पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु । इदं सत्प्रधानमेव । न तु ब्रह्म । ‘‘बहुस्यां प्रजायेये’’ति सति श्रुतस्य विकारस्य निर्विकारे ब्रह्मणि विरोधात् । युक्तो हि भूमगतयोरुत्क्रमणसर्वगतत्वयोरविरोधः । तयोः प्रतियोग्यनुयोगिभावाभावात् । युक्तश्चाक्षरधर्मयोर्महत्त्वाणुत्वयोरप्यविरोधः । तयोः प्रतियोग्यनुयोगिभावेपि भावरूपत्वेन भावाभावरूपत्वाभावात् । युक्तश्च तद्धर्मयोरेव स्थौल्याभावाणुत्वाभावयोरविरोधः । तयोरप्यभावरूपत्वेन भावाभावरूपत्वाभावात् । युक्तश्च तद्धर्मयोरेवात्तृत्वानशनयोरप्यविरोधः । तयोर्भावाभावरूपत्वेप्यनशनस्यात्तृत्वविशेषाभावरूपत्वेनात्तृत्वसामान्याभावरूपत्वाभावात् । विशेषाभावसामान्ययोश्चाविरोधात् । इह तु ‘‘बहुस्या’’मिति श्रुतेन विकारेण ‘‘निर्विकारः सदा शुद्धः’’ इत्यादौ श्रुतस्य विकाराभावस्याविरोधो न युक्तः । तस्य विकारसामान्याभावरूपत्वात् । सामान्याभावविशेषयोश्च विरोधात् । नह्यनशनश्रुतेरिव निर्विकारश्रुतेरपि विशेषनिषेधपरता सिद्धान्तिन इष्टा युक्तावा । चेतने विकारसामान्यस्य क्वाप्यदर्शनात् । तदुक्तं न्यायविवरणे ‘‘अन्यस्यान्यभावादृष्टि’’रिति ॥ न च नानाविधहेयात्मनाविकारो गुणः । येन ‘‘गुणाः श्रुताः सुविरुद्धाश्च देवे सन्ती’’त्यादिश्रुत्या विरुद्धोऽप्यङ्गीक्रियते । प्रत्युतानर्थत्वाद्दोष एव ।
प्रकाशिका
‘‘सत्प्रधानमेवभवे’’दित्यादि ‘‘इति भाव’’ इत्यन्तटीकां विवृण्वन् पूर्वपक्षयति ॥ पूर्वपक्षस्त्विति ॥ ननु पूर्वत्रेवात्रापि विकारतदभावयोरीश्वरे विरोधसमाधानसम्भवान्नायं हेतुः पूर्वपक्षप्रापक इत्यतः पूर्ववैषम्येणास्य निरवकाशत्वमाह ॥ युक्तोहीति ॥ प्रतियोग्यनुयोगिभावेऽपीति ॥ निरूप्यनिरूपकभावेपीत्यर्थः ॥ अत्तृत्वविशेषेति ॥ उपजीवनार्थादनरूपविशेषेत्यर्थः । पनसे चूतत्वाभाव वृक्षत्वयोरिवेति भावः ॥ विकारसामान्याभावरूपत्वादिति ॥ एतेन विकाराविकारयोः प्रतियोग्यनुयोगिरूपत्वादित्यपि सिद्धं बोध्यम् । भाष्यादावविकारे विकारासम्भव इत्येवोक्तया तदुपपादनस्यास्पष्टत्वादाह ॥ तदुक्तमिति ॥ लोके क्वचिद्विशेषसामान्याभावयोरविरोधादृष्ट्या विरुद्धत्वमित्येतदित्यर्थः । विस्तृतं चैतन्
न चेतनविकारस्स्याद्यत्र क्वापि ह्यचेतनम् ।
नाचेतनविकारोऽपि चेतनः स्यात् कदाचन ॥
