०८ टीकाक्षरार्थनिरूपणम्

टीकाक्षरार्थस्तु

टीकाक्षरार्थनिरूपणम्

तात्पर्यचन्द्रिका

टीकाक्षरार्थस्तु । पूर्वं हृत्पद्मस्थस्य ब्रह्मत्वे हेत्वन्तरोक्तयर्थं सौत्रं लिङ्गपदमित्येवं परतयाऽरश्चेत्यादिभाष्यं व्याख्यातम् । अधुना ब्रह्मलोकशब्दस्य प्रसिद्ध्या सत्यलोकपरत्वाशङ्कानिरासार्थं तदित्येवंपरतयाऽरश्चेत्यादिभाष्यं व्याचष्टे ॥ अथवा ब्रह्मलोकमिति ॥ तल्लक्षणोक्तेश्चेति ॥ एष आत्मा अपहतपाप्मेत्यत्र हृत्पद्मस्थलक्षणत्वेनोक्तस्यापहतपाप्मत्वस्य सर्वे पाप्मानोऽतो निवर्तंत इत्यनेन ससेतुरित्युक्तसेतुधर्मत्वोक्तेरित्यर्थः ॥ एतस्येति प्रतीकग्रहणेनेति ॥ प्रतीकग्रहणेन ‘‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्दमसौ । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ’’ इत्यादीनि बहुवाक्यानि सूचयतीत्यर्थः ॥ विष्णुरित्यभ्युपगमे सुषिरश्रुतिविरोध इति ॥ ब्रह्मणो हृत्पद्मस्थत्वे सुषिरस्य ‘‘तस्यान्ते सुषिर’’मिति हृत्पद्मस्थत्वश्रुतिविरोध इति निरस्तम् । सुषिरस्य ‘‘दहरोऽस्मिन्नन्तराकाश’’ इति वाक्योक्तहृत्पद्मस्थत्वमुपेत्यैव ब्रह्मणो ‘‘दहरं विपाप्म’’ मित्यादिश्रुतिबलात्तस्मिन्यदन्तरिति वाक्योक्तहृत्पद्मसुषिरस्थताया एव स्वीकारादित्यर्थः ॥

तदाधारतया पृथिव्यादिकमिति ॥ आकाशाभिमान्याश्रितं पृथिव्याद्यभिमान्यादिकमित्यर्थः ॥ ब्रह्मैव पूर्णत्वात्पुरमिति ॥ एतत्सत्यं ब्रह्मपुरमिति प्रकृतस्य शरीरस्यैवैष आत्मेति परामर्शादात्मा न विष्णुरिति न शंक्यम् । छान्दोग्यभाष्योक्तरीत्या ‘‘यदिदमस्मिन्ब्रह्मपुर’’ इत्याद्यस्य ब्रह्मपुरशब्दस्य षष्ठीतत्पुरुषकर्मधारययोराश्रयणेन शरीरब्रह्मोभयपरत्वेऽपि ‘‘ब्रह्मपुरे सर्वं समाहित’’मिति द्वितीयस्य ‘‘एतत्सत्यं ब्रह्मपुर’’मिति तृतीयस्य च ब्रह्ममात्रपरत्वादिति भावः ॥ शरीरनाशेनास्याविनाशोक्तेरिति ॥ यद्यपि ‘‘एतज्जराऽऽवाप्नोती’’ति पूर्वत्रैतच्छब्देन शरीरस्य प्रकृतत्वात् ‘‘एतत्सत्यं ब्रह्मपुर’’मित्यत्रापि तस्य प्राप्तिः । तथापि नास्य जरयैतज्जीर्यत इति सन्निहितपूर्ववाक्ये शरीरमस्येति निर्दिश्यैतच्छब्देन ब्रह्मनिर्देशाच्छरीरनाशेऽप्यविनाशित्वलिङ्गाच्च न शरीरमिह ब्रह्मपुरशब्दार्थ इत्यर्थः ॥ न चैवमङ्गीकारेऽपि सुषिरश्रुतिविरोध इति ॥ सुषिरस्य सर्वाधारत्वश्रुतिविरोध इत्यर्थः ॥

