अन्ये तु
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु । वर्णा एवाक्षरम् । अक्षरशब्दस्य तत्र रूढेः । न च वर्णेष्वाकाशस्योतत्वाद्ययोगः । सर्वस्यापि रूपधेयस्य गौरयं वृक्षोऽयमिति नामधेयानुविद्धतया भानात् । तथा च वर्णमात्रमेवाक्षरमिति पूर्वः पक्षः । भाष्ये ‘‘ॐकारोक्षर’’ मित्युक्तिस्त्वोंकारस्य सर्ववर्णात्मकत्वश्रुतेः । सिद्धान्तस्तु पृथिव्यादेर्भूताकाशान्तस्य विकारजातस्य धारणान् न क्षरतीत्यादिव्युत्पत्तिसम्भवाच्च निर्विशेषं ब्रह्मैवाक्षरमित्याहुः । तन्न । गौरित्यादौ गोत्वादिजातिसम्भेदस्य गोशब्दादिवाच्यत्वस्य वा भानेऽपि ‘‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चे’’त्यादिश्रुत्युक्तस्याकाशाश्रयत्वस्याभानेन वर्णेषु द्रष्टृत्वादेरसम्भवेन च पूर्वपक्षानुदयात् । उत्तराधिकरणे तु यथेक्षितृत्वश्रवणेऽपि जडप्रकृतेः प्राप्तिस्तथा तत्रैव वक्ष्यते । किं चैवं पूर्वपक्षे पृथिव्यादेर्नामानुविद्धताया आकाशव्यवहितत्वाभावेन श्रुतौ मध्य आकाशोक्तिर्व्यर्था स्यात् ।
प्रकाशिका
॥ अन्येत्विति ॥ भामत्युक्तमनुवदति ॥ वर्णाएवाक्षरमिति ॥ रूढेरिति ॥ ‘‘अक्षरसमाम्नाय’’ इत्यादौ प्रसिद्धत्वात् । ब्रह्मणि त्ववयवप्रसिद्ध्या यौगिकः । अवयवप्रसिद्धेश्च समुदायप्रसिद्धिरूपरूढिर्बलीयसीति भावः ॥ रूपधेयस्येति ॥ रूप्यते निरूप्यते इत्यभिधेयमिति कल्पतरूक्तयाऽभिधेयवाचिरूपशब्दात् ‘‘भागरूपनामभ्योधेय’’ इति स्वार्थे धेयप्रत्ययः । वाच्यार्थस्येत्यर्थः ॥ अनुविद्धतयेति ॥ तादात्म्येनेत्यर्थः । ननु परभाष्ये ‘‘ॐकार एवेदं सर्वमित्यादौ च श्रुत्यन्तरे वर्णस्याप्युपास्यत्वसर्वात्मत्वावधारणा’’दित्युक्तयोंकाररूपवर्ण एवाक्षरमिति प्रतीतेर्वर्णमात्रमेवेति कथमुच्यत इत्यतो ‘‘नामानि चोंकारात्मकानि । तद्व्याप्तत्वा’’दित्यादिना भामत्युक्तमेवाशयमाह ॥ भाष्य इति ॥ ‘‘तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णानि । एवमोङ्कारेण सर्वा वा’’गिति श्रुतेरित्यर्थः । तथाच ‘‘ॐकार एवेदं सर्व’’मिति श्रुत्यन्तर ॐकारस्य सर्वात्मकत्वश्रवणात् ‘‘ॐकारेणैवे’’ति श्रुत्या सर्ववर्णात्मकत्वाद् इह च श्रुतौ पृथिव्याद्यम्बरान्तसर्वतादात्म्येनोतप्रोतपदाभ्यां श्रुतमक्षरं वर्णा एवेति अक्षरे विषयवाक्यश्रुतसर्वात्मकत्वं वर्णेषूपपादयितुं वर्णानां सर्वात्मकत्वे स्पष्टश्रुतेरभावादोङ्कारस्य सर्ववर्णात्मकत्वं श्रुत्यन्तरसिद्धं हृदि सिद्धवत्कृत्योङ्कारस्य सर्वात्मकत्वे ‘‘ॐकार एवेदं सर्व’’मिति भाष्ये श्रुतिरुक्ता । नत्वत्रोंकार एवाक्षरमित्युपेत्येति भावः ॥
विकारजातस्येति ॥ सर्वस्य ब्रह्मविकारत्वाद्ब्रह्मण्येवाकाशादेरोतत्वं युक्तम् । न तु वर्णेषु । न च नामधेयात्मकं रूपधेयमित्युक्तत्वाद्वर्णेष्वपि तद्युक्तमिति वाच्यम् । स्वरूपभेदादुपायभेदादर्थक्रियाभेदाच्च तयोर्भेदात् