केचित्तु
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु छान्दोग्य उत्तरस्मिन्प्रजापतिवाक्येऽपहतपाप्मत्वादिरूपेण जीव उच्यते । तत्र कर्मादिनातिरोहितस्यापहतपाप्मत्वादिगुणस्याविर्भावोक्तेः। पूर्वस्मिन्दहरवाक्ये तु ब्रह्म । तत्रातिरोहितस्य स्वाभाविकस्यैव तस्योक्तेरित्येवंपरतया ‘‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’’ इति सूत्रं व्याचक्षाणाः ‘‘अनुकृते’’रित्यादिसूत्रद्वयं तस्य ब्रह्मणोऽनुकृतेः सादृश्यात् ‘‘मम साधर्म्यमागता’’ इति स्मृतेश्च प्रजापतिवाक्योक्तो जीवो दहरवाक्योक्तं तु ब्रह्मेति पूर्वाधिकरणशेषतया व्याचक्षते । तन्न । प्रजापतिवाक्येऽपि दहरवाक्य इव ‘‘य आत्माऽपहतपाप्मा विजरो विमृत्यु’’रित्यादेरेव श्रवणेन तत्राप्यपहतपाप्मत्वादिप्रादुर्भावोक्तयभावात् । ‘‘स्वेन रूपेणाभिनिष्पद्यत’’ इति वाक्यशेषस्तूभयत्राप्यस्ति । दहरवाक्ये जीवस्याभिनिष्पत्त्युक्तिर्जीवस्वरूपाभिनिष्पादकत्वरूपब्रह्मगुणोक्तयर्था चेत् । प्रजापतिवाक्येऽपि तदर्थाऽस्तु ।
किञ्च अपहतपाप्मत्वादिगुणक आत्मनीन्द्रेण पुनः पुनः पृष्टे प्रजापतिः ‘‘य एषोंऽतरक्षिणि पुरुषो दृश्यत एष आत्मे’’ति ‘‘य एष स्वप्ने महीयमानश्चरत्येष आत्मे’’ति ‘‘यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष आत्मे’’ति ‘‘तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठान’’मित्यसकृदुपदिदेश । तत्र चाक्षिवाक्यं तावद्ब्रह्मविषयम् । ‘‘अन्तस्तद्धर्मोपदेशात् । अन्तर उपपत्ते’’रित्यत्र च निर्णीतब्रह्मत्वस्य ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते’’ इति श्रुत्यन्तरोक्तस्यैवेह प्रत्यभिज्ञानात् । जीवस्य हृत्स्थत्वेनाक्षिस्थत्वाभावाच्च ।
स्वप्नवाक्यमपि तथा । ‘‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीती’’ति श्रुत्यन्तरात् । अत्रापि महीयमानत्वलिङ्गाच्च । सुप्तवाक्यमपि तथा । ‘‘प्राज्ञेनात्मना सम्परिष्वक्त’’ इत्यादिश्रुत्यन्तरात् । अत्रापि ‘‘यत्र सुप्त’’ इति यच्छब्दोक्तस्य समस्तसुप्ताधारस्यैव ‘‘एष आत्मे’’त्येतच्छब्देन परामर्शाच्च ।
अशरीरवाक्यमपि तथा । अशरीरशब्देन निरपेक्षस्य सार्वकालिकस्य च शरीरराहित्यस्य स्वरसतः प्रतीतेः । तस्य चेश्वर एव सम्भवात् । किं चाक्ष्यादिवाक्येषु प्रतिवाक्यं ‘‘एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मे’’ति श्रवणात्कथं तेषां जीवविषयता । किं च प्रजापतिवाक्ये ‘‘य आत्माऽपहतपाप्मे’’ति प्रसिद्धार्थेन प्रकृतपरामर्शिना च य इति सर्वनाम्ना ‘‘एष आत्माऽपहतपाप्मे’’ति प्रस्तुतदहरवाक्ये प्रसिद्धेश्वरपरामर्श एव युक्तः । अपि च ‘‘तेषां सर्वेषु लोकेषु कामचारो भवती’’ति दहरवाक्ये यन्मोक्षाख्यं फलं तस्यैव ‘‘तेषां सर्वेलोका आप्ता’’ इति प्रजापतिवाक्येऽपि श्रुतत्वात् तथा दहरवाक्ये ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति यदन्वेष्टव्यत्वादिकमुक्तं तस्यैव प्रजापतिवाक्ये ‘‘सोऽन्वेष्टव्यः स विजिज्ञासितव्य’’ इति श्रवणात् ‘‘इन्द्रो विरोचनश्चैव श्रुत्वा तं ब्रह्मणोऽक्षिगम् । विष्णुमानन्दरूपे त’’मित्यादिस्मृतेश्च न तयोर्भिन्नार्थतेति दिक् ।
