केचित्तु
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु । पुरुषमीक्षत इत्युक्तमीक्षतिकर्म सः परमात्मैव । व्यपदेशादिति सूत्रार्थः । यद्यपीक्षतिवाक्ये परात्परत्वादीनां ‘‘यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्त’’ इति पूर्ववाक्ये तद्विदः पापालेपादीनामुत्तरवाक्ये चामृतत्वाभयत्वादीनां ब्रह्मधर्माणां स्फुटत्वेन पूर्वपक्षानुदयः । तथापि ‘‘सोऽन्तरिक्षं यजुर्भि’’रिति प्राकृतान्तरिक्षलोकसन्निधानात् ‘‘ससामाभिरुन्नीयते ब्रह्मलोक’’मित्युक्तस्य ब्रह्मलोकस्य चतुर्मुखलोकत्वशङ्कया तदुदय इत्याहुः । तन्न । ‘‘तद्धर्मोपदेशाद् भेदव्यपदेशा’’दित्यादाविव सिद्धान्तसाधकार्थविशेषघटितस्यैव व्यपदेशस्य हेतूकर्तव्यत्वात् । त्वद्रीत्यैतच्छास्त्रस्य पूर्वभागे पूर्वतन्त्र एव ‘‘आनन्तर्यमचोदने’’त्यत्र लिङ्गादिभ्यः सन्निधानदौर्बल्यस्योक्ततया पुनरिह तत्प्राबल्यशङ्कानुदयाच्च । टीकाक्षरार्थस्तु । सोमो वै राजा गन्धर्वेष्वासीदित्यादिवदिति टीकाया अयमर्थः । यथा ‘‘सोमो वै राजा गन्धर्वेष्वासीत् । तं देवाश्च ऋषयश्चाभ्यध्याय’’न्नित्यादौ सोमलताभिमानिचेतनविवक्षया गन्धर्वेष्वासीदिति व्यपदेशस्तथाऽत्रापि प्रधानाभिमानिचेतनविवक्षयेक्षितृत्वव्यपदेश इति ॥
प्रकाशिका
केचित्त्विति ॥ स इत्यनूद्य परमात्मेति व्याख्यातम् । व्यपदेशादिति ॥ ईक्षतिकर्मविषयतयोदाहृतश्लोके ‘‘एतदमृतमभयमेतद्ब्रह्मे’’त्यादिभ्यः परमात्मन एव व्यपदेशादित्यर्थः । पूर्वपक्षेऽपि दूष्यांशमात्रमनुवदति ॥ यद्यपीत्यादिना ॥ सन्निधानादिति ॥ सन्निधानेन लिङ्गानामन्यथा नयनमिति भावः । एवं हि तेषामधिकरणम् । प्रागुदाहृते वाक्य ईक्षतिकर्मणः परमात्मत्वं व्यवस्थाप्य ध्यायतेस्ततो भिन्नविषयतया पूर्वपक्षं कृत्वा एकविषयत्वेनाद्वैतिभिः सिद्धान्तः कृतः । स न युक्तः । ध्यानेक्षणयोर्हेतुहेतुमद्भावापन्नयोरकेविषयत्वावश्यम्भावादिति परमतं निरस्यैकविषयतामुपेत्य ध्यानेक्षणविषयः किं चतुर्मुखः परमात्मावेति सन्दिह्य पूर्वत्र मनुष्यलोकान्तरिक्षलोकौ क्रमेणैकमात्रद्विमात्रप्रणवोपासनाफलत्वेनोक्त्वा अनन्तरं त्रिमात्रप्रणवोपासनाफलत्वेनोच्यमानब्रह्मलोकस्थपुरुष ईक्षणकर्मभूतः पुरुषो हिरण्यगर्भ एव । मनुष्यलोकादिसान्निध्येन ब्रह्मलोकस्य हिरण्यगर्भलोकत्वमिति