अत्र पादसङ्गतिः
दहराधिकरणम्
तात्पर्यचन्द्रिका
सन्गतिनिरूपणम्
॥ ॐ दहरउत्तरेभ्यः ॐ ॥
अत्र पादसङ्गतिः ‘‘योवेद निहितं गुहायां तस्यान्ते सुषिरं सूक्ष्मं हृदि ह्येष आत्मेत्यादिश्रुतिभिर्ब्रह्माकाशजीवसाधारणस्य हृत्पद्मस्थत्वलिङ्गस्ये’’ति टीकायामेवोक्ता । अनन्तरसङ्गतिस्तु पूर्वाधिकरणविषयवाक्ये ‘‘येनाश्रुतं श्रुतं भवत्यमतं मत’’मित्यादिनोक्तस्यान्वेष्टव्यत्वस्य वा ‘‘सदायतनाः सत्प्रतिष्ठा’’ इत्यदिनोक्तस्य सर्वाधारत्वस्य वा ‘‘सदेवसोम्येद’’मित्यादिनोक्तस्य सृष्टिहेतुत्वस्य वाऽऽक्षेपेण पूर्वपक्षोत्थानात् । अन्वेष्टव्यत्वसर्वाधारत्वयोराक्षेपः पूर्वपक्षे दर्शयिष्यते । सृष्टिहेतुत्वाक्षेपस्तु वक्ष्यमाणेन स्थितिहेतुत्वरूपाधारत्वाक्षेपेण सेत्स्यति । स्थितिहेतोरेव सृष्टिहेतुत्वात् ।
प्रकाशिका
अत्रत्यन्यायविवरणे लिङ्गं हृत्पद्मस्थितत्वं साधारणमित्युक्तम् । तट्टीकायां तु तत्कुत्र कथमित्याशङ्कायामन्यत्रास्माभिरुक्तमित्युक्तम् । तत्कुत्रेत्याकांक्षायामाह ॥ अत्रेति ॥ यो वेदेति ॥ आनन्दमयनयोक्तरीत्या ब्रह्मणि प्रसिद्धिः ॥ तस्यान्त इति ॥ नारायणोपनिषदि ‘‘पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुख’’मित्युपक्रम्य तस्य हृत्पद्मस्यान्ते सुषिरशब्दितस्याकाशस्याम्नानात्तत्र प्रसिद्धिः । न च सुषिरशब्दस्याकाशाधिकरणन्यायेन विष्णुवाचितेति वाच्यम् । ‘‘तस्याश्शिखाया मध्ये परमात्मे’’ति सुषिरमध्यगतशिखामध्यस्थत्वेन विष्णोरुक्तया सुषिरस्याकाशत्वे विवादाभावादिति भावः ॥ हृदिह्येष आत्मेति ॥ षट्प्रश्नोपनिषद्यात्मशब्दितस्य जीवस्य हृत्पद्मस्थितत्वेन निर्देशात्तत्रप्रसिद्धिरित्यर्थः वक्ष्यति च ‘‘अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदिही’’ति सूत्रकारः । यद्यपि ‘‘अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यत’’ इत्यग्नेरप्यन्तस्स्थितत्वमुच्यते । तथापि हृत्पद्मस्थत्वाश्रवणाद्वा तस्य वैश्वानरनये ब्रह्मपरत्वोक्तेर्वा न तत्साधारण्यशङ्केति भावः ॥ सङ्गतिस्त्विति ॥ आक्षेपिकीत्यर्थः ॥ येनेति ॥ येन श्रुतेन विज्ञातेनान्यत्सर्वं श्रुतमतविज्ञातफलं भवतीत्यर्थवादेन भगवति श्रवणमननादिविषयत्वरूपजिज्ञास्यत्वस्याभिप्रेतत्वादिह च ‘‘सोन्वेष्टव्य’’ इति वाक्येऽन्यस्यैव तत्प्रतीतेस्तदाक्षेप इत्यर्थः ॥ सर्वाधारत्वस्यवेति ॥ उभे अस्मिन्द्यावापृथिवी इत्यादिना श्रुतसर्वाधारत्वस्यान्यगतत्वप्रतीतेरिति भावः । अत्र सृष्टिहेतुत्वस्याप्रतीतेः कथं तस्याक्षेप इत्यत आह ॥ वक्ष्यमाणेनेति ॥ स्थितिहेतोरिति ॥ यद्यपि नायं नियमः । अन्यथापि लोके दर्शनात् । तथापि प्रकृताभिप्रायेणैतदिति ध्येयम् । ‘‘चन्द्रादित्याद्याधारत्वं विष्णोरुक्त’’मित्यक्षराधिकरणाक्षेपभाष्यं तूक्ताभिप्रायमिति भावः । एतेन यदुक्तं कल्पतरौ प्रागुदाहृतपरमपुरुषशब्दितस्य दहरवाक्यशेषगतोत्तमपुरुषवदब्रह्मत्वशङ्कायां तस्यापि ब्रह्मविषयत्वोपपादनात्सङ्गतिरिति तन्निरस्तम् । पुरुषमीक्षत इत्यस्य प्रागनुदाहरणत्वेनोक्तत्वात् । सन्निहितप्रधानान्वेष्टव्यत्वादिकमुखाक्षेपस्य सम्भवेऽन्यस्यानादरणीयत्वात् । एतेनैव पुरिशयस्य प्राक् परमात्मत्वं साधितम् । अत्र पुरिशयस्याकाशशब्दवाच्यस्यापरमात्मत्वं निरस्यत इति सङ्गतिरित्यादिश्रुतप्रकाशोक्तमपि निरस्तं बोध्यम् । आकाशस्य सिद्धान्तेऽप्यब्रह्मत्वस्य साधयिष्यमाणत्वाच्चेति ।
पाण्डुरङ्गि
॥ ॐ दहरउत्तरेभ्यः ॐ ॥ योवेदेति ॥ अत्र यो वेद निहितं गुहायामिति श्रुत्या ब्रह्मणि साधारणत्वं तस्यान्ते सुषिरं सूक्ष्ममित्याकाशे साधारणत्वं हृदिह्येष आत्मेति श्रुत्या जीवे साधारणत्वमिति सम्बन्धो बोध्यः । अन्वेष्टव्यं यद् द्यावापृथिव्यादि इति विग्रहः ।