अनुकृतेरित्यादिसूत्रद्वये च किं मुक्तस्यापहतपामत्वादिरूपेणेश्वरसाम्यं साध्यं किं वाऽन्यत्रप्रसिद्धेन तेन दहरप्रजापतिवाक्योक्तयोर्ब्रत्वजीवत्वे साध्ये । नाद्यः । तस्य त्वन्मते चतुर्थे ‘‘सम्पद्ये’’त्यादावेव सिद्धेः । समन्वयाध्यायासङ्गतेश्च । सूत्रेऽनुकृतेरिति साम्यस्य हेतुत्वोक्तेश्च । नान्त्यः । अनुकृतिमात्रेण पूर्वोक्तं ब्रह्म पश्चादुक्तस्तु जीव इत्यस्यासिद्धेः ।
प्रकाशिका
केचित्त्विति ॥ इति व्याचक्षाणाः पूर्वाधिकरणशेषतया व्याचक्षत इत्यन्वयः । अयमर्थः । ‘‘इतरपरामर्शात्स इति चेन्नासम्भवा’’दित्यत्र ‘‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाये’’ति जीवपरामर्शात्स एव दहराकाश इति चेन्न । तस्मिन्पूर्वोक्तापहतपाप्मत्वादेरसम्भवादित्युक्ते उत्तरस्मात् ‘‘य आत्माऽपहतपाप्मेत्यादि प्राजापत्यवाक्याज्जीवस्यैवापहतपाप्मत्वादिगुणयोगो निश्चीयत इत्याशङ्क्य प्राजापत्यवाक्ये न स्वाभाविकापहतपाप्मत्वादिगुणक उच्यते । अपि तु प्राक्तिरोहितस्वरूपस्सन् ‘‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत’’ इति भगवत्प्रसादाविर्भूतगुणक एव । अत उत्तरवाक्यं जीवपरमिति युक्तम् । पूर्वत्र दहरवाक्ये त्वपहतपाप्मत्वादयस्स्वाभाविका एव श्रूयन्ते । तेच जीवे न युक्ता इति दहराकाशो न जीवः । किं तु तथोच्यमानः परमात्मैवेत्यत्र हेत्वन्तरमत्रोच्यते । तस्य दहराकाशस्य परमात्मनोऽनुकृतेरनुकारात् ‘‘परमं साम्यमुपैती’’त्युक्तसाम्यापत्तेश्चेति यावत् । अतोऽनुकृत्या प्रजापतिवाक्ये तादृशगुणवत्त्वेन निर्दिष्टो जीवो ऽनुकार्यं ब्रह्म दहराकाश इति ‘‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’’ इति संसारिणो मुक्तयवस्थायां परमसाम्यापत्तिलक्षणः परब्रह्मानुकारस्स्मर्यतेऽपीति पूर्वाधिकरणशेषतया व्याचक्षत इति । पूर्वोत्तरवाक्ययोः परोक्तं वैलक्षण्यमसिद्धमिति भावेनाह ॥ तन्नेति ॥
ननु ‘‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपास स्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाती’’ति प्रजापतिवचनमैतिह्यरूपेणोपश्रुत्याऽन्वेष्टव्यात्मस्वरूपजिज्ञासया प्रजापतिमुपसेदुषे मघवते प्रजापतिर्जागरितस्वप्नसुषुप्त्यवस्थजीवात्मानमशरीरं क्रमेण शुश्रूषुयोग्यतापरिचिक्षिषयोपदिश्य तत्र परिशुद्धात्मस्वरूपोपदेशयोग्याय मघवते ‘‘मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्याधिष्ठान’’मिति शरीरस्याधिष्ठानतामात्मनश्चाधिष्ठातृतामशरीरस्यामृतस्वरूपतां चोक्त्वा ‘‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत’’ इति कर्मारब्धशरीरयोगिनस्तदनुगुणसुखदुःखभाक्त्वरूपानर्थं तद्विमोक्षे च तदभावमभिधाय ‘‘एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत’’ इति जीवात्मनस्स्वरूपमेव शरीरवियुक्तमुपदिदेश । ‘‘स उत्तमः पुरुषः । स तत्र पर्येति जक्षन्क्रीड’’न्नित्यादिना प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वं निवृत्ततिरोधानस्य परञ्ज्योतिरुपसम्पन्नस्य प्रत्यगात्मनो ब्रह्मलोके यथेष्टभोगावाप्त्यादिकमभिधाय ‘‘स यथा प्रायोग्य आचरणे युक्त एवमस्मिन् शरीरे प्राणो युक्त’’ इति यथोक्तस्वरूपस्यैव संसारदशायां कर्मतन्त्रं शरीरयोगं युग्यशकटयोगदृष्टान्तेनाभिधाय ‘‘यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राण’’मित्यादिना चक्षुरादीनां करणत्वं रूपादीनां ज्ञेयत्वमस्य च ज्ञातृत्वं प्रदर्श्य तत एव शरीरेन्द्रियेभ्यो व्यतिरेकमुपपाद्य ‘‘स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान् पश्यन्रमते य एते ब्रह्मलोक’’ इति तस्यैव विधूतकर्मनिमित्तशरीरेन्द्रियमनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन ज्ञानेन सर्वकामानुभवमुक्त्वा ‘‘तं वा एतं देवा आत्मानमुपासते । तस्मात्तेषां सर्वे च लोका आप्तास्सर्वे च कामा’’ इत्येवंविधमात्मानं ज्ञानिनो जानन्तीत्यभिधाय ‘‘सर्वांश्च लोकानवाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति हि प्रजापतिरुवाचेत्येवंविधमात्मानं विदुषस्सर्वलोकसर्वकामावाप्त्युपलक्षितं ब्रह्मानुभवं फलमभिधायोपसंहृत’’मित्यन्तेन तदीयभाष्येण, प्रजापतिवाक्यजातस्य सर्वस्यापि जीवपरत्वमुक्तम् । तत्कथमुच्यते दहरवाक्याद्वैलक्षण्यं नेतीत्यतो जागरितस्वप्नसुषुप्ताशरीरवाक्यानि प्रकरणचतुष्टयगतानि तावत्क्रमेणोदाहृत्य तेषां ब्रह्मपरत्वं साधयति ॥ किं चेत्यादिना ॥ उपदिदेश प्रजापतिरिंद्रायेत्यर्थः । अन्तरिति तन्मतरीत्योपन्यासः । तत्रत्यविषयवाक्यं य एषोऽन्तरिति ॥ हृत्स्थत्वेनेति ॥ ‘‘अवस्थिति वैशेष्यादिति चेन्नाभ्युपगमाद्धृदि ही’’ति सूत्रे ‘‘एष आत्मे’’ति श्रुतौ च सिद्धत्वादिति भावः । ‘‘हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यती’’ त्यादित्वदभिमानातिशयाभिप्रायम् । यथा चैतत्तथावोचामान्तराधिकरणे ॥ तथेति ॥ ब्रह्मविषयमित्यर्थः । शारीरं जीवमभिप्रहत्यसंयोज्येति वाजसनेयवाक्यादित्यर्थः । न च तत्रापि विवादः । ‘‘शुक्रमादाय पुनरेति स्थानं हिरण्मयः पुरुष एकहंस’’ इति वाक्यशेषे जीवमादाय गच्छतीति श्रवणात्पूर्वोक्तार्थे श्लोकत्वेनोदाहरणाच्चेति भावः । महीयमानत्वं च जीवस्य तदा न युक्तम् । भयादेरप्युपलम्भात् । न च कदाचिन्महीयमानत्वम् । नित्यवच्छ्रवणविरोधात् । ‘‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किंचन वेद नान्तर’’मिति वाजसनेये सुप्तौ भगवत्परिष्वंगेनैव बाह्याद्यज्ञानश्रवणेन तत्समाख्ययाऽत्रापि तथात्वमित्यर्थः । ‘‘मर्त्यं वा इदं शरीरं तदस्यामृतस्याधिष्ठान’’मिति वाक्यमपि ब्रह्मपरमित्याह ॥ अशरीरेति ॥ तस्य चेति ॥ ‘‘अरूपवदेवे’’त्यत्र वक्ष्यमाणत्वादिति भावः । अक्षिस्वप्नसुप्तिवाक्येषु त्रिषु ब्रह्मपरत्वे युक्तयन्तरं चाह ॥ किं चेति ॥ ननूपक्रमे ‘‘य आत्माऽपहतपाप्मे’’त्यादिना जीवस्योपक्रान्तत्वात्तत्परत्वं सर्वस्य वाच्यमित्यतस्तदपि न जीवविषयमित्याह ॥ किं च प्रजापतीति ॥ प्रकारान्तरेण दहरवाक्यवैलक्षण्यमाह ॥ अपि चेति ॥ विष्णुमानन्दरूपेतं सम्यग्ज्ञानविपर्ययौ । आप तु’’रित्यादिछान्दोग्यभाष्योदाहृतस्मृतेरित्यर्थः ।
एवं वाक्यान्तराण्यपि ब्रह्मपरतया साधनीयानीत्याह ॥ दिगिति ॥ तथा हि ॥ ‘‘प्रायोग्य आचारणे युक्त एवमस्मिन् शरीरे प्राणो युक्त’’ इत्यत्र प्राणशब्दस्य ‘‘अत एव प्राण’’ इत्यादौ परब्रह्मण्येव प्रसिद्धत्वात् ‘‘आकाशमनुविषण्णं चक्षु’’रित्यादिवाक्यस्य ‘‘इदं पश्यामि जिघ्राणी’’त्यत्रापि ‘‘जीवा न वै विदुः । द्रव्याणामपि चाज्ञानाद्वेदासौ पुरुषोत्तम’’ इत्यादिस्मृत्या विष्णुपरत्वात् । ‘‘एतं देवा आत्मानमुपासत’’ इति देवोपास्यत्वश्रवणाच्च । तदुक्तं भगवत्पादैः ‘‘न हि जीवमात्रं देवा उपासते । ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासत इति हि श्रुति’’रिति । अन्यस्तु क्षुद्रोपद्रवोऽग्रे निरसिष्यते । सूत्रार्थं च पराचष्टे ॥ अनुकृतेरिति ॥ तेन ईश्वरसाम्येन । ‘‘सम्पद्याविहाय स्वेन शब्दा’’दित्यत्रेत्यर्थः । एतेन प्रायो रामानुजरीतिमनुसरतः कस्यचिच्छैवस्य मतमपि प्रत्युक्तं बोध्यम् । तदत्र शिवार्कमणिदीपिकायां चन्द्रिकोक्तरीत्याक्ष्यादिवाक्यानां ब्रह्मपरत्वमाशङ्क्य समाधानमुक्तं स्वप्नवाक्ये स्वप्नप्रयोजकत्वेन सुषुप्तिवाक्ये सुषुप्त्याधारत्वेन ब्रह्मणि सम्भवन्स्वप्नसुप्तिसम्बन्धो नोच्यते । येन समाख्यादिबलाद्ब्रह्म स्यात् । किन्तु स्वप्न सुप्त्यवस्थावत्त्वमेव । स्वप्नसम्बन्ध्यात्मोपदेशानन्तरं ‘‘घ्नन्तित्वेवैनं विच्छाययन्ति वे’’त्यादिनेन्द्रेण तस्य हन्यमानत्वादिप्रतिभासतो दुष्टत्वस्य सुप्तिसम्बन्ध्यात्मोपदेशानन्तरं ‘‘नाहं खल्वयमेवं संप्रत्यात्मानं जानातीत्ययमहमस्मीति नो एवैमानि भूतानि विनाशमेवापीतो भवती’’ति तस्य ज्ञानशून्यतया विनष्टप्रायत्वस्योक्तत्वात् । अक्षिवाक्ये ‘‘एतदमृतमभय’’मित्यादि तु मुक्तयवस्थायां भाविरूपापेक्षयोपपद्यत इति । तदसारम् । स्वप्नादिवाक्यशेषे ‘‘घ्नन्तीवे’’त्यादिश्रवणेऽपि इन्द्रः ‘‘एष स्वप्ने महीयमान’’ इति प्रजापतिनोक्तस्वप्नप्रदर्शकं ब्रह्मैवेति जानन्नप्यसुरमोहाय जीवविवक्षया घ्नन्तीत्यादिदोषान्वक्तीत्युपपत्तेः । उक्तं च–
पुनः पुनश्च मोहाय गत्वा गत्वा निवर्तते ।
कथञ्चिदेव विज्ञातं मयेत्यज्ञान्विमोहितुम् ।
तद्योग्यान्येव वाक्यानि ब्रह्माप्याह पुनः पुनः ॥ इति ।