प्रकाशिका

अथवेत्यादिटीकाया उद्भाष्यत्वभ्रान्तिं निवारयन्पक्षयोरर्थभेदं व्यंजयन् भाष्यव्याख्यानमेतदित्याह ॥ पूर्वमिति ॥ ‘‘धृतिसूत्रे सर्वे पाप्मानोऽतो निवर्तंत इति तल्लक्षणोक्ते’’रिति वाक्ये तच्छब्देन परामृश्यमानं न स्फुटम् । किञ्च तल्लक्षणमिति न स्फुटं प्रतीयते । तथात्वे वा स हृत्पद्मस्थः कुत इत्यतो व्यनक्ति ॥ एष इति ॥ एतस्येति प्रतीकग्रहणेन बहुवाक्यानि सूचितानीत्यत्रोक्तानि बहुवाक्यानि च दर्शयति ॥ प्रतीकेति ॥ ‘‘प्रसिद्धेश्चे’’ति सूत्रे ‘‘हृत्पद्मस्थाकाशो विष्णुरित्यभ्युपगमे सुषिरश्रुतिविरोध इत्येतदनेनैव निरस्त’’मिति वाक्यविरोधतच्छान्त्योरस्फुटत्वादाह ॥ ब्रह्मण इति ॥ ‘‘यद्ब्रह्मान्वेष्टव्यतयोक्तं तस्यान्तर्हृदये यावानेष आकाशस्तावान्सर्वोऽपि विद्यन्ते । तदाधारतया पृथिव्यादिकं च समाहित’’मित्यत्र जडस्यैव जडाधारताप्रतीतेराह ॥ आकाशेति ॥ एतच्छब्देन शरीरस्य प्रकृतत्वान्नेति चेन्न । शरीरनाशेनास्याविनाशोक्तेरित्येतदप्रतीतेश्शङ्कोत्तरयोर्भावं व्यनक्ति ॥ यद्यपीति ॥ दहराकाशस्थस्य विष्णोरेव सर्वाधारत्वमिति प्रकृतेऽर्थे शङ्कितश्रुतिविरोधं सङ्गमयति ॥ सुषिरस्येति ॥ शिष्टमुपन्यासमुखेन विवृतमिति भावः ॥

चन्द्रिकाबिन्दुः

पूर्वोत्तरपक्षयोर्भिन्नसाध्यहेतुसमर्पकत्वेन भेद इत्यभिप्रेत्याह ॥ पूर्वमित्यादि ॥ सुषिरश्रुतिविरोध

इत्यस्य सर्वाधारतांशे सुषिरश्रुतिविरोध इत्यङ्गीकारे पूर्वोत्तरवाक्यानुगुण्यमित्यतो व्याचष्टे ॥ ब्रह्मणो हृत्पद्मस्थत्व इति ॥ आकाशाधारत्वं च चन्द्रादीनां तदभिमानिपोष्यत्वमेवेत्यभिप्रेत्य व्याचष्टे ॥ आकाशाभिमान्याश्रितमित्यादि ।

पाण्डुरङ्गि

समानविषयत्वस्य विकल्पप्रयोजकत्वात्प्रकृते तदभावाद्विकल्पद्योतकोऽथ वेति वाशब्दोऽननुपपन्न इत्यतो व्याख्यानान्तराभिप्रायेण वाशब्द इत्याह ॥ पूर्वमिति ॥ सर्वत्र ब्रह्मपुरशब्दस्य ब्रह्मपरत्वभ्रान्तिनिरासायाह ॥ एतत्सत्यं ब्रह्मपुरमिति ॥ पौनरुक्तयपरिहाराय व्याख्याति ॥ सुषिरस्येति ॥

॥ इति दहराधिकरणम् ॥ ५ ॥