अत्रोभयत्रप्रसिद्धिः
सदधिकरणम्
तात्पर्यचन्द्रिका
संन्गतिनिरूपणम्
॥ ॐ ईक्षतिकर्मव्यपदेशात्सः ॐ ॥
अत्रोभयत्रप्रसिद्धिः ‘‘कारणत्वसाम्याद्विष्णोरचेतनप्रकृतेश्च सदेवेत्यादिसृष्टिस्थानं साधारण’’मिति न्यायविवरण एवोक्ता । तत्र यद्यपि यत्कारणत्वसामान्यं ब्रह्मप्रधानसाधारणं न तन्मात्रमिह वाक्ये भाति । ‘‘तदैक्षत तत्तेजोऽसृजते’’त्यत्र चेतनमात्रासाधारणस्रष्टृत्वरूपविशेषस्यैव ‘‘बहुस्या’’मित्यत्र च जडमात्रासाधारणोपादानत्वरूपविशेषस्यैव भानात् । तथापि यदा स्रष्टृत्वविकारयोरविरोधायान्यतरानुसारेणान्यन्नेयमिति निश्चयः । न त्वेतदनुसारेणैतन्नेयमिति विशेषनिश्चयस् तदा ‘‘सदेव सोम्येदमग्र आसी’’दित्यादिवाक्येन प्रतीतनियतपूर्वसत्त्वरूपकारणत्वमात्रनिश्चयात्तद्विशेषस्य चानिश्चयात्तस्य साधारण्यम् । एवं च भूमाधिकरणीयन्यायविवरणस्थमज्ञपदमिहापि न्यायविवरणेऽनुषञ्जनीयम् । अत एव न्यायविवरणे टीकायां च ‘‘सदेव सोम्येत्यादी’’त्युक्तम् । यद्यप्यबाध्यत्वादिवाची सच्छब्दः स्वत एवोभयत्र प्रसिद्धः । निर्दोषत्वादिवाची तु कारणत्वमुखेनापि न जडप्रकृतौ प्रसिद्धीकर्तुं शक्यः । यथाचाबाध्यत्वादि ब्रह्मप्रधानाभ्यामन्यत्राप्यस्ति तथाकारणत्वमप्यदृष्टादौ । तथापि सदेवेत्यादि वाक्य एकव्यक्तेरेव सर्वकारणता प्रतीतेरदृष्टादिव्यक्तीनां च भिन्नत्वाद्व्यक्तयैक्येन वा उपादानत्वकर्तृत्वयोरन्यतरत्वेन वा विशिष्टस्य कारणत्वस्य द्वयमात्रसाधारण्यादबाध्यत्वाद्यर्थस्य च सच्छब्दस्य सर्वसाधारण्यात्कारणत्वमुखेनैवोभयत्र प्रसिद्धिरुक्ता । यद्यपि च ‘‘आकाशादेव समुत्पद्यन्त’’ इत्यादावप्यापाततः साधारणस्य कारणत्वमात्रस्यैव धीः । तथापि सच्छब्दस्य स्वतोर्थविशेषे प्रसिद्ध्यभावेन कारणत्वपारतन्त्र्यवदाकाशशब्दस्य स्वतोऽर्थविशेषे प्रसिद्धत्वेन तत्परतन्त्रत्वस्याभावात् प्रत्युत कारणत्वस्यैव तत्परतन्त्रत्वान्नाकाशादिशब्दानां कारणत्वमुखेनोभयत्रप्रसिद्धत्वापातः ।
न च यस्य कारणत्वस्य साधारण्यात्सच्छब्दस्य साधारण्यं तस्यैव कारणत्वरूपलिङ्गस्य समन्वय उच्यताम् । सन्नामसमन्वयस्त्वर्थात् सिध्यत्विति वाच्यम् । प्रथमश्रुतस्य सच्छब्दस्यातिक्रमायोगात् । अक्षरनामसमन्वयोक्तया नाम्न एव बुद्धिस्थत्वाच्च । श्रुतिरूपप्रबलनामसमन्वयस्यार्थात् सिद्धिर्दुर्बललिङ्गसमन्वयस्य तु साक्षादुक्तिरित्यस्यान्याय्यत्वाच्च । सन्नामसमन्वयोक्तौ ‘‘सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः सता सोम्य तदा सम्पन्नो भवति सति सम्पद्य न विदुः स त आगत्य न विदु’’रित्यादीनां सच्छब्दयुक्तानां सर्वाधारत्वसुषुप्तिगम्यत्वादिगुणप्रतिपादकानामनेकेषां प्रकरणानां ब्रह्मणि समन्वयस्यार्थात् सिद्ध्या सन्नामसमन्वये फलाधिक्याच्च । अत एवानुव्याख्याने ‘‘स्थानं लिङ्गमनुग्रह’’ इति न्यायविवरणे च ‘‘सदेव सोम्येत्यादिसृष्टिस्थान’’मित्यनेकप्रकरणवाचिस्थानपदप्रयोगः ।