‘‘दर्शयन्नासुरीं बुद्धिं स्वप्नदृश्यविवक्षया । घ्नन्तीवैनमदन्तीवे’’त्यादि च । यदप्यमृतत्वादिकं मुक्तयवस्थाभिप्रायेणेति तन्न । तथात्वेऽन्तराद्यधिकरणेऽपि तथात्वापत्त्या तत्रत्यसिद्धान्तहान्यापत्तेः । महीयमानत्वस्य दुरुपपादत्वाच्च । अक्षिस्थत्वायोगस्मृतिविरोधादेरनुद्धृतत्वाच्च यत्किञ्चिदेतत् । यच्चोक्तं सूत्रे तस्येति कर्तृषष्ठ्यन्तेन जीवः परामृश्यते । दहरपदं कर्मणि षष्ठ्यन्ततया विपरिणामेन दहरस्येतीहानुवर्तते । तथा च जीवस्य दहरानुकृतेरनुकर्त्रनुकार्ययोर्भेदाद्दहरो न जीव इति सूत्रार्थ इति तन्न । अनुवृत्तिविपरिमणामप्रथमान्तावृत्तीनां क्लिष्टत्वात् । अस्मद्रीत्याऽनुकृतेस्साक्षात्साध्यान्वयसम्भवे तया भेदं प्रसाध्य तस्य साध्यान्वयोक्तेरयुक्तत्वात् । ‘‘गगनं गगनाकारं सागरस्सागरोपम’’ इत्यादावभेदेऽप्यनुकर्त्रनुकार्यभावनिर्देशाच्चेति ।
चन्द्रिकाबिन्दुः
एवंपरतयेति ॥ तथा च जीवलिङ्गवशेन उत्तरखण्डषट्कस्य जीवपरत्वेऽपि पूर्वखण्डषट्कस्य ब्रह्मपरत्वमेव जीवलिङ्गाभावादिति परस्याभिप्रायः । अनुकृतेरित्यस्यार्थः सादृश्यादिति । अपि स्मर्यत इत्यस्यार्थमाह ॥ ममेति ॥ पूर्वोत्तरखण्डयोर्भिन्नविषयत्वं खण्डयति ॥ प्रजापतिवाक्येऽपीति ॥
ननु प्रजापतिवाक्ये स्वेन रूपेणाभिनिष्पद्यत इति जीवपरषट्कवाक्यमस्तीत्यत आह ॥ स्वेन रूपेणेति ॥ प्रजापतिवाक्येऽपि ब्रह्मपरवाक्यानि दर्शयति ॥ किञ्चेत्यादिना ॥ तथा ब्रह्मपरम् । दहरवाक्यप्रजापतिवाक्ययोरेकविषयत्वं पूर्वपरामर्शकयच्छब्दवशादित्यभिप्रेत्याह ॥ किञ्चेति ॥ दहरस्य ज्ञानफलस्य प्रजापत्युक्तज्ञानेनाप्युक्तेरुभयोरैक्यमित्यभिप्रेत्याह ॥ अपि चेति ॥ जिज्ञास्यत्वप्रत्यभिज्ञानाच्चैक्यमित्याह ॥ तथा दहरवाक्य इति ॥ ईश्वरसाम्यमिति ॥ अनुकृतिशब्दोक्तमिति शेषः ॥ अन्यत्र प्रसिद्धेन तेनेति ॥ स्मृत्यादौ प्रसिद्धेनेशसाम्येनेत्यर्थः ॥ समन्वयाध्यायेति ॥ मुक्तगतेशसाम्यसाधनस्येति शेषः ॥ हेतुत्वोक्तेश्चेति ॥ तथा च साम्यस्य साध्यत्वोक्तिरयुक्तेत्यर्थः ।
॥ अनुकृतिमात्रेणेति ॥ अपहतपाप्मत्वादिगुणेन ईशसाम्यमात्रेणेत्यर्थः ॥ असिद्धेरिति ॥ साम्यस्योभयत्राविशेषेण वैपरीत्यस्यापि वक्तुं शक्यत्वादिति भावः ॥ प्रधानसाध्य इति ॥ आनुकूल्येन गृह्यमाणस्य ब्रह्मत्व इत्यर्थः ।
पाण्डुरङ्गि
स्वप्नवाक्यमपि तथेति ॥ एष स्वप्ने महीयमान इति स्वप्नवाक्यमपि ब्रह्मविषयकमित्यर्थः ॥ सुप्तवाक्यमपीति ॥ तद्यत्रैतत्सुप्तस्समस्तं संपन्न इति सुप्तवाक्यमपि ब्रह्मविषयकमित्यर्थः ॥ अशरीरवाक्यमपीति ॥ तदस्यामृतस्याधिष्ठानमित्यशरीरवाक्यमपि ब्रह्मविषयमित्यर्थः । तेन अनुकरणेनेत्यर्थः ॥ तस्येति ॥ साम्यस्येत्यर्थः । तथा च तेन पौनरुक्तयमित्यर्थः ॥ साम्यस्य हेतुत्वोक्तेश्चेति ॥ तथा च साम्यस्य साध्यत्वे सूत्रविरोध इत्यर्थः ॥ असिद्धेरिति ॥ विशिष्टसाध्ये हेतोरप्रयोजकत्वादिति भावः ।