०२ विषयचिन्तानिरूपणम्

अत्र ‘‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं ..

विषयचिन्तानिरूपणम्

तात्पर्यचन्द्रिका

अत्र ‘‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोस्मिन्नं तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति । तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति । स ब्रूयात् । यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभा’’वित्यादि छान्दोग्यवाक्यस्थं हृत्पद्मस्थत्वं किमाकाशादेः किं वा ब्रह्मण इति चिन्ता । तदर्थं हृत्पद्मस्थे श्रुतमपहतपाप्मत्वादिकं किममुख्यमुत मुख्यमिति । तदर्थं तस्य मुख्यत्वे ‘‘यावान्वा’’ इत्यादिप्रतिवचनं विरुध्यते न वेति । तदर्थं प्रतिवचनं किं ‘‘दहरोस्मिन्नन्तराकाश’’ इति पूर्वं हृत्पद्मस्थतयोक्तभूताकाशमनूद्य तत्स्थस्य द्यावापृथिव्यादेरन्वेष्टव्यत्वप्रतिपादकं किं वा ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति पूर्वोक्तान्वेष्टव्यस्य ब्रह्मत्वं विधाय तस्यान्वेष्टव्यत्वाय द्यावापृथिव्याद्याश्रयत्वप्रतिपादकमिति । तथा ब्रह्मणो द्यावापृथिव्याश्रयत्वे सुषिरश्रुतिर्विरुध्यते न वेति । यद्याद्यस्तदा प्रतिवचनविरोधेन सुषिरश्रुतिविरोधेन चापहतपाप्मत्वादेर्भूताकाश एवामुख्यस्य सम्भवात्तस्यैवान्वेष्टव्यद्यावापृथिव्याद्याश्रयत्वविशिष्टं हृत्पद्मस्थत्वम् । यदि तु द्वितीयस्तदा विरोधद्वयाभावान्मुख्येनापहतपाप्मत्वादिनाऽन्वेष्टव्यत्व-द्यावापृथिव्याद्याश्रयत्वविशिष्टं हृत्पद्मस्थत्वं ब्रह्मण एव ।

प्रकाशिका

विषयसंशयटीकां व्यनक्ति ॥ अत्रेति ॥ ‘‘तद्धृदयपद्मस्थत्वं विषय’’ इत्यत्र तच्छब्दपरामर्शमाह ॥ अथ यदिदमित्यादिना ॥ छान्दोग्येति ॥ छान्दोग्येऽष्टमाध्यायगतवाक्यस्थमित्यर्थः । वाक्यस्यार्थोऽग्रे व्यक्तः । आकाशादेर् आकाशजीवयोरित्यर्थः । दहरे तत्तु ब्रह्मैवेति प्रतिज्ञांशं व्यावर्त्य पूर्वपक्षोपयुक्तचिन्तामुक्त्वा ‘‘उत्तरेभ्यः गतिशब्दाभ्या’’मित्यादि हेत्वंशव्यावर्त्यपूर्वपक्षोपयुक्तचिन्तामाह ॥ अपहतेति ॥ ‘‘एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्प’’ इत्यादिना श्रुतमित्यर्थः ॥ ब्रह्मत्वमिति ॥ आकाशपदेनेत्यर्थः । यद्यप्येवं न भाष्ये प्रतीयते । न्यायविवरणे च ‘‘योऽन्वेष्टव्यो भगवांस्तस्यान्तर्हृदय’’ इत्यादिनान्वेष्टव्यतयोक्तस्य ब्रह्मत्वं सिद्धं कृत्वा प्रकारप्रश्ने तत्कथनपरतया यावानित्यादिवाक्यं योजितम् । विवृतं चैवमेव टीकायाम् । अतः ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति पूर्वोक्तान्वेष्टव्यस्य ब्रह्मणोऽन्वेष्टव्यत्वायाकाशादिसर्वाश्रयत्वादिप्रकारप्रतिपादकमिति चिन्ता प्रदर्शनीया । तथाप्यस्मिन्पक्षे वक्ष्यमाणदिशा प्रश्नप्रतिवचनयोस्तुल्यविभक्तिकत्वाभावाद् ब्रह्मत्वविधानपक्षे तत्सत्त्वस्य वक्ष्यमाणत्वाच्छान्दोग्यभाष्योक्तब्रह्मत्वविधानकोटिकचिन्ता प्रदर्शितेति ज्ञेयम् । अत्र द्वौ पूर्ववादिसाधकावुत्तरवादिबाधकौ वाक्यानन्वयसमाख्याविरोधरूपौ न्यायविवरणभाष्याभ्यामुक्तौ । तत्राद्यघटितां चिन्तामुक्त्वा द्वितीयघटितामाह ॥ तथेति ॥ अस्पष्टत्वात् फलफलिभावं व्यनक्ति ॥ यद्याद्य इति ॥ यदि यावानित्यादिप्रतिवचनं ब्रह्मपरत्वे सुषिरश्रुतिविरोधेन भूताकाशानुवादेन तत्स्थस्य द्यावाभूम्यादेरन्वेष्टव्यत्वप्रतिपादकं तर्हि भूतस्यैव हृत्पद्मस्थत्वप्राप्तेः प्रतिवचनविरोधेनापहतपाप्मत्वादेर्गौणतया प्राक्तनमपि हृत्पद्मस्थत्वं भूतस्यैव सिध्यतीत्यर्थः ।