भाष्ये ‘‘तच्च सत् ’’इति सच्छब्दप्रयोगस्तु सच्छब्दस्य साक्षात् समन्वयोक्तयभिप्रायेण । अनुव्याख्याने पादार्थोक्तिदशायां ‘‘लिङ्गनाम्ना’’मिति लिङ्गनामग्रहणमप्यस्मिन्पादे पूर्वपादद्वय इव लिङ्गनाम्नोरेकैकस्यैव समन्वय इति नियमव्यवच्छेदार्थम् । न तु स्थानसमन्वयव्यवच्छेदार्थम् । स्थानसमन्वयस्य साक्षात्त्वव्यवच्छेदार्थं वा । एवं चाधिकरणान्तरेष्वपि तत्तदधिकरणसमन्वेतव्येन नाम्ना लिङ्गेन वा युक्तानां स्थानानां समन्वयोप्यर्थात्सिद्ध इति द्रष्टव्यमिति प्रदर्शनार्थं तच्चोक्तम् । यद्वाऽन्यत्र समन्वेतव्यशब्दयुक्तानेकावान्तरप्रकरणाभावादत्र च तत्सद्भावादिह स्थानसमन्वयोक्तिः । अथवाऽत्र सदात्मादिनानाशब्दयुक्तानां विप्रकीर्णानां ‘‘सदेव सोम्येदमग्र आसीद् आत्मावा इदमेक एवाग्र आसी’’दित्यादिसृष्टिप्रकरणानां समन्वयसिद्धेरन्यत्र तदभावादिह स्थानसमन्वयोक्तिः । सिद्धे च स्थानसमन्वये तदेकदेशयोः प्रकरणवाक्ययोरपि स कैमुत्यन्यायसिद्ध इति न ते पृथगुक्ते । समाख्यायास्तु ब्रह्मपरत्वस्यानिर्णये समाख्यात्वस्यैवायोगान् निर्णये च निर्णीतसमन्वयस्य निर्णेतव्यनामादिसमन्वयाधीनत्वायोगान्न सा पृथगुक्ता । केचित्तु अनुव्याख्यानादौ स्थानपदं सृष्टिकालेऽवस्थानवाचीत्याहुः । तस्माद्युक्ता पादसङ्गतिः । पूर्वाधिकरणवैषम्यप्रदर्शनेन वा पूर्वाधिकरणसिद्धान्तन्यायेन वांऽबरान्तधृतिरूपपूर्वहेत्वाक्षेपेण वा पूर्वपक्षोत्थानादवान्तरसङ्गतिः । त्रेधा पूर्वपक्षोत्थानं चानन्तरमेव दर्शयिष्यते । अत्र ‘‘सदेव सोम्येदमग्र आसी’’दिति श्रुतं सत् किं जडप्रकृतिः किं वा ब्रह्मेति चिन्ता । तदर्थं ‘‘तदैक्षते’’ति श्रुतं सत ईक्षणं किं गौणं किं वा मुख्यमिति ॥ तदर्थं ‘‘बहुस्या’’मित्युक्तो बहुभावः किं विकारः किं वा स्वरूपबहुत्वमिति ।
प्रकाशिका
‘‘सदेव सोम्येत्यादिसृष्टिप्रतिपादकस्थानगतसन्नाम्नो ब्रह्मप्रधानयोः कारणत्त्वसाम्येन साधारणस्ये’’त्यादिटीकोक्तेर्मूलं परिष्कर्तुमाह ॥ अत्रोभयत्र प्रसिद्धिरिति ॥ नास्माभिरपूर्वतया वाच्येत्येवकारार्थः । तत्र प्रतीतानुपपत्तिनिरासेन तत्समर्थनमात्रं कार्यमिति भावः । यद्वा नात्र टीकायां सन्नाम्न इत्युक्तेस्तत्र तु स्थानमित्युक्तेर्न मूलमूलिभाव इति शङ्क्यम् । वक्ष्यमाणदिशैकार्थ्यादिति भावेनैवकारः । न्यायविवरणटीकायां ‘‘यद्यपि निमित्तत्त्वमुपादानत्त्वं च विलक्षणम् । तथापि कारणत्त्वमात्रं विष्णोरचेतनप्रकृतेश्च समम् । महदादीनां कारणत्त्वेऽपि न सर्वकारणत्त्वम् ।