अन्ये तु..
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु आथर्वणस्थं ‘‘न तत्र सूर्य’’ इत्यादिकं विषयवाक्यमित्याहुः । तन्न । त्वया हि ‘‘यत्तदद्रेश्य’’मित्यादिप्रकरणस्य ब्रह्मपरत्वसाधकेनादृश्यत्वाद्यधिकरणेनैव तत्प्रकरणस्थस्य ‘‘यस्मिन्द्यौ’’ रित्यादेरपि तत्परत्वे सिद्धे द्युभ्वाद्यधिकरणं व्यर्थमिति शङ्कित्वा ‘‘यत्तदद्रेश्य’’मित्यादिप्रकरणे ‘‘यस्मिन्द्यौरित्यादिवाक्यं नास्तीति कृत्वा चिन्तया द्युभ्वाद्यधिकरणमित्युक्तम् । आथर्वणस्थं च ‘‘न तत्रे’’त्यादिवाक्यं ‘‘यत्तदद्रेश्य’’मित्यादिप्रकरणे द्युभ्वादिसूत्रस्थित्यदनसूत्रविषयभूतयोः ‘‘यस्मिन्द्यौर् अनश्नन्नन्य’’ इति वाक्ययोर्मध्ये च वर्तते । तथा चास्याधिकरणस्यादृश्यत्वाधिकरण द्युभ्वाद्यधिकरणाभ्यामगतार्थत्वाय ‘‘न तत्रे’’त्यादिवाक्यं ‘‘यत्तदद्रेश्य’’मित्यादिप्रकरणे ‘‘यस्मिन्द्यौ’’रित्यादिवाक्यद्वयमध्ये च नास्तीति कृत्वा चिन्तयेदमधिकरणमिति वाच्यम् । न च तद्युक्तम् । यतः–
एकत्रापि च नास्तीति कृत्वा चिन्ता न युज्यते ।
अनेकस्मिन्न युक्तेति किमु गत्यन्तरे सति ॥ १ ॥
अस्ति हि काठकवाक्यरूपं गत्यन्तरम् । अन्यथा ‘‘अत एव प्राणः’’ इत्यस्य ‘‘प्राणबन्धनं हि सोम्य मनः’’ इति वाक्यं ब्रह्मप्रकरणस्थत्वेनासन्दिग्धत्वान्न विषयः । किन्तु ‘‘प्राण इति होवाचे’’ति वाक्यमेवेति प्राणाधिकरणे यत्त्वयोक्तं तदयुक्तं स्यात् । तद्वाक्यं तत्प्रकरणे नास्तीति कृत्वा चिन्तया तत्संभवात् । किं चाथर्वणे पूर्वत्र ‘‘विरजं ब्रह्मनिष्कल’’मित्यादीनां परत्र च ‘‘ब्रह्मैवेदममृतं पुरस्तात्’’ इत्यादीनां ब्रह्मश्रुतिलिङ्गादीनां स्पष्टत्वादस्माकं पक्ष इव दृढपूर्वपक्षहेत्वभावाच्च न तत्र संशयः । अपि च परपक्षे ब्रह्मणो भानमात्रतया ‘‘भान्त’’मिति शत्रन्तशब्दः ‘‘तस्य भासे’’ति षष्ठी चायुक्ता । किं च प्रपञ्चे ब्रह्मभानान्यभानाभावेनानुशब्दायोगः । ‘‘धावन्तमनुधावती’’त्यादौ हि धावनभेदे सत्येवानुशब्दो दृष्टः । न च श्रौतो व्यपदेशो ‘‘वह्निं दहन्तमयोऽनुदहती’’त्यादिवदारोपितभेदनिमित्तको युक्तः । किं च ‘‘अपि स्मर्यत’’ इति सूत्रविषयत्वेन त्वयोदाहृते ‘‘न तद्भासयते यदादित्यगत’’मित्यादिवाक्ये ब्रह्मणः सूर्याद्यभास्यत्वस्य सूर्यादितेजसोऽपि भगवदधीनत्वस्य चैवोक्तत्वेन त्वदभिप्रेतस्य ब्रह्म ज्ञानान्तरावेद्यमित्यस्या-स्मदादिसम्बन्धिघटादिज्ञानं ब्रह्मरूपमित्यस्य चासिद्धिः ।
प्रकाशिका
