०६ अद्वैतमतपरीक्षा

अत्र सूत्रे समन्वेतव्यविशेषानुक्तिस्तु ..

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अत्र सूत्रे समन्वेतव्यविशेषानुक्तिस्तु हेत्वनुसारेण समन्वेतव्यविशेष ऊह्य इति शिष्यशिक्षार्थं वा ‘‘सदेव सोम्येदमग्रे सोऽकामयत बहुस्या’’मित्यादि भिन्नसृष्टिप्रकरणस्थनानाशब्दा इह तुल्यवत्समन्वेतव्याः । न तु शब्दविशेष इति प्रदर्शनार्थं वा अल्पाक्षरे सूत्रे निर्देशानर्हानेकप्रकरणात्मकसदेवेत्यादिस्थानस्य समन्वेतव्यत्वप्रदर्शनार्थं वेति द्रष्टव्यम् । अथवा ‘‘आनन्दमयोभ्यासा’’दित्यादौ हेतुविशेषानुक्तेः समन्वेतव्यविशेषोक्तिः । अत्र त्वीक्षणरूपहेतुविशेषोक्तया तद्युक्तशब्दस्य समन्वेतव्यत्वसिद्धेस्तदनुक्तिः । यद्वा ‘‘स ईक्षांचक्रे सोऽकामयते’’त्यादौ स इत्यस्य समन्वेतव्यत्वात्स इत्यनेन ब्रह्मपरेणापि तन्त्रेणावृत्त्या वा एकदेशकीर्तनमुखेन समन्वेतव्यस्याप्युक्तिरिति । अन्येतु । ‘‘यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीते’’त्यस्मिन्वाक्येऽभिध्यातव्यत्वेनोक्तं वस्तु हिरण्यगर्भाख्यमपरं ब्रह्मैव । ‘‘ससामभिरुन्नीयते ब्रह्मलोक’’मिति तद्विदो देशपरिच्छिन्नफलोक्तेः । न हि परब्रह्मविदः फलं देशपरिच्छिन्नमिति प्राप्ते इदं वस्तु परंब्रह्मैव । ‘‘परात्परं पुरिशयं पुरुषमीक्षत’’ इत्युत्तरवाक्येऽस्यैवेक्षणकर्मत्वोक्तेः । ईक्षणं हि परमार्थसत्कर्मकम् । न च ब्रह्मणोऽन्यत्परमार्थसदस्ति । न चेक्षणीयस्य परब्रह्मत्वेऽभिध्यातव्यमपरब्रह्मेति युक्तम् । ईक्षणध्यानयोरेकविषयत्वात् । तदुक्तं भामत्याम्

ईक्षणध्यानयोरेकः कार्यकारणभूतयोः ।

अर्थ औत्सर्गिकं तत्वविषयत्वं तथेक्षतेः ॥ इति ।

निरुपाधिकब्रह्मज्ञानस्यैव चापरिच्छिन्नफलकत्वादिह च त्रिमात्रोंकाररूपोपाधिमत्त्वात्फलस्य परिच्छिन्नता युक्तेति सिद्धान्त इत्याहुः । तन्न । सूत्रे कर्मशब्दस्य भावप्रधानताया आश्रयणीयत्वात् । निरवकाशे प्रथमे च परात्परत्वे ब्रह्मलिङ्गे सति तत्त्यागेन सूत्रे चरमसावकाशेक्षतिकर्मत्वोक्तययोगाच्च । त्वन्मत ईक्षणकर्मणो मिथ्यात्वनियमेनेक्षणकर्मत्वस्य परमार्थसद्ब्रह्मत्वे हेतुत्वायोगाच्च । किं च ध्यानस्य परमार्थसद्विषयकेक्षणैकविषयत्वाय निरुपाधिकब्रह्मविषयतायाः परिच्छिन्नफलत्वाय चोंकारोपाधिकविषयतायाश्च त्वयैवोक्तत्वाद्व्याघातः । अपि च ओंकारोपाधिकध्यानफलस्य परिच्छिन्नत्वोक्तिरयुक्ता । ‘‘ॐकारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चे’’ति वाक्यशेषे तस्यापरिच्छिन्नत्वोक्तेः । किञ्च