कारणत्त्वं चात्र स्थाने सतः प्रतीयते । तदैक्षतेति प्रकृतौ विरुद्धमिति चेद् बहुस्यामिति विष्णोरपि साम्यमेवे’’ति ग्रन्थेन ‘‘कारणत्त्वसाम्या’’दित्येतदाक्षिप्य समाहितम् । तदस्पष्टत्त्वाद्विवरीतुं शङ्कोत्तरे आह ॥ तत्र यद्यपीति ॥ तत्र न्यायविवरणे । साधारणम् अभिमतमिति शेषः ॥ अनुषञ्जनीयमिति ॥ अज्ञानां कारणत्वसाम्यात्साधारणमित्यनुषञ्जनीयमित्यर्थः ॥ अत एवेति ॥ नियतपूर्ववृत्तित्वरूपकारणत्वस्य विवक्षितत्वादेवेत्यर्थः । ‘‘स्थानमिति स्थानेऽनुवर्तमानस्य सन्नाम्नो विवक्षितत्वात् । तथाच सङ्क्षेपे सोऽक्षरस्सन् ह्रदब्जग इति । सतस्स्रष्टृत्वमित्यादि भाष्येचे’’ति न्यायविवरणटीकादिरीत्या स्थानपदेन सन्नामग्रहणमुपेत्य शङ्कते ॥ यद्यपीति ॥
ननु नाबाध्यत्वमेव सत्त्वम् । किन्तु निर्दोषत्वाद्यपि । तच्च न स्वत उभयत्र प्रसिद्धमिति वा । अबाध्यत्वं पूर्वोत्तरकोटिद्वयादन्यत्र वियदादावपि सत्त्वाद्वा कारणत्वमुखनिरीक्षणमावश्यकमित्यतः क्रमेण द्वयमपि निराह ॥ निर्दोषत्वेति ॥ विशिष्टस्येति ॥ कारणत्वमात्रं सन्नाम्नो नोभयत्र प्रसिद्धिसम्पादकम् । किन्त्वेकव्यक्तित्वे सति करणत्वं वा उपादानत्वकर्तृत्वान्यतरत्वे सति कारणत्वं वा तथा । तादृशं च नातिप्रसक्तमित्यर्थः । नन्वेतदपि महत्तत्त्वादावतिप्रसक्तमिति चेन्न । सच्छब्दार्थे प्रतीयमानसर्वकारणत्वस्य तत्राभावात् । कारणत्वपदेनोक्तविशेषणविशिष्टस्य सर्वकारणत्वस्याभिमतत्वादिति न्यायविवरणटीकायां स्पष्टत्वादिति भावः । एतेन टीकास्थकारणत्वशब्दस्यैवमेवार्थो ध्येय इत्युक्तं भवति । अतिप्रसङ्गमाशङ्क्य निराह ॥ यद्यपि चेति ॥ आपातत इति ॥ विमर्शे सति तस्य कर्तृत्वरूपत्वात्पूर्वपक्षे चोपादानत्वरूपत्वादिति भावः । न्यायविवरणटीकायां च सदेवेति वाक्योपादानस्य कृत्यान्तरं शङ्कापूर्वं व्यनक्ति ॥ न चेत्यादिना ॥ अर्थात्सिध्येति ॥ एतेन न्यायविवरणेऽनेकप्रकरणजातरूपस्थानोक्तिरार्थिकाभिप्राया । भाष्याद्युक्तसन्नामानुरोधादित्युक्तं भवति । अत एवेति ॥ उक्तदिशा स्थानसमन्वयस्याप्यभिमतत्वादेवेत्यर्थः ।
