०२ विषयचिन्ताप्रदर्शनम्

अत्र ‘‘कथं नु तद्विजानीयां किमु भाति न भाति वे’’ति ..

विषयचिन्ताप्रदर्शनम्

तात्पर्यचन्द्रिका

अत्र ‘‘कथं नु तद्विजानीयां किमु भाति न भाति वे’’ति काठकोक्तमानुकूल्येन गृह्यमाणं किं ज्ञानिसुखं किं वा ब्रह्मेति चिन्ता । तदर्थं ‘‘तदेतदिति मन्यन्त’’ इति पूर्ववाक्यस्थं तच्छब्दादिकं किं सन्निहितज्ञानिसुखपरं किं वा व्यवहितेश्वरपरमिति । तदर्थं सन्निहितपरत्वे ‘‘तमेव भान्तमनुभाती’’त्यनुकृतिप्रतिपादकमुत्तरवाक्यं न विरुध्यत उत विरुध्यत इति । तदर्थं तत्स्थस्तमेवेति तच्छब्दः किं पुल्लिङ्गानुसाराद्व्यवहितप्रकृतेश्वरपरः किं वा प्रातिपदिकानुसारात्सन्निहितप्रकृतानुकूलगृह्यमाणपर इति । यद्याद्यस्तदाऽनुकृतेरानुकूल्येन गृह्यमाणनिष्ठत्वाभावेन ब्रह्मपक्षे साधकाभावात् ‘‘तदेत’’दिति तच्छब्दादेः सन्निहितज्ञानिसुखपरत्वत्यागे कारणाभावेन ज्ञानिसुखपक्षे साधकसद्भावाच्चानुकूल्येन गृह्यमाणं ज्ञानिसुखमेव । यदि तु द्वितीयस्तदाऽनुकृतेरानुकूल्येन गृह्यमाणनिष्ठत्वेन ब्रह्मपक्षे साधकसद्भावात्तेनैव कारणेन ‘‘तदेत’’दिति तच्छब्दादेः सन्निहितज्ञानिसुखपरत्वाभावेन ज्ञानिसुखपक्षे साधकाभावाच्चानुकूल्येन गृह्यमाणं ब्रह्मैव ।

प्रकाशिका

विषयसंशयटीकां व्यनक्ति ॥ अत्रेति ॥ ‘‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्मसनातन’’मित्युपक्रम्य ‘‘एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् । नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यंति धीरास्तेषां शान्तिश्शाश्वती नेतरेषाम् । तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् । कथं नु तद्विजानीयां किमु भाति न भाति वा । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भांति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती’’ति पञ्चमखण्डगतवाक्यस्थमानुकूल्येन गृह्यमाणं विषय इत्यर्थः ॥ काठकेति ॥ अन्यगतं वाक्यं विषय इत्येतन्निरसिष्यत इति भावः ॥ तच्छब्दादिकमिति ॥ आदिपदेनैतच्छब्दस्तत्समानाधिकरणपरमसुखपदं च गृह्यते । ‘‘कथं नु तद्विजानीया’’मित्यत्र तच्छब्दस्य ‘‘तदेत’’दिति पूर्ववाक्योक्तपरामर्शकत्वं सिद्धमिति पूर्ववाक्यमेव किं परमिति चिन्तितम् । तथा च वक्ष्यति ‘‘तद्विजानीयामिति तच्छब्देने’’त्यादि । अतः ‘‘तदेतदिति मन्यन्ते कथं नु तद्विजानीयामिति तेषां सुखं शाश्वतमित्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रम’’ इति न्यायविवरणविरोधशङ्कानवकाशः ॥ सन्निहितेति ॥ तेषां सुखमिति वाक्येनेत्यर्थः ॥ व्यवहितेति ॥ एको वशीति वाक्योक्तेश्वरेत्यर्थः । यद्यप्यत्र ‘‘तेषां सुख’’मिति वाक्यात् ‘‘नित्यो नित्याना’’मितीश्वरवाक्यस्य परत्वादीश्वरस्सन्निहितः । ज्ञानिसुखं तु तदपेक्षया व्यवहितम् । तथापि ‘‘नित्यो नित्याना’’मित्यस्मादपि परस्मिन् ‘‘तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्ति’’रित्यत्र प्रकृतेन ज्ञानफलेन शान्तिशब्दार्थेन सुखेन ‘‘नित्यो नित्याना’’मिति वाक्योक्तस्य व्यवहितत्वादिति पूर्वपक्ष्यभिप्रायादेवमुक्तम् । वक्ष्यति चैतद्यद्वेत्यादिना सिद्धान्ते ।

अनुकृतीति ॥ सूर्यादितेजसां भगवत्कृत्यनुसारिकृतिमत्त्वप्रतिपादकं ‘‘तमेव भान्तमनुभाती’’ति वाक्यमित्यर्थः । अनुभानप्रतिपादकमिति वक्तव्येऽनुकृतीति वचनं तु श्रुतौ भानस्य कृतिमात्रोपलक्षणतया तमेव कुर्वन्तमनुकरोति सर्वमिति श्रुत्यर्थमभिप्रेत्य सूत्रेऽनुकृतेरित्युक्तत्वात्सौत्रहेत्वनुवादायेति ध्येयम् । तत्स्थ उत्तरवाक्यस्थः । न तत्र सूर्यो भातीत्यस्य सूर्याद्यप्राकाश्यत्वरूपलिङ्गप्रतिपादकवाक्यस्यादित्वेऽपि तस्य पुन्नपुंसकसाधारण्याद्वक्ष्यमाणदिशा युक्तिसूचनाय सूत्रोपात्तपुंल्लिङ्गोपेतं तमित्येतदेव गृहीतम् ॥ व्यवहितेति ॥ एको वशीति वाक्योक्तेत्यर्थः ॥ सन्निहितेति ॥ कथं नु तदिति वाक्योक्तेत्यर्थः । साधकसद्भावादिति ॥ सन्निहितपरत्वरूपेत्यर्थः ॥ द्वितीय इति ॥ आनुकूल्येन गृह्यमाणपरत्वम् इत्यर्थः ।

चन्द्रिकाबिन्दुः

सन्निहितपरत्व इति ॥ तदेतदिति वाक्यस्येति शेषः । तत्स्थो ऽनुकृतिप्रतिपादकोत्तरवाक्यस्थः ॥ प्रातिपदिकानुसारादिति ॥ तच्छब्दलक्षणप्रातिपदिकस्य सन्निहितपरत्वे स्वारस्यमेव प्रातिपदिकानुसारः ॥ ब्रह्मपक्षे साधकाभावादिति ॥ तमेव भान्तमिति वाक्यस्य व्यवहितेश्वरपरत्वेनानुकूल्येन गृह्यमाणनिष्ठत्वाभावात् । आनुकूल्येन गृह्यमाणस्य ब्रह्मत्वसाधकं नास्तीत्यर्थः ।