ननु यावानिति प्रतिवचनस्य वाक्यतया कथं तद्विरोधेनापहतपाप्मत्वादेर्लिङ्गस्य बाधेन गौणत्वोक्तिः । वैपरीत्यस्यैवौचित्यात् । वक्ष्यति च ‘‘शब्दादेवे’’त्यत्र ‘‘किं तदत्र विद्यत’’ इत्यादिवाक्यस्यापहतपाप्मत्वादिलिङ्गाद्दुर्बलत्वमिति । न च प्रतिवचनरूपवाक्यस्य प्रथमस्थत्वेनासञ्जातविरोधित्वेन प्राबल्यं मन्यते पूर्वपक्षी । अग्रेतनं लिङ्गवाक्ययोः प्राबल्यदौर्बल्यकथनं तु लिङ्गत्ववाक्यत्वप्रयुक्तमेवेति न विरुध्यत इति वाच्यम् । विकारस्य मुख्यत्वाय प्रथमस्येक्षणस्यैव गौणताया न्याय्यत्वादिति पूर्वाधिकरणोक्तदिशा पूर्वबाधस्यैव युक्तत्वात् । न चाकाशश्रुतियुक्तत्वेन वाक्यस्य लिङ्गाद्बलवत्त्वम् । एष आत्माऽपहतपाप्मेति श्रवणेन लिङ्गस्यापि ‘‘स्वशब्दा’’दित्युक्तन्यायेन ब्रह्मवाचकात्मश्रुतियुक्तत्वात् । न च वाक्ये श्रुतेरभ्यासोऽस्तीति तस्य बलवत्त्वम् । ‘‘तद्य इहात्मानमननुविद्य व्रजन्ति । अथ य आत्मानमनुविद्य व्रजन्ती’’ति चात्मश्रुतेरभ्यासाल्लिङ्गानां बहुत्वाच्चेति चेन्मैवम् । वक्ष्माणादिशा वाक्यस्य निरवकाशत्वं लिङ्गानां सावकाशत्वमिति पूर्वपक्षिणोऽभिमानात् । एकेनापि जात्या दुर्बलेन निरवकाशेन बहूनां सावकाशानां बाधात् । ‘‘आनर्थक्यप्रतिहतानां विपरीतं बलाबल’’मिति न्यायादिति भावः ॥ यदित्विति ॥ यदि ‘‘यावा’’निति प्रतिवचनं ‘‘किं तदत्र विद्यत’’ इति प्रश्ने आकाशशब्दितं ब्रह्म विद्यत इत्यन्वेष्टव्यं ब्रह्मेत्युक्तिपरं तदा विष्णोरेव सर्वाधारतया हृत्पद्मस्थत्वप्राप्तेः प्रतिवचनविरोधाभावात् प्राक्तनमपि हृत्पद्मस्थत्वं तस्यैव । एवं चापहतपाप्मत्वादिकं मुख्यमेव । तथा सुषिरश्रुतेरपि सर्वाधारत्वाभिप्रायेण परम्परया सुषिरस्य सर्वाधारत्वबोधनपरतयोपपत्तेस्तद्विरोधाभावाद्धृत्पद्मस्थत्वं विष्णोरेव सिध्यतीत्यर्थः ।