ननु स्थानसमन्वयस्यार्थिकत्वे तन्न वक्तव्यं स्यात् । साक्षादन्वीयमानस्यैव वाच्यत्वादित्यतस्तदुक्तेः प्रयोजनमाह ॥ एवं चेति ॥ तच्चेति अर्थात्समन्वीयमानं स्थानमपीत्यर्थः । अत्रैवैतस्य वचने कोहेतुरित्यतः पक्षान्तरमाह ॥ यद्वेति ॥ पादान्त्यप्राणनयविषयवाक्ये प्राणशब्दयुक्तानेकावान्तरप्रकरणमस्तीत्यतः पक्षान्तरमाह ॥ अथवेति ॥ नन्वर्थात्समन्वीयमानस्याप्युक्तौ वाक्यप्रकरणसमाख्यानामप्युपादानप्रसङ्ग इत्यत आह ॥ सिद्धेचेति ॥ स इति ॥ समन्वय इत्यर्थः । ‘‘सदेव सोम्येत्यादिना प्रतिपादितं सृष्ट्यर्थं प्रलये प्रथममवस्थानमित्येके वर्णयन्ति । एवं तर्हि विषयमालायां लिङ्गमित्येव वक्तव्यम् । सत्यम् । विशेषतस्तदेव प्रदर्शितमित्यदोष’’ इति न्यायविवरणटीकोक्तं पक्षान्तरमाह ॥ केचित्त्विति ॥ अत एव ‘‘तत्रान्यत्रप्रसिद्धानां लिङ्गानाम्नां पुनर्हरि’’रित्यनुव्याख्याने लिङ्गेत्येवोक्तिरिति भावः । एवमन्तर्भावसङ्गतिपरटीकायामुपपादनसापेक्षपादान्तर्भावांशं समर्थ्येदानीं ‘‘जन्माद्यस्य यत’’ इत्यादिटीका फलपरेति भावेन पूर्वानन्तर्ये सङ्गतित्रयमाह ॥ पूर्वेति ॥ प्रत्युदाहरणरूपावाऽपवादरूपावाऽऽक्षेपिकीवेत्यर्थः । एतेन
अम्बरावधिकाधारात् प्रणवः पर्युदासितः ।
तद्ध्येयमपरं किं वा परमित्यत्र चिन्त्यते ॥
इति बुद्धिसङ्गति’’रिति कल्पतरूक्तं निरस्तम् । पूर्वत्र द्रष्टृत्वाद्ययोगेन वर्णपक्षस्य प्रत्याख्याततया बुद्धिसन्निध्यभावाद् भामत्यादौ वर्णमात्रस्यैव पर्युदस्तत्वेन विशिष्य प्रणवपर्युदासाभावाच्च । परात्परत्वरूपलिङ्गत्यागेन सूत्र ईक्षतिकर्मत्वोक्तया ‘‘त्रिमात्रेणोमित्यनेने’’त्युदाहरणस्य सूत्राननुगुणतयाऽन्यस्यैवात्र विषयत्वाच्चेति । ‘‘तत्सदत्र विषय’’ इत्यादिविषयसंशयटीकां व्यनक्ति ॥ अत्रेति ॥ छान्दोग्ये षष्ठेऽध्याये ‘‘सदेवसोम्येदमग्र आसीदेकमेवाद्वितीय’’मित्युपक्रम्य ‘‘तदैक्षत बहुस्यां प्रजायेयेति । तत्तेऽजोसृजते’’त्यादि श्रूयते । तत्रत्यसच्छब्दो विषय इत्यर्थः । यदि विकारस्तदा बहुभावाद्बाधकादीक्षणं गौणमिति जडप्रकृतिरिति सिध्यति । अन्यथातु विष्णुरिति स्पष्टमिति भावः ।
चन्द्रिकाबिन्दुः
तदा सदेवेति ॥ वाक्यस्य विशेषे पर्यवसानकारणीभूतस्य विशेषनिश्चयस्याभावादिति भावः । अन्यतरवाक्यानुसारेणान्यतरवाक्यस्यानिश्चय इत्येतन् न्यायविवरणरीत्या सम्पादयितुमाह ॥ एवं चेति ॥ ननु अबाध्यत्वस्य पूर्वपक्षसिद्धसिद्धान्त्यभिमतकोटिद्वयादन्यत्रापि सत्त्वेऽपि उभयमात्रसाधारणकारणत्वमुखेनोभयत्रप्रसिद्धत्वं सच्छब्दस्योच्यत इत्यत आह ॥ यथा चाबाध्यत्वादीति ॥ तथापीति ॥ एकव्यक्तिमात्रत्वसमानाधिकरणकारणत्वस्य वा ब्रह्मप्रधानमात्रसाधारणत्वमिति भावः ॥ कारणत्वमुखेनेति ॥ तथा च न भाष्यकारादीनामचातुर्यमिति भावः ॥ तथापीति ॥ आकाशशब्दस्य स्वत एवान्यत्रप्रसिद्धेर्बलवत्यास्सत्त्वेन तदनुसारेण कारणत्वमप्यत्र नीयते । नैवं सच्छब्दो ऽन्यत्रप्रसिद्धः । अतः कारणत्वं मुख्यमपेक्षते । कारणत्वं च साधारणमेवेति भावः । प्रयोजनवशाच्च सन्नाम्न एव समन्वयः कथित इत्याह ॥ सन्नामसमन्वयोक्तविति ॥ साक्षात् समन्वयोक्तयभिप्रायेणेति ॥ फलतस्तु स्थानसमन्वयोऽप्यभिप्रेत इति भावः । तर्हि अनुव्याख्याने एतत्पादार्थकथनसमये लिङ्गनाम्नामिति स्थानव्यवच्छेदार्थमुक्तिः कथमित्यत आह ॥ अनुव्याख्यान इति ॥ प्रदर्शनार्थमन्यत्रापि तत्तच्छब्दयुक्तस्थानसमन्वयः प्रतिपाद्यत इति सूचनार्थम् । अत्रैव स्थानशब्दग्रहणे निमित्तं सूचयन् पक्षान्तरमाह ॥ यद्वेति ॥ प्रकरणवाक्यसमाख्यानानामपि समन्वयसिद्धेः स्थानमित्येव कथमुक्तमित्यत आह ॥ सिद्धे चेत्यादि ॥
पाण्डुरङ्गि
ननु न्यायविवरणादौ सच्छब्दस्य कारणत्वमुखेनोभयत्रप्रसिद्धिव्युत्पादनं व्यर्थम् । अबाध्यत्ववाचिसच्छब्दस्य कारणत्वमुखनिरपेक्षस्यैवोभयत्र प्रसिद्धत्वादित्याशङ्कते ॥ यद्यपीति ॥ ननु नात्राबाध्यत्वं सच्छब्दप्रवृत्तिनिमित्तम् । किं तु निर्दोषत्वमेव । तस्य स्वत एवोभयत्र प्रसिद्ध्यभावात् कारणत्वमुखेनोभयत्र प्रसिद्धिव्युत्पादनं सार्थकमित्यत आह ॥ निर्दोषत्ववाचीति ॥ अन्यत्राप्यस्तीति ॥ तथा च संशयकोटिद्वयमात्रसाधारण्याभावान्न तेन रूपेणोभयत्र प्रसिद्धतेति भावः । ननु कारणत्वमुखेन सच्छब्दस्योभयत्र प्रसिद्धत्वे ‘‘इति होवाचे’’ति वाक्योक्तकारणत्वस्यापि प्रसिद्धाकाशब्रह्मसाधारण्यादाकाशशब्दस्योभयत्र प्रसिद्धत्वापत्त्याऽन्यत्रप्रसिद्धसमन्वयप्रतिपादकपादे निवेशो न स्यादित्यत आह ॥ यद्यपीति ॥ नन्वेवमीक्षतिकर्मेत्यत्र स्थानसमन्वयप्रतिपादकत्वे भाष्ये सच्छब्दोक्तिरयुक्तेत्यत आह ॥ भाष्य इति ॥ ननु तथाप्यत्र स्थानसमन्वयो वक्तुं न शक्यते । अनुव्याख्यान एतत्पादार्थोक्तिदशायां लिङ्गनाम्नां समन्वयस्य प्रतिज्ञातत्वेन स्थानसमन्वयस्य व्यवच्छेदितत्वादित्यत आह ॥ अनुव्याख्यान इति ॥ ननु लिङ्गनाम्नामित्यनेन केवलनाम्नः केवललिङ्गस्य च समन्वयव्यवच्छेदवत् स्थानसमन्वयव्यवच्छेदोपि विवक्षितुं शक्य एव । अन्यथा नामलिङ्गादावपि सङ्कोचः स्यादित्यरुचेराह ॥ स्थानसमन्वयस्येति ॥ ननु ज्योतिरादौ ज्योतिरादिशब्देन तत्सूक्तानां तत्प्रकरणानां च ब्रह्मपरत्वस्य साधितत्वात्कथमन्यत्रलिङ्गनाम्नोरेकैकस्यैव समन्वय इत्युच्यत इत्यत आह ॥ एवं चेति ॥ ननु प्रथमातिक्रमे कारणाभावाज् ज्योतिरधिकरण एव वक्तव्यमेतदित्यरुच्याऽऽह ॥ यद्वेति ॥ आहुरित्यस्वरसोद्भावनम् । तद्बीजं तु सृष्टिकालेऽवस्थानस्यमदृष्टप्रकृत्यादिसाधारणत्वात् । अस्मदुक्तरीत्या साक्षात् स्थानसमन्वयस्यैव सम्भवेन स्थानपदस्यार्थांतरपरिकल्पनस्यायुक्तत्वाच्चेति ।