार्थसत्त्वेनारोपितत्वाभावादित्यर्थः ।