एतेन यत्केचिज्जडं प्रधानमेवाक्षरमिति पूर्वपक्षयंति तदपि निरस्तम्
अधिकरणोपसंहारः
तात्पर्यचन्द्रिका
एतेन यत्केचिज्जडं प्रधानमेवाक्षरमिति पूर्वपक्षयंति तदपि निरस्तम् । जडस्य शास्तृत्वद्रष्टृत्वादेरयोगेन पूर्वपक्षानुदयात् । यच्च श्रुतावाकाशशब्दः प्रधानपर इत्युपेत्य सूत्रेंऽबरशब्दो भूताकाशपरः । तथाचांबरस्य अन्तो ऽवधिः कारणमिति अंबरान्तपदं प्रधानपरमित्युक्तम् । तन्न । सूत्रे श्रुत्यनुसारित्वस्यैव न्याय्यत्वात् । अन्तपदन्तु अम्बरम् अन्तो यस्येति व्युत्पत्त्या पृथिव्यादिपरं सत् तस्यापि प्रकृतिद्वारा ब्रह्मैवाश्रय इति सूचयितुम् । तथाच ‘‘पृथिव्यादिप्रकृत्यन्त’’मिति स्मृतिरपि सूत्रेणानुसृता भवति ।
टीकाक्षरार्थस्तु ॥ सोमं राजानं जुह्वति । तं देवा भक्षयन्तीत्यादिवदिति ॥ यथा ‘‘सोमं राजान’’मित्यादौ हूयमानभक्ष्यमाणसोमलताभिमानित्वाच्चन्द्रे हूयमानत्वादिव्यपदेशस् तथाऽत्रापि सोममभिषुणोतीति वाक्यविहिताभिषवयुक्तसोमलताभिमानित्वाच्चन्द्रेऽभिषूयमाणत्वव्यपदेश इत्यर्थः । ‘‘एकोदेवो बहुधा निविष्टः’’ इत्यस्य शेषभूतं वाक्यं ‘‘यदाभारं तंद्रयते सभर्तुम् । निधायभारं पुनरस्तमेती’’ति । तस्यार्थमाह ॥ सच यदा तं भारं भर्तुं नेच्छतीति ॥ ‘‘यस्मिन्निदं संचविचैतिसर्व’’मिति श्रुतौ यच्छब्दस्य ‘‘यतः प्रसूते’’त्यादि यच्छब्दवत् ‘‘तदेव ब्रह्म परमं कवीनां’’ इत्युत्तरवाक्यस्थेन तच्छब्देनान्वय इत्याह ॥ तदेव ब्रह्मेत्यर्थ इति ॥ श्रुतावेधीत्यस्यावर्धतेत्यर्थः । मध्यम इत्याद्युक्तमिति ॥ श्रुतौ मध्यमादिशब्दः स्थौल्यादेरप्युपलक्षक इत्यर्थः ॥ तमोवाय्वादीनां सर्वात्मनेति ॥ ‘‘अदुःखमसुख’’ मित्यादौ यथाऽसुखमित्यनेन बाह्यसुखनिषेधेऽप्यदुःखमित्यनेन दुःखमात्रनिषेधस् तथाऽत्राप्यस्थूलमित्यादौ प्राकृतस्थौल्यादिनिषेधेऽप्यतमोऽवाय्वित्यादौ सर्वात्मना तमआदेर्निषेध इत्यर्थः ॥
प्रकाशिका
॥ एतेनेति ॥ अस्थूलमनण्वित्यादिनोक्तमक्षरं प्रधानजीवान्यतरदुत ब्रह्मेति संशये अक्षरशब्दस्य वर्णेषु रूढिसम्भवेऽपि ‘‘अह्नस्वमदीर्घ’’मित्यादिनिषेधायोगेन वर्णानां शङ्कानर्हत्वात् । प्रधानस्य च सर्वविकारास्पदत्वेनाकाशपृथिव्यादिधारणसम्भवात्प्रधानं वा चित एवाचिद्वस्त्वाधारत्वसम्भवाज्जीवो वेति प्राप्ते न तावत्प्रधानम् । त्रिकालवर्तिसकलवस्त्वाधारतयोच्यमानस्य भूताकाशत्वायोगेनाव्याकृतापरनामकप्रधानपरत्वात् ‘‘अक्षरे गार्ग्याकाश ओत’’ इत्युक्तप्रधानाधारत्वस्य प्रधानेऽनुपपत्तेः । नापि जीवः । द्वितीयसूत्रोक्तस्याप्रतिहताज्ञापरनामकस्य प्रशासनस्य जीवेऽनुपपत्तेः । अन्यभावस्य परमात्मनोऽन्यत्वस्यादृष्टं द्रष्ट्रित्यादिनाऽक्षरस्य व्यावृत्तेश्च परमात्मैवाक्षरमिति सिद्धान्तः । तत्र दूष्यांशमनुवदति ॥ जडमिति ॥ एवकारः परोक्तवर्णमात्रव्यावर्तकः । एतेनेत्युक्तमेवाह ॥ जडस्येति ॥ सूत्रार्थं च प्रत्याह ॥ यच्चेति ॥ श्रुत्यनुसारित्वस्येति ॥ श्रुताविव सूत्रेप्यंबरशब्दस्यैव प्रधानपरत्वं वाच्यमित्यन्तपदं व्यर्थमित्यर्थः । आकाशस्य चित्प्रकृतित्वपक्षेप्येष दोषस्तुल्य इत्यत आह ॥ अन्तपदं त्विति ॥ तस्यापि पृथिव्यादेरपि । स्मृतिरिति ॥
पृथिव्यादिप्रकृत्यन्तं भूतं भव्यं भवच्च यत् ।
विष्णुरेको बिभर्तीदं नान्यस्तस्मात् क्षमो धृतौ ॥
इति स्कान्दस्मृतिरित्यर्थः । एतेनाक्षरं प्रणवजीवान्यतरदिति प्राप्तेऽम्बरान्तधृत्यादेश्शिवधर्मत्वाच्छिव एवेति कस्यचित्प्रलपनं प्रत्युक्तम् । द्रष्टृत्वादेरयोगेन पूर्वपक्षानुदयात् । भाष्योक्तश्रुत्यादिनाऽम्बरान्तधृत्यादेर्विष्ण्वेकनिष्ठत्वेन शिव इति सिद्धान्तानुदयाच्चेति । टीकायां दुर्गमानि कानिचिद्वाक्यानि व्यनक्ति ॥ टीकेति ॥ भाष्ये शेषस्यानुदाहृतत्वात् ‘‘स च यदेत्यादिः’’कस्यार्थ इत्यज्ञानादाह ॥ एकोदेव इति ॥ भाष्येऽनुक्तमपि तदेव ब्रह्मेति कस्मादुच्यत इत्यत आह ॥ यस्मिन्निति ॥ टीकायामनुक्तेरेधीत्यस्यासभुवीत्यस्य रूपत्वाद्भवेत्यर्थत्वेऽन्वयायोगादाह ॥ श्रुताविति ॥ एधवृद्धावित्यस्य रूपमिति भावः ॥ श्रुतौ मध्यमादिशब्द इति ॥ ‘‘अस्थूलोऽनणुरमध्यमो मध्यम’’ इति श्रुतावित्यर्थः ॥
चन्द्रिकाबिन्दुः
सूत्र इति ॥ श्रुतिस्थाकाशशब्दस्य प्रधानपरत्वेन तत्पर्याय प्रक्षेपपूर्वकम् अक्षरमम्बरधृतेरित्येव वदेदिति भावः ॥ सोमं राजानमिति ॥ यद्यपि सोमं राजानमिति पदं सोमराजप्राप्तपुरुषे लक्षणया प्रवर्तते । तस्यैव पुरुषस्यान्यत्राहुतौ होम्यत्वं चोच्यत इत्यन्यत्र व्याख्यातत्वान्नेदमुदाहरणमुचितम् । तथापि लक्षणायाः प्रातीतिकार्थप्रतीत्यनन्तरभावित्वात् । आदौ सोमराजस्यैव होम्यत्वभक्ष्यत्वप्रतीतिर्भवति । तदपि प्रायेणोदाहरणम् । तत्र च अभिमन्यमानद्वारा सोमराजे होम्यत्वादिप्रतीतौ सत्याम् अनन्तरं प्रकरणपर्यालोचनया सोमराजपदस्य चन्द्रलोकगतजीवपरत्वमङ्गीक्रियत इति स्वामिन आहुः ॥ अतमोऽवाय्वित्यादाविति ॥ वायुशब्दो भूतवायुपरः न तु प्राणपरः । तस्य परमात्मन्यङ्गीकृतत्वेन चिदानन्दात्मकपरमात्माभिन्नप्राणाद्वायुरजायतेत्यादिश्रुतिसिद्धस्य निषेधायोगादिति सम्प्रदायः ।
पाण्डुरङ्गि
सोमं राजानं जुह्वतीत्यादेः प्रातीतिकार्थमभ्युपेत्य व्याचष्टे ॥ यथेति ॥ यद्यपीदं वाक्यं चन्द्रलोकगतकर्म जीवपरम् । तथापि कर्मजीवस्य सोमे प्रवेशानङ्गीकारादधिष्ठानत्वेन चन्द्रस्यापि विवक्षितत्वादियमुक्तिरिति ध्येयम् । टीकायामेधीत्यस्याव्याख्यातत्वात्स्वयं व्याख्याति ॥ श्रुताविति ॥
॥ इति अक्षराधिकरणम् ॥ ३ ॥