पाण्डुरङ्गि

विरोधद्वयाभावादिति ॥ प्रतिवचनविरोधसुषिरश्रुतिविरोधरूपविरोधद्वयाभावादित्यर्थः ।


अत्र यद्यपि ‘‘दहरोऽस्मिन्नन्तराकाश’’ ..

तात्पर्यचन्द्रिका

अत्र यद्यपि ‘‘दहरोऽस्मिन्नन्तराकाश’’ इति वाक्योक्ते हृत्पद्मस्थदहराकाशत्वेन चिन्ता । तस्य सिद्धान्तेऽप्यब्रह्मनिष्ठत्वात् । नापि ‘‘तस्मिन्यदन्तस्तदन्वेष्टव्य’’मिति वाक्योक्ते हृत्पद्मस्थदहराकाशस्थत्वे । तत्र भाष्योक्ताकाशशब्दाख्यपूर्वपक्षबीजाभावात् । पूर्वपक्षे दहराकाशस्थस्य सर्वाधारत्वाभावेन भाष्यटीकोक्ताम्बरान्तदृत्याक्षेपायोगाच्च । नापि हृत्पद्मस्थो दहर आकाश इति पूर्वपक्षे हृत्पद्मस्थदहरस्थं ब्रह्मेति सिद्धान्तो युक्तः । नापि सर्वाधारत्वे चिन्ता । ‘‘चन्द्राद्याधारत्वं विष्णोरुक्तम् । तच्चाकाशस्य प्रतीयत’’ इति भाष्यानुसारात् । ‘‘सचन्द्रादित्याद्याधारः किं दहराकाश आहोस्वित्तत्स्थःकश्चि’’दित्यादि तत्वप्रदीपानुसाराच्चेति वाच्यम् । ‘‘लिङ्गं हृत्पद्मस्थत्व’’मिति न्यायविवरणे ‘‘सोक्षरः सन्हृदब्जग’’ इति संक्षेपेच हृत्पद्मस्थत्वस्यैव विषयत्वोक्तेः । अत्रापि ‘‘दहरे विष्णुरेवे’’ति सिद्धान्तभाष्ये सूत्रेऽपि सप्तम्यन्तेन दहरपदेन दहराकाशस्थत्वस्यैव समन्वेतव्यत्वप्रतीतेश्च । ‘‘प्रसिद्धेश्चे’’त्यादिसूत्रे विष्णोर्दहराकाशस्थत्वस्यैवोपपादनाच्च । ‘‘चन्द्राद्याधारत्व’’मिति भाष्यं त्वक्षराधिकरणाक्षेपेणात्र पूर्वपक्ष इति दर्शयितुमिति टीकायामेव व्याख्यातम् । तत्वप्रदीपोऽपि तथैव व्याख्येयः । तथापि ‘‘यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय’’ इति वाक्योक्ते हृत्पद्मस्थत्वे चिन्ता । एवं च न कोपि दोषः । तस्य सिद्धान्ते ब्रह्ममात्रनिष्ठत्वात् । तत्र पूर्वपक्षबीजादेः सत्वाच्च ॥