न चान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।
इत्यादिचतुर्थपादीयानुव्याख्यानसुधयोः । एतेन ‘‘युक्तो ही’’त्यादिना ‘‘पूर्वाधिकरणवैषम्यप्रदर्शनेने’’त्युक्तमुपपादितं ध्येयम् । अन्यत्रादृष्टमपि श्रुतत्वादस्त्वित्यत आह ॥ न चेति ॥ श्रुतौ हि बहुस्यामिति तेजःप्रभृत्यात्मना नानाविधमहं स्यां भवेयमिति तेजःप्रभृत्यात्मना बहुभवनं सङ्कल्प्य तत्तेजोऽसृजतेति तेजोऽभवदिति तेजःप्रभृत्यात्मना भवनश्रवणात्तस्य च गुणत्वाभावादित्यर्थः ।
चन्द्रिकाबिन्दुः
पूर्वाधिकरणवैषम्यप्रदर्शनेनेत्युक्तम् । अतः पूर्वाधिकरणवैषम्यप्रदर्शनपूर्वकं पूर्वपक्षमारचयितुमाह ॥ युक्तो हीत्यादिना ॥ अनेन च तत्तदधिकरणैर्गतार्थत्वं च परिह्रीयत इति ध्येयम् ॥ प्रतियोग्यनुयोगिभावेऽपीति विरुद्धत्वे सति परस्परनिरूप्यनिरूपकभावोपेतत्वेऽपीत्यर्थः । तस्य निर्विकारत्वस्य । सामान्याभावेति ॥ निर्विकारित्वपरिणामयोरित्यर्थः ॥
पाण्डुरङ्गि
पूर्वाधिकरणवैषम्येण पूर्वपक्षमाह ॥ युक्तो हीति ॥ अयुक्तत्वमुपपादयति ॥ चेतन इति ॥ ननु गुणाः श्रुता इति श्रुतेर्विकारस्य च गुणरूपत्वान्निर्विकारेऽपि ब्रह्मणि विकारः सम्भवतीत्यत आह ॥ नचेति ॥ नानाविधहेयात्मनेति गुणत्वाभावे हेतुः ।
न च प्रधानेपि ‘‘तदैक्षते’’त्युक्तमीक्षणं विरुद्धमिति शङ्क्यम्
तात्पर्यचन्द्रिका
न च प्रधानेपि ‘‘तदैक्षते’’त्युक्तमीक्षणं विरुद्धमिति शङ्क्यम् । प्रधानस्य ज्ञानहेतुसत्त्वगुणयोगेन वा कार्योन्मुखत्वेन वाऽभिमानिन ईक्षितृत्वेन वा तस्य गौणत्वात् । युक्तं चेक्षणस्य गौणत्वम् । ‘‘तत्तेज ऐक्षत ता आप ऐक्षन्ते’’ति गौणेक्षणप्रायपाठात् । एतेनेक्षणं मुख्यं विकारस्तु गौण इति ब्रह्मैव सदस्त्विति निरस्तम् । पूर्वाधिकरणे चरमस्य द्रष्टृत्वादेर्मुख्यत्वाय प्रथमस्य भूतभवत्त्वादेर्गौणत्ववदत्रापि चरमस्य विकारस्य मुख्यत्वाय प्रथमस्येक्षणस्यैव गौणताया न्याय्यत्वाच्च । नन्वेवं प्रधानस्योपादानत्वेपि निमित्तत्वं ब्रह्मण एवेति ‘‘सतः स्रष्टृत्वमुच्यत’’ इति भाष्योक्तजन्मादिसूत्राक्षेपो न युक्त इति चेदुच्यते । सदेवेत्यवधारणेन प्रधानातिरिक्तकारणव्यवच्छेदात्सर्वाणि कारणवाक्यानि प्रधानपराणि । प्रधानस्य परिणामश्च क्षीरस्य दधिभाववच्चेतननिरपेक्षोऽभिमानिचेतनमात्रसापेक्षो वा । तथाचेश्वरस्य कारणतैव नेति वा श्रुत्यन्तरेणेश्वरस्य कारणत्वेऽपीहाद्वितीयपदसन्निधानात्प्रतीतानन्याधीनकारणता प्रधानस्यापीति वा पूर्वः पक्षः । एवं च श्रुतौ भाष्ये च स्रष्टृत्वव्यपदेशो लक्षणया कारणत्वमात्रपरः । गौण्याऽनन्याधीनकारणत्वपरो वा । प्रधानाभिमानिचेतनस्य स्रष्टृत्वपरो वा । तथाचेक्षणादेर्गौणत्वेन प्रधानस्यास्रष्टृत्वेऽपि जन्मादिसूत्रोक्तकारणत्वसामान्यस्य वाऽनन्याधीनकारणत्वस्य वा स्रष्टृत्वस्य वाऽऽक्षेपो युक्तः । अथवा यथा विवर्तमते तत्वतो निर्विकारस्यैव ब्रह्मणो तात्विकविकारस् तथा तत्वतो अचेतनस्य विकारिणश्च प्रधानस्यातात्विकमीक्षणं स्रष्टृत्वं चास्तु । एवं चेक्षणादिकमपि मुख्यमेव । न तु गौणमिति पूर्वः पक्षः । यद्वा यथा विशिष्टोपादानमते विशेष्यस्य निर्विकारत्वेपि विशिष्टस्य तात्विक एव विकारस् तथा प्रधानस्याचेतनत्वेपि स्वाभिमानिचेतनविशिष्टस्य तात्विकमेवेक्षणादीति पूर्वःपक्षः ।
प्रकाशिका
भाष्याद्युक्तो विकारासम्भवो हरावुपलक्षणम् । तदैक्षतेतीक्षणोपपत्तिश्च प्रधाने ध्येयेति भावेन शङ्कासमाधी आह ॥ न च प्रधानेपीति ॥ टीकोक्तमाह ॥ ज्ञानेति ॥ ‘‘सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव चे’’ति गीतोक्तदिशा ज्ञानहेतुसत्त्वगुणयोगेन ‘‘चक्षुःपश्यती’’तिवत्तदैक्षतेति निर्देश इत्यर्थः । ननु प्राथमिकेक्षणानुरोधेन चरमबहुभाव एव गौणो नीयतामित्यत आह ॥ युक्तमिति ॥ तेजःप्रभृतेः पूर्वपक्षे जडत्वादिति भावः । ननु प्रधानेऽभिमानिनमङ्गीकृत्येक्षणमुपपादयंस्तेजःप्रभृतेः कथमभिमानिचेतनत्वं नोपैतीति चेत्सत्यम् । एवमप्यभिमानिद्वारा गौणताया अवश्यं वाच्यत्वादिति भावः । अत एव गौणेक्षणप्रायपाठेत्येवोक्तम् ॥ एतेनेति ॥ प्रायपाठेनेत्यर्थः । न केवलं प्रायपाठेन । अपि तु पूर्वसिद्धान्तन्यायेनापीत्याह ॥ पूर्वेति ॥ नान्यदतोस्ति द्रष्ट्रित्यादिवाक्यशेषबलाददृष्टं द्रष्ट्रित्यादिना प्रतीतानन्याधीनासङ्कुचितसर्वद्रष्टृत्वादेः प्रशास्तृत्वास्थूलत्वानणुत्वादेश्च ब्रह्मण्येव मुख्यतया तदनुरोधेन ततः प्राक् श्रुतस्याक्षरस्य ब्रह्मत्वे तदेकाश्रितत्वलिङ्गेनाकाशस्य चित्प्रकृतित्वात्तदोतत्वादिनोक्तभूतभवदादेर्जडत्वे पोष्यत्वादिरूपोतत्वरूपस्यायोगेन देहद्वारा भूतत्वभवत्त्वादियुक्तचेतनपरतया भूतत्वं