अन्ये त्विति ॥ तेषामिदमधिकरणशरीरम् । न तत्र सूर्यो भाति न चन्द्रतारकमित्यादौ सूर्याद्यप्रकाश्यत्वादिनाऽवगतं किं तेजोऽन्तरमुत ब्रह्मेति संशये तत्रेति सतिसप्तम्या तस्मिन्सति सूर्यादिकं न भातीत्युक्तया तत्रेत्यनेन सूर्यादितेजोभिभावकस्य वस्तुनः प्रतीतेस्सूर्यादेश्चन्द्रतारादितेजोन्तराभिभावकत्वदृष्ट्या प्रकृतेऽपि तत्रेत्यनेन तेजोन्तरस्यैव सूर्याद्यभिभावकस्य ग्राह्यत्वात् ‘‘तमेव भान्तमनुभाती’’ति वाक्ये चानुकारावगमादनुकारस्य च सजातीय एव ‘‘धावन्तमनुधावती’’त्यादौ दर्शनात्तस्य भासेति वाक्ये सर्वभासकत्वावगमाच्च तुल्यरूपमप्रकृतमपि तेजोन्तरमेवात्रोपास्यत्वेनोच्यते । ‘‘तेन रक्तं रागात् तस्यापत्य’’मित्यादावप्रकृतेऽपि तच्छब्ददर्शनात् । तदुक्तं भामत्यां–
अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः ।
तेजो धात्वन्तरं तस्मादनुकाराच्च गम्यते ॥ इति ।
एवं तस्य वाक्यस्य ‘‘यस्मिन्द्यौ’’रित्यादिब्रह्मप्रकरणगतत्वेऽप्यसम्भवानुकार-सामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाध इति प्राप्ते ‘‘तमेव भान्त’’मित्यादौ ‘‘भारूपस्सत्यसङ्कल्प’’ इति श्रुतिसिद्धभारूपब्रह्मार्थत्वसम्भवेऽलौकिकतेजोन्तरकल्पना-योगात् ‘‘तत्रे’’त्यस्य विषयसप्तम्यन्ततया तद्वाक्योक्तसूर्याद्यप्रकाश्यत्वस्य ब्रह्मलिङ्गत्वात् ‘‘तस्य भासे’’त्युक्तसर्वजगद्विषयकभानवत्त्वस्य ब्रह्मण्येवोपपत्तेः ‘‘अग्निं दहन्तमयःपिण्डोऽनुदहति । वायुं गच्छन्तं रजोऽनुगच्छती’’त्यादौ विसदृशेऽप्यनुकार-दर्शनेन ‘‘तमेवे’’ति वाक्ये विसदृशेऽप्यनुकारसम्भवाद्ब्रह्मैवात्रोच्यते । उक्तं च भामत्यां–
ब्रह्मण्येव हि तल्लिंगं न तु तेजस्यलौकिके ।
तस्मान्न तदुपास्यं किं ब्रह्म ज्ञेयं तु गम्यते ॥ इति ।
तत्र विषयसंशयपूर्वपक्षादिबीजानि क्रमेण निराह ॥ तन्नेत्यादिना ॥ इत्युक्तमिति ॥ विवृतमेतत्तत्रैव ॥ इति वाच्यमिति ॥ अन्यथा व्यर्थतापत्तेः । लिङ्गेन प्रकरणबाध इति भामत्युक्तं तु दृढपूर्वपक्षहेत्वभावाच्चेत्यग्रे निरसिष्याम इति भावः । यत इत्यस्य श्लोकेनान्वयः । इति यतस्ततो न युक्तमिति । गत्यन्तरमसिद्धमित्यत आह ॥ अस्ति हीति ॥ अन्यथा गत्यन्तरे सत्येवमाश्रयणे । ननु नकृत्वाचिन्तयेदमारभ्यते । किं तर्ह्यनुकारसामर्थ्यरूपलिङ्गेन प्रकरणबाधया पूर्वपक्षे तत्समाधानार्थम् । तथैव भामत्युक्तेरित्यत आह ॥ किञ्चेति ॥ सत्यमेवं सति तु तादृशलिङ्गे । तदेव नास्ति । अनुकारस्य विसदृशेऽपि दर्शनेन सावकाशतयानेकपूर्वोत्तरगतश्रुतिलिङ्गबाधकत्वायोगात् । तत्रेति सतिसप्तमीत्यत्रासाधारणहेत्वभावे तस्यापि सावकाशत्वात् । तस्य भासेत्यपि सावकाशमेव । शब्दानुशासनपरे सूत्रे तच्छब्दस्य पूर्वाप्रकृतपरत्वदर्शनेऽप्येकार्थप्रतिपादनपरवाक्येषु क्वापि सर्वनाम्नोऽप्रकृतपरत्वादर्शनाच्चेति भावेनोक्तं दृढपूर्वपक्षहेत्वभावाच्चेति । सिद्धान्तोऽप्ययुक्तः । श्रुत्यननुसारादित्याह ॥ अपि चेति ॥ ‘‘लः कर्मणि च भावे चाकर्मकेभ्य’’ इति भा दीप्तावित्यस्य कर्तरि लट्प्रत्यये ‘‘लटश्शतृशानचावप्रथमासमानाधिकरण’’ इति विहितलडादेशशतृप्रत्ययस्य कर्तृवाचित्वेन भान्तमित्युक्तभानकर्तृत्वं न चैतन्ये युक्तमित्यर्थः । तस्येति षष्ठ्यर्थस्य भेदघटितत्वादिति भावः ।
ननु ‘‘वह्निं दहन्तमयोऽनुदहतीत्यत्र क्रियाभेदाभावेऽपि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येय’’मिति भामत्युक्तत्वादिहापि तथा स्यादित्यत आह ॥ न चेति ॥ अप्रामाण्यापत्तेरिति भावः । एतेनानुकृतेरनुभानात्तस्येति प्रतीकग्रहणेन तस्य भासेति सर्वस्य तद्धेतुकभानोक्तेर्न तत्रेति सूर्याद्यप्रकाश्यं ब्रह्मेत्याद्यसूत्रार्थः प्रत्युक्तः । द्वितीयसूत्रार्थमपि प्रत्याह ॥ किञ्चेति ॥
चन्द्रिकाबिन्दुः
तत्परत्वे सिद्धे इति ॥ ब्रह्मपरत्वे सिद्धे इत्यर्थः । ननु द्युभ्वाद्यधिकरणादृश्यत्वाद्यधिकरणविषयवाक्यं तत्र प्रकरणे नास्तीति कृत्वा चिन्तयेदमधिकरणमस्त्वित्यत आह ॥ न च तद्युक्तमिति ॥ अन्यथेति ॥ गत्यन्तरे विद्यमानेऽपि कृत्वा चिन्तयाधिकरणगर्भाङ्गीकार इत्यर्थः ॥ तद्वाक्यमिति ॥ ब्रह्मपरवाक्यमित्यर्थः । आथर्वणवाक्ये पूर्वपक्षानुदय एवेत्याह ॥ किञ्चेति ॥ शत्रन्त इति ॥ शतुः क्रियावति विहितत्वेन भानरूपे ब्रह्मणि भान्तमिति प्रयोगायोगादिति भावः । ननु वह्निं दहन्तम् अयोऽनुदहतीत्यादौ एकस्यामेव दहनक्रियायामारोपितभेदेनानुशब्दप्रयोग इतिवद् अत्राप्यारोपितभेदेन भान्तमित्यादिप्रयोगोपपत्तिरित्यत उत्तराच्चेदाविर्भूतस्वरूपस्तु इति सूत्रार्थमाह ॥ उत्तरस्मिन्निति ॥
पाण्डुरङ्गि
अन्यथेति ॥ यत्तदद्रेश्यमित्यादिप्रकरणे यस्मिन्द्यौर् अनश्नन्नन्य इति वाक्यद्वयमध्ये च नास्तीति कृत्वाचिन्तयैतदधिकरणारंभ इत्यर्थः । ननु धावन्तमनुधावतीत्यादौ धावनभेदेऽनुशब्दप्रयोगवद्वह्निं दहन्तमयोऽनुदहतीत्यत्र दहनभेदाभावेऽप्यनुशब्दप्रयोगदर्शनात् प्रकृतजगति ब्रह्मभानान्यभानाभावेन भानभेदाभावेऽप्यनुशब्दप्रयोगः किं न स्यादित्यत आह ॥ न चेति ॥ श्रौत इति हेतुगर्भं विशेषणम् । अन्यथा श्रुतेरारोपितविषयकत्वेनाप्रामाण्यं स्यादित्यर्थः ।