प्रकाशिका

पूर्वपक्षटीकां विवरीतुकामो भाष्याद्युक्तपूर्वपक्षहेतूनामसिद्धिपरिहाराय समन्वीयमानलिङ्गस्वरूपं निर्णेतुमाक्षिपति ॥ अत्र यद्यपीति ॥ न चिन्तेति विच्छेदः ॥ पूर्वपक्ष इति ॥ भूतस्यैव सर्वाधारत्वेन पूर्वपक्षकरणादिति भावः ॥ नापि हृत्पद्मस्थ इति ॥ व्यधिकरणत्वादिति भावः । उक्तदोषपरिजिहीर्षया पक्षान्तरं सोपष्टम्भमाशङ्कते ॥ नापीति ॥ बह्वनुरोधेनैकं भाष्यवाक्यं टीकोक्तरीत्याऽन्यथा व्याख्येयमित्याह ॥ लिङ्गमिति ॥ तथैवेति ॥ पूर्वाधिकरणाक्षेपेणात्रपूर्वपक्ष इति दर्शयितुमित्येवंरूपेणेत्यर्थः । अत एवोत्तरत्र तत्वप्रदीपे ‘‘तत्स्थः कश्चिदित्यपरः पक्षः । सोऽपि जीव इति प्राप्त’’मिति हृत्पद्मगतसुषिरस्थ एव विषयो दर्शित इति भावः । त्रेधा समाधित्सुःछान्दोग्यभाष्यरीत्या तावत्समाधिमाह ॥ तथापि यावानिति ॥ तत्रेति ॥ यावानयं बाह्याकाशस्तावान् हृदये विद्यत इत्याकाशस्य हृदयस्थताश्रवणेनाकाशश्रुतिरूपपूर्वपक्षबीजस्य सिद्धान्ते तदाकाशत्वस्य ब्रह्मनिष्ठतायाश्च सत्वादित्यर्थः ।

चन्द्रिकाबिन्दुः

॥ दहर उत्तरेभ्यः ॥ विषयं शोधयितुमाह ॥ अत्र यद्यपीत्यादिना ॥ तस्येति ॥ दहरोऽस्मिन्नन्तर आकाश इति वाक्योक्तस्याकाशस्य हृदयस्थितस्य सिद्धान्तेऽप्यब्रह्मतया तद्वाक्यस्याब्रह्मनिष्ठत्वेन सिद्धान्तविरोध्यर्थस्यैव पूर्वपक्षत्वादिति भावः ॥ तत्र भाष्योक्तेति ॥ हृत्पद्मस्थाकाशस्थे तस्मिन्यदन्तस्तदन्वेष्टव्यमिति अन्वेष्टव्यतयोक्ते आकाशशब्दश्रवणेन तेन पूर्वपक्षकरणं भाष्याभिप्रेतं न स्यादित्यर्थः । वाक्यद्वयानुसारेणाशङ्कां निराकरोति ॥ नापीति ॥ पूर्वपक्षसिद्धान्तयोर्भिन्नविषयत्वेन व्यधिकरणत्वदिति भावः ॥ तस्य सिद्धान्त इति ॥ यावान्वेति वाक्ये हृदयशब्दस्य यथाश्रुतानुसारेण हृत्पद्मस्थत्वमाकाशस्यैवेति पूर्वपक्षे प्राप्ते हृदयशब्दस्य हृद्ययनादिति व्युत्पत्त्या हृदयस्थाकाशपरत्वेन तत्रस्थ आकाशो ब्रह्मेति व्यवस्थाप्यते न तदभावादिति भावः । एवं विशेषार्थविवक्षणात् । हृत्पद्मस्थत्वं विष्णोरेवेति सिद्धान्त इति भावः ॥ पूर्वपक्षबीजादेरिति ॥ आकाशश्रुत्यादेरित्यर्थः ।

पाण्डुरङ्गि

॥ तस्येति ॥ हृत्पद्मस्थदहराकाशत्वस्येत्यर्थः ॥ नापीति ॥ पूर्वपक्षस्य हृत्पद्मस्थदहराकाशत्वविषयकत्वात् सिद्धान्तस्य हृत्पद्मस्थदहराकाशस्थस्य ब्रह्मविषयकत्वेन समानविषयत्वाभावेन पूर्वपक्षसिद्धान्तभावानुपपत्तेरित्यर्थः । तत्वप्रदीपोऽपि तथैवेति ॥ अक्षराधिकरणाक्षेपार्थत्वेनैवेत्यर्थः ।