निश्चयात् । सन्निधानेन ब्रह्मलिङ्गानां बाधादिति प्राप्ते ईक्षतिकर्मतया निर्दिष्टपुरुषविषये ‘‘तमोङ्कारेणायनेनान्वेति विद्वा’’निति श्लोके निरुपाधिकशान्तत्वामृतत्वादिव्यपदेशात् परमात्मैवायं परमपुरुषः । एवं परमात्मत्वेऽवगते ब्रह्मलोकशब्दोपि तत्स्थानस्यैव वाचको भवति । तद्विषये ‘‘यत्कवयो वेदयन्त’’ इति श्लोके सूरिभिर्दृश्यत्ववचनं च तदेव द्रढयतीति सिद्धान्त इति ॥ उक्तं च नन्वत्रोङ्कारमात्रात्रयफलगणना रूढभूम्यन्तरिक्ष प्रत्यासत्त्या निवासस्सरसिजवसतेर्ब्रह्मलोकोऽस्तु मैवम् ।
पापोन्मुक्तेन लभ्यो ह्ययमिह कथितस्सूर्यसम्पत्तिपूर्वः
सोढव्यो मर्त्यलोके व्यवधिरिति समस्तत्समाधानमार्ग ः॥ इति ।
सूत्रार्थं तावन्निराह ॥ तद्धर्मेति ॥ ईक्षतिरूपकर्मणो व्यपदेशादित्यस्मत्सिद्धान्त इव समस्तमेवेक्षतिकर्मपदं व्याख्येयम् । न तु विभज्येति भावः । न चैवं सूत्रे धर्मिनिर्देशाभावान्न्यूनतादोषः । ‘‘अत्र सूत्रेसमन्वेतव्यविशेषानुक्ति’’स्त्वित्यादिना चन्द्रिकायामेव प्रागस्य दोषस्य समाधानादिति भावः । पूर्वपक्षानुदयेनाधिकरणशरीरं च निरस्यति ॥ त्वद्रीत्येति ॥ विंशतिलक्षणमेकं शास्त्रमिति त्वद्रीत्येत्यर्थः । तृतीयेऽध्याये ‘‘आनन्तर्यमचोदने’’त्याद्यपादीयचतुर्दशेऽधिकरणे ज्योतिष्टोमगतं ‘‘मुष्टीकरोति वाचं यच्छति दीक्षितमावेदयती’’ति वाक्यमुदाहृत्य मुष्टीकरणवाग्यमने मनःप्रणिधानद्वारा करिष्यमाणसर्वकर्माङ्गमुतानन्तरस्यदीक्षिता वेदनस्येति संशये आनन्तर्यादेकवाक्यत्वादवान्तरप्रकरणाद्वादीक्षिता वेदनमात्राङ्गमिति प्राप्ते लिङ्गप्रकरणाभ्यां सर्वार्थत्वावगमात्सन्निधानात्प्रबलेन सामर्थ्यरूपलिङ्गेन करिष्यमाणसर्वकर्माङ्गमिति सिद्धान्तितमिति सन्निधेर्दौर्बल्यं सिद्धमित्यर्थः । एतेनेदं वाक्यं ब्रह्मपरतया यत्र क्वच निर्णेयत्वादधिकरणान्तरस्य चैतन्निर्णायकस्यादर्शनादत्रैव निर्णेयमिति निरस्तम् । ब्रह्मलिङ्गादिबाहुल्येन सन्निधिबाधसम्भवेन संशयस्यैवानुदयादिति । एतेन रामानुजीयरीतिमनुसृत्य पूर्वोत्तरपक्षौ सूत्रार्थं च वर्णयतः कस्यचिच्छैवस्य मतमपि प्रत्युक्तं बोध्यम् । विषयवाक्यस्थब्रह्मात्मपुरुषादिशब्दानां तत्र तत्र भाष्यादौ पूर्वत्रास्माभिश्च विष्ण्वेकनिष्ठताया दर्शितत्वेन शिव इति सिद्धान्तस्यातितुच्छत्वादिति ॥
॥ इति सदधिकरणम् ॥ ४ ॥