भवत्त्वं भविष्यत्त्वमित्येतद्गौणं तथेहापीत्यर्थः । अन्यथा तत्र भूतभवत्त्वादेर्मुख्यत्वाय भूतं च भवच्चेत्युक्तस्य जडत्वे तदाधारत्वस्य प्रधानेपि सम्भवात्सर्वाधारप्रधानाधारस्याक्षरस्य चित्प्रकृतितापत्त्या द्रष्टृत्वादिकमन्याधीनममुख्यं प्राप्नोतीति भावः । एतेन ‘‘पूर्वाधिकरणसिद्धान्तन्यायेन वा पूर्वपक्षोत्थाना’’दित्येतदुपपादितं बोध्यम् । अत्रास्थूलत्वादेरिति वक्तव्ये द्रष्टृत्वादेरिति वचनं तस्य साक्षात्सूत्रोपात्तास्थूलत्वादेरिवास्यापि सिद्धान्तसाधकतासूचनाय । उक्तं च बृहदारण्यकभाष्ये ‘‘नान्योतोस्ति द्रष्टेत्यादियुक्तिभिश्चे’’ति ।
यद्यपि पूर्वं पोष्यत्वाद्यर्थकोतत्वान्यथानुपपत्त्यैव भूतभवत्त्वादेर्गौणत्वं युक्तमिति चरमोतत्वमुख्यत्वाय प्रथमभूतभवत्त्वादेर्गौणत्ववदित्यपि वक्तुं शक्यम् । भाष्यादावनुक्तत्वं चोभयत्र समम् । तथापि द्रष्टृत्वादेर्मुख्यत्वमपि तद्गौणतायां बीजमिति दर्शयितुमेवमुक्तम् । न चास्मिन्पक्षेऽम्बरशब्दितश्रीतत्वाधारतयाऽक्षरस्य ब्रह्मत्वोक्तिविरोधः । अक्षरस्य ब्रह्मत्वनिर्णयेनाकाशस्य चित्प्रकृतिपरत्वनिर्णयेऽन्योन्याश्रयश्च स्यादिति वाच्यम् । अस्मिन्पक्षेऽम्बरान्तधृतिहेतोरविवक्षितत्वात् । द्रष्टृत्वादिनैवाक्षरस्य ब्रह्मत्वनिर्णयेऽन्योन्याश्रयाभावाच्च । अत एव पूर्वत्राद्यहेतुसमर्थनायोतत्वमुखेनैवाकाशस्य चित्प्रकृतिपरत्वमुक्तम् । केचित्तु आकाशः किं प्रधानं चित्प्रकृतिर्वेति विशये भूतभवत्त्वादेर्मुख्यत्वाय प्रधानमिति प्राप्ते स्वतन्त्रद्रष्टृत्वादेर्मुख्यत्वायाक्षरस्य ब्रह्मतया तदेकाश्रितत्वलिङ्गेनाकाशस्य श्रीतत्वपरतया तत्पोष्यत्वनिर्वाहाय भूतत्वादिकं गौणं यथेति विचारान्तराभिप्रायेणैतदित्याहुः । पूर्वतन्त्रादौ प्रथमेन चरमस्य बाधोक्तावपीह पूर्वसिद्धान्तन्यायेनात्र चरमेण पूर्वस्य बाधशङ्कनादत्र शास्त्रे चरमस्यैव प्राबल्याश्रयणाच्चरमेण पूर्वस्य बाधोक्तिरदोषायेति भावः । एवं प्रधानपक्षे ‘‘तदैक्षते’’त्यस्य गतिमुक्तवा ‘‘तत्तेजोसृजते’’त्याद्युक्तेर्गतिं विवक्षुः ‘‘नन्वेतत्स्थाने प्रधानस्य प्रतिपाद्यत्वेपी’’त्यादि टीकायां सृष्ट्युक्तिगत्युक्तिद्वारा जन्मादिसूत्राक्षेपप्रकारस्यास्फुटत्वात्तां तात्पर्यतो विवृण्वन् टीकोक्ताक्षेपमनूद्य पञ्चधा समाधिमाह ॥ नन्वेवमित्यादिना ॥ केवलजडस्य कथं परिणाम इत्यत आह ॥ प्रधानस्येति ॥ तत्रापि आतञ्चनकर्तुस्सत्वेन विवादादाह ॥ अभिमानीति ॥ तथाचेति ॥ सकलकारणवाक्यानां प्रधानपरत्वे सतीत्यर्थः ॥ प्रधानस्यापीति ॥ तथा च प्राचीनपक्षे ब्रह्मणि कारणत्वरूपलक्षणस्यासम्भवः । द्वितीयपक्षेऽतिव्याप्तिरिति भावः । एवं तर्हि श्रुतौ ‘‘असृजते’’ति भाष्ये ‘‘सतस्स्रष्टृत्वमुच्यत’’ इति स्रष्टृपदं च विरुध्यत इत्यत आह ॥ एवं चेति ॥ स्रष्टृत्वं नाम कृतिमत्कारणत्वम् । तत्र तदेकदेशः कारणत्वमात्रं लक्ष्यत इत्यर्थः ॥ गौण्येति ॥ यथास्रष्टाऽनन्याधीनस्तथाऽनन्याधीनकारणमपीत्यर्थः । पूर्वं श्रुत्यादिगतेक्षणादेरमुख्यत्वमुपेत्याक्षेपप्रकार उक्तः । इदानीं मुख्यत्वमुपेत्याह ॥ अथवा यथाविवर्तमत इति ॥ तात्विकमेवेक्षणादिकमुपेत्याह ॥ यद्वायथाविशिष्टेति ॥ प्राक्पक्षेऽतात्विकत्वमेवास्वारस्य बीजम् । अस्मिन्पक्षे च प्रागुक्तस्रष्टृत्वाक्षेपस्सुकर इति भावः ।
चन्द्रिकाबिन्दुः
एतेनेति ॥ प्रायपाठविरोधेनेक्षणस्य गौणत्वेनेत्यर्थः ॥ चरमस्येति ॥ द्रष्टृत्वानुरोधेनाक्षरं चेतनमेव । तत्र चाकाशस्यौतत्वं नाम तत्पोष्यत्वम् । तत्प्रायपाठेन भूतभव्यादीनामोतत्वादिकं पोष्यत्वमेव । तच्च पोष्यत्वं जडे न सम्भवतीति कृत्वा भूतादिपदं चेतनपरतया व्याख्यातम् । नन्वेवमित्यादिटीकास्थशङ्कासमाधानाभिप्रायं दर्शयितुमाह ॥ नन्वेवमिति ॥ यद्वा यथा पूर्वाधिकरणसिद्धान्त इति ॥ अनेन पूर्वाधिकरणसिद्धान्तन्यायेनेत्येतद्विवृतं भवति ।
पाण्डुरङ्गि
ननु ब्रह्मपक्षे विकारस्येव प्रधानपक्ष ईक्षणस्य गौणत्वादीक्षणस्य गौणत्वमङ्गीकृत्य प्रधानस्य सच्छब्दार्थत्ववद्विकारस्य गौणत्वमभ्युपेत्य ब्रह्मण एव सच्छब्दार्थत्वमिति किं नस्यात् । विशेषनियामकाभावादित्यत आह ॥ युक्तं चेति ॥ ननु तत्तेज ऐक्षतेत्यादिनेक्षणस्रष्टृत्वदेवतात्वानां श्रवणात्तेजःप्रभृतिचेतनमेव । तत्र चेक्षणं मुख्यमेवेति प्रायपाठो ब्रह्मपक्ष एव गुण इति कथम् । तद्दृष्टान्त एव विप्रतिपन्न इत्यत आह ॥ अभिमानीति ॥ अस्मिन्पक्षे प्रधानस्येक्षणं गौणं भवतीतीदमेवास्वारस्यं मनसि निधाय पक्षान्तरमाह ॥ अथवेति ॥ नन्वेवमीक्षणस्य अतात्विकत्वेऽतात्विकेक्षणप्रतिपादकस्य तदैक्षतेतीक्षणवाक्यस्याप्रामाण्यं स्यादित्यरुच्याह ॥ यद्वेति ॥