०१ सन्गतिकथनम्

अत्रानुव्याख्याने अनुग्रहाख्यलिङ्गस्य समन्वय इत्युक्तम्

अनुकृत्यधिकरणम्

तात्पर्यचन्द्रिका

सन्गतिकथनम्

॥ ॐ अनुकृतेस्तस्य च ॐ ॥

अत्रानुव्याख्याने अनुग्रहाख्यलिङ्गस्य समन्वय इत्युक्तम् । अनुग्रहश्चानुकूल्येन गृह्यमाणत्वमित्युक्तं न्यायविवरणे । तच्च ‘‘कथं नु तद्विजानीयामिति ज्ञानार्थं प्रार्थितत्व’’मित्युक्तं टीकायाम् । तच्च विजानीयामिति लिङाज्ञानार्थं ज्ञेयस्य प्रार्थनाधीरित्यभिप्रेत्य वा कथं नु पुत्रं पश्येयं स आगच्छति वा न वेत्यत्र यथा पुत्रज्ञानार्थं तदागमनप्रार्थनाधीस् तथा ‘‘कथं नु तद्विजानीया’’मित्यादिवाक्ये ज्ञानार्थमाविर्भावरूपभानप्रार्थनाधीरित्यभिप्रेत्य वेति द्रष्टव्यम् । ‘‘परमात्मैवानिर्देश्यसुखरूप’’ इति सिद्धान्तभाष्यं तु फलितोक्तिपरम् । केचित्तु एतद्भाष्यानुसारान्न्यायविवरणोक्तमानुकूल्येन गृह्यमाणत्वं सुखत्वमेवेत्याहुः । अत्र च ‘‘कथं नु तद्विजानीया’’मिति प्रार्थनं ज्ञानिनः । तत्प्रार्थनस्य तत्सुखमिवेश्वरोऽपि तं प्रति प्रियत्वाद्विषयः । परमं सुखमिति समभिव्याहृतसुखशब्दश्चोभयसाधारणः । ततश्चानुकूल्येन गृह्यमाणत्वमीश्वरज्ञानिसुखयोः साधारणमिति ज्ञेयम् । अनन्तरसङ्गतिस्तु पूर्वाधिकरणन्यायेन तद्वैषम्येण वा पूर्वपक्षोत्थानात् ।