ईक्षणस्यानुसारेण ध्यानं सद्विषयं यदि ।

तर्हि ध्यानानुसारेणास्त्वीक्षणं कल्पितार्थकम् ॥ १ ॥

त्वन्मते ‘‘योषितमग्निंध्यायीते’’ त्यादौ ध्यानस्यारोपितविषयतायाः क्लृप्तत्वात् । ‘‘य एषोंऽतरादित्ये हिरण्मयः पुरुषो दृश्यते यदा पश्यः पश्यते रुग्मवर्ण’’मित्यादावीक्षणस्याप्यतत्वविषयत्वाच्च । व्यावहारिकविषयतातु हिरण्यगर्भविषयत्वेपि युक्ता । अत्रापि परमते ईक्षतिकर्मेतिसूत्रेण जीवेशयोः कर्तृकर्मभावेन भेदोक्तेर्ब्रह्मणो दृश्यत्वोक्तेश्च परमतप्रतिकूलता व्यक्तैव ।

प्रकाशिका

॥ एकदेशेति ॥ समन्वेतव्यसदादिनानाशब्देष्वेकदेशभूततच्छब्दकीर्तनमुखेनेत्यर्थः । यद्वा समन्वेतव्यसृष्टिस्थानैकदेशभूततच्छब्दकीर्तनमुखेन स्थानरूपसमन्वयस्याप्युक्तिरित्यर्थः ॥ अन्येत्विति ॥ ‘‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारस्तस्माद्विद्वानैतेनैवायनेनैकतरमन्वेतीति प्रक्रम्य श्रूयते । यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीते’’त्यादि यथाश्रुतपरभाष्योक्तविषयवाक्यम् । पूर्वपक्षमनुवदति ॥ अभिध्यातव्यत्वेनेति ॥ ‘‘कार्यब्रह्महिरण्यगर्भ एवे’’ति कल्पतरूक्तेर्हिरण्यगर्भाख्येत्यनुवादः ॥ तद्विद इति ॥ ‘‘तस्माद्विद्वा’’नित्युक्ताभिध्यातव्यवस्तुज्ञानिन इत्यर्थः । ईक्षणध्यानयोरेकविषयत्वादिति भावः ॥ न हीति ॥ ‘‘ब्रह्मवेद ब्रह्मैव भवतीति श्रुतेः सर्वगतपरब्रह्मवेदने तद्भावापत्तौ सामभिरुन्नीयते ब्रह्मलोकमिति न देशविशेषप्राप्तिरुपपद्यत’’ इति भामत्युक्तेरिति भावः ॥ ईक्षणं हीति ॥ न च स्वप्नादौ व्यभिचारेणेक्षणस्य तत्वविषयत्वनियमाभाव इति वाच्यम् । उत्सर्गतस्तत्वविषयकत्वादिह चापवादकाभावात्सत्कर्मकमेवेत्यर्थः ॥ तदुक्तमिति ॥ यद्यप्ययमर्थो भाष्येपि व्यक्तः । तथापि तदर्थसङ्ग्राहकत्वात्संग्रहेण तद्दर्शयितुं भामत्यामित्युक्तम् । यद्वा–

कार्यब्रह्मजनप्राप्तिफलत्वादर्थभेदतः ।

दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते ॥

इति पूर्वपक्षकारिकायामर्थभेदत इत्यनेन ईक्षणध्यानयोर्भिन्नविषयत्वमुपेत्यापि भामत्यां पूर्वपक्षितत्वात्सिद्धान्ते तेनैव भामतीकृता तयोरेकविषयत्वमुक्तं प्रदर्शयितुं भामत्यामित्युक्तम् ॥ एक इति ॥ एकोर्थ इत्यन्वयः । स्वप्नादौ व्यभिचारादाह ॥ औत्सर्गिकमिति ॥ ईक्षतेरीक्षणस्य तत्वविषयत्वमौत्सर्गिकम् । न चेहापवादः कश्चिदिति भावः ।

ननु कथमत्रेक्षणध्यानयोरेकविषयत्वम् । येनेक्षणवद्ध्यानस्यापि परमार्थभूतं ब्रह्मैव विषयस्स्यात् । ध्यानस्य परमपुरुषविषयत्वात् । ईक्षणस्य परात्परपुरुषविषयत्वादिति चेन्न । ‘‘एतस्माज्जीवघनात्परात्पर’’मिति प्रकृतापेक्षैतच्छब्दसमभिव्याहारावगतैकवाक्यतानुगृहीतेन ‘‘पुरुषमभिध्यायीत पुरुषमीक्षत’’ इति पुरुषप्रत्यभिज्ञानेन तयोरेकविषयत्वावगमात् । न च परं परात्परमिति च रूपभेदानुपपत्तिः । प्रतीतैकवाक्यतानुसारेण जीवपनात्परादिति जीवघनशब्दस्य हिरण्यगर्भब्रह्मलोकान्यतरविषयत्वेन ध्यातव्यपुरुषविषयत्वाभावात् । नन्वथापि ध्यानस्योपाधिविशिष्टविषयत्वात्कथं शुद्धविषयेक्षणैकार्थत्वमिति चेन्न । ‘‘उपाधेः कल्पितत्वेन विशेष्यस्य शुद्धत्वा’’दिति तद्भाष्याद्युक्तमनुसन्धेयमिति भावः । नन्विह दर्शनस्य तत्वविषयत्वत्यागे परिच्छिन्नफलश्रवणमेव बाधकमित्यत आह ॥ निरुपाधिकेति ॥ नेदमुदाहरणं युक्तम् । सूत्राक्षरासामञ्जस्यादिदोषप्राप्तेरिति दूषयति ॥ तन्नेति ॥ विरुद्धोऽयं हेतुरित्याह ॥ त्वन्मत इति ॥ निरुपाधिकेति ॥ अन्यथापरमार्थसद्विषयेक्षणैकार्थत्वं न स्यादिति भावः । अयनेन अयनसाधनेन । अयनसाधनमोंकारं मात्रात्रयात्मकं सम्यग्ज्ञात्वेति यावत् । ‘‘पूर्वांतवत्स्वरस्सन्धा’’वित्यादेः ‘‘ध्यानानुसारेणास्त्वीक्षण’’मित्यत्र न यतिभङ्गश्शङ्कनीयः । वैपरीत्ये को हेतुरित्यत आह ॥ त्वन्मत इति ॥ ननु तत्रापि न प्रातिभासिकविषयत्वम् । किं तु व्यावहारिकविषयत्वमेवेत्यतस्तर्हीहापि तथात्वापत्त्या न सिद्धान्तोत्थितिरित्याह ॥ व्यावहारिकेति ॥ दृश्यत्वेति ॥ तेन चावेद्यत्वांगीकारादिति भावः ।

चन्द्रिकाबिन्दुः

एकदेशकीर्तनेति ॥ सच्छब्दस्यैकदेशकीर्तनं स इत्येतदिति भावः ।

पाण्डुरङ्गि

नन्वेवं सति ज्योतिश्चरणाभिधानादित्यत्रापि कर्णादिविदूरत्वरूपविशेषहेत्वनुसारेणैव समन्वेतव्यज्योतिश्शब्दलाभसम्भवेन तत्र समन्वेतव्यज्योतिश्शब्दोक्तिरयुक्तेत्यरुचेराह ॥ सदेवेत्यादि ॥ नन्वेवमानन्दमयाधिकरणेऽपि समन्वेतव्यशब्दोक्तिर्न स्यात् । तत्रापि भिन्नप्रकरणस्थानां तुल्यवत्समन्वेतव्यत्वेन शब्दविशेषस्यैवासमन्वेतव्यत्वात् । अल्पाक्षरे सूत्रे सर्वशब्दानां ग्रहणेऽल्पाक्षरत्वाभावापत्त्योपलक्षणतया शब्दविशेषोपादानासम्भवादित्यरुचेराह ॥ अथवेति ॥ नन्वेवं ज्योतिस्सूत्रे समन्वेतव्यशब्दोक्तिर्न स्यात् । विचरणरूपहेतुविशेषोक्तया तदुक्तशब्दस्य समन्वेतव्यत्वसिद्धेरित्यस्वरसादाह ॥ यद्वेति ॥ नन्वेवं स इति तच्छब्दस्य समन्वेतव्यत्वे भाष्यटीकाविरोधः । तत्र तच्छब्दस्य समन्वेतव्यत्वेनानभिधानादित्यतः सच्छब्दस्यैव समन्वयाभिधानान्न विरोध इति भावेन तर्हीक्षतिकर्मव्यपदेशात्सदिति वक्तव्यं स इति तु कथमित्याशङ्कां परिहरति ॥ एकदेशकीर्तनेति ॥ ईक्षणध्यानयोरिति संमतिश्लोकस्यायमर्थः । एकोर्थ इत्यन्वयः । ध्यानस्य हि साक्षात्कारः फलम् । साक्षात्कारश्चोत्सर्गतस्तत्वविषयः । क्वचिद्बाधकोपनिपाते समारोपितगोचरो भवेत् । न चासत्यपवादे शक्य उत्सर्गस्त्यक्तुम् । तथाचेक्षणस्य तत्वविषयत्वात्कारणस्य ध्यानस्यापि तत्वविषयत्वमिति ॥