प्रकाशिका

अत्र समन्वीयमानलिङ्गस्योभयसाधारण्येन टीकोक्तपादसङ्गतिं विवरितुं तत्स्वरूपकथनपरटीकाया मूलं वदंस्तन्निर्धारयति ॥ अत्रेति ॥ ‘‘स्थानं लिङ्गमनुग्रह’’ इत्यनुव्याख्याने ‘‘कथं नु तद्विजानीयामित्यानुकूल्येन ग्रहणं कस्येति विचार्यमनुग्रह’’ इति न्यायविवरणे । ननु टीकोक्तं कथं शब्दलभ्यमित्यत आह ॥ तच्चेति ॥ लिङेति ॥ विधिनिमंत्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङि’’ति स्मरणादिति भावः ॥ भानेति ॥ ‘‘किमु भाति न भाति वे’’ति श्रवणादिति भावः । भाष्यविरोधमाशङ्क्याह ॥ परमात्मेति ॥ द्विरूपस्यापि प्रार्थनस्य भगवत्परत्वे सिद्धेऽत्रोक्ततादृशसुखरूपोऽपि स एवेति फलिष्यतीत्यभिप्रायमित्यर्थः ॥ सुखत्वमेवेति ॥ तथा च तस्योभयत्रप्रसिद्धिस्सुशकेति भावः । साधारण्योपपादनाय लिङा प्रतीतं प्रार्थनं न सर्वकर्तृकमित्याह ॥ अत्र चेति ॥ ‘‘तमात्मस्थं येऽनुपश्यन्ति धीरा’’ इति ज्ञानिन एव प्रकृतत्वादिति भावः । एवं लिङ्गस्वरूपं निर्धार्येदानीं ‘‘आनुकूल्येन गृह्यमाणत्वलिङ्गस्य भगवति ज्ञानिसुखे च सुखशब्दवृत्त्या साधारणस्ये’’ति टीकोक्तं साधारण्यं स्वत एवोभयसाधारणसुखशब्दसमभिव्याहारोण वेति द्वेधोपपादयति ॥ तत्प्रार्थनस्य चेति ॥ तं ज्ञानिनं प्रति । ‘‘प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रिय’’ इत्यादेरिति भावः ॥ उभयेति ॥ ‘‘एष परम आनन्दः यो वै भूमा तत्सुख’’मित्यादौ भगवतोऽपि परमसुखरूपत्वात्तत्र सुखशब्ददृष्टेरिति भावः । एतेन टीकायां ‘‘सुखशब्दवृत्त्ये’’त्येतत्सुखशब्दवृत्त्या चेति चशब्दानुषङ्गेण पक्षान्तरतया योज्यमित्युक्तं भवति । नन्वानुकूल्येन गृह्यमाणत्वस्य समभिव्याहृतसुखनिष्ठतया तस्य च द्वयसाधारण्येन लिङ्गस्य चोभयत्र प्रसिद्धिरयुक्ता । सुखशब्दस्याज्ञसुखेऽपि सत्त्वात् । तस्येह पूर्वपक्ष्यनभिमतत्वात् । द्वयमात्रसाधारण्येन वक्तव्यत्वस्योक्तत्वादिति चेन्न । प्रकरणविशेषितस्य तस्य द्वयमात्रसाधारण्यात्प्रकरणस्य च ज्ञानीश्वरमात्रसम्बन्धित्वात्पूर्वत्रकारणत्ववदस्याप्युपपत्तेः । केचित्तु सुखशब्देन पारम्यविशेषितसुखपरेणानेवंरूपाज्ञसुखानभिधायिना द्वयमात्रसाधारण्यम् । अत एव ‘‘परमं सुखमिति समभिव्याहृतसुखशब्दश्चे’’त्युक्तमित्याहुः ॥ अनन्तरेति ॥ पूर्वत्र ‘‘तस्मिन्यदन्त’’रिति तच्छब्दस्य सन्निहितत्यागेन व्यवहितपरत्वायोगवदिहापि सन्निहितज्ञानिसुखत्यागेन व्यवहितेश्वरपरत्वायोग इति पूर्वन्यायेन वा ‘‘एष आत्मे’’त्येतच्छब्दस्य प्रकृतज्योतिःपरत्वेऽपि विधेयात्मापेक्षया पुल्लिङ्गत्वेऽपीह तदेतच्छब्दयोर्मध्य एकस्योद्देशकत्वावश्यंभावेन द्वयोर्नपुंसकत्वायोगादिति पूर्ववैषम्येण वेत्यग्रे स्पष्टमिति भावः । तथा चापवादिकी वा प्रत्युदाहरणरूपा वेत्यर्थः । ‘‘अदृश्यत्वादय’’ इति भाष्यादि तु फलपरमिति भावः । एतेन यदुक्तं कल्पतरौ ‘‘पूर्वमेतं त्वेव त इत्येतच्छब्दस्य प्रकृतार्थत्वाद्दहरस्य जीवतानिरासि’’ इति । तदसाधु । तत्रेत्यादौ प्रकृतार्थत्वानियमादिति शङ्कानिरासात्सङ्गतिरिति तदयुक्तमिति सूचितम् । तन्मते ‘‘तस्मिन्यदन्त’’रित्यत्र पूर्ववाक्य एव ‘‘ब्रह्मपुरे जीवदेहे’’ इत्यर्थोक्तयाऽप्रकृतस्यापि ब्रह्मणो ‘‘यदन्तस्तदन्वेष्टव्य’’मित्यत्र यच्छब्दार्थत्वस्य तस्मिन्नित्यस्य समीपप्रकृतदहराकाशपरत्वानियमस्य स्वीकारेणैतच्छंकायाः प्रागेव निरसनीयत्वेन पुनरिह तथा शङ्कोत्थानायोगादिति ।

चन्द्रिकाबिन्दुः

॥ अनुकृतेस्तस्य च ॥ कथं नु तद्विजानीयामिति ज्ञानार्थं प्रार्थितत्वमिति ॥ टीकायामानुकूल्येन गृह्यमाणत्वं निरुक्तम् । तच्च न सुखगतं भाति । विजानीयामिति श्रुतौ लिङ्गाज्ञानस्यैव प्रार्थनीयत्वावगमादित्याशङ्क्याह ॥ तच्च विजानीयामित्यादिना ॥ ‘किमु भाति न भाति’ इति वाक्यानुसारेण सुखगतमाविर्भावाख्यं पदार्थविशेषमङ्गीकृत्य स चाविर्भावः ज्ञानार्थ इत्यभिप्रेत्य सदृष्टान्तं पक्षान्तरमुपपादयति ॥ कथं नु पुत्रं पश्येयमित्यादिना ॥ ननु आनुकूल्येन गृह्यमाणत्वलिङ्गसमन्वयस्याभिप्रेतत्वे निर्देश्यसुखरूप इति सुखशब्दसमन्वयप्रतिपादनपरं भाष्यमयुक्तं स्यादित्यत आह ॥ परमात्मैवेति ॥ लिङ्गे समन्विते सुखशब्दोऽप्यर्थात् समन्वीयत इत्यभिप्रायः । आनुकूल्येन गृह्यमाणत्वमीश्वरे उपपादयितुमाह ॥ अत्र चेति ॥

पाण्डुरङ्गि

ननु टीकाभाष्यविरोधः । भाष्येऽनिर्देश्यसुखरूपलिङ्गसमन्वयस्य प्रतिपाद्यत्वाभ्युपगमात् । टीकायां ज्ञानार्थं प्रार्थितत्वरूपलिङ्गसमन्वयस्य प्रतिपाद्यत्वाभ्युपगमात् । किं चानुकूल्यगृह्यमाणत्वं नाम ज्ञानार्थं प्रार्थितत्वमिति नोपपद्यते । कोशाद्यभावेन तत्र रूढेरभावेन योगस्याप्यसम्भवादित्यतो भाष्यटीकयोरविरोधप्रदर्शनपूर्वकं टीकोक्तं ज्ञानार्थं प्रार्थितत्वरूपत्वमानुकूल्येन गृह्यमाणत्वस्योपपादयति ॥ अत्रेति ॥ सुखशब्दप्रवृत्त्या साधारण्यमुक्तमिति नाभिप्रायः । किं त्वानुकूल्यस्य साक्षादेवोभयत्रप्रसिद्धत्वसम्भवेऽपि सुखशब्दप्रवृत्त्याऽपि साधारण्यस्य सत्त्वादित्यभिप्रायेण । सर्वेषामपि स्वसुखस्यैवानुकूल्येन गृह्यमाणत्वेन परमात्मनश्च सुखत्वाभावेन कथं तस्यानुकूल्येन गृह्यमाणत्वमित्यतस्तदुपपादयति ॥ अत्र चेति ॥ तत्प्रार्थनस्येति ॥ ज्ञानार्थिप्रार्थनस्येत्यर्थः । टीकोक्तं सुखशब्दप्रवृत्त्या साधारण्यमप्याह परमं सुखमितीति ॥ पूर्वाधिकरणन्यायेनेति ॥ तस्मिन्यदन्तरिति तच्छब्देन सन्निहितदहरस्यैव परामर्शः । न तु व्यवहितपुण्डरीकस्येति पूर्वाधिकरणन्यायेनैव प्रकृतेऽपि तदेतदित्यत्र सन्निहितज्ञानिसुखस्यैव परामर्शः । न तु व्यवहितप्रकृतेश्वरस्येति पूर्वाधिकरणन्यायेन पूर्वपक्षोत्थानादित्यर्थः ॥ वैषम्येण वेति ॥ पूर्वाधिकरणे परज्योतिश्शब्देन प्रकतस्य ब्रह्मणः पुल्लिङ्गेन ‘‘एष’’ इत्येतच्छब्देन परामर्शसम्भवेऽपि प्रकृते तदेतच्छब्दयोर्मध्ये एकस्योद्देश्यत्वावश्यम्भावेन द्वयोर्नपुंसकलिङ्गत्वायोगेन विधेयसुखापेक्षया नपुंसकलिङ्गत्वायोगेनेति वैषम्येणेत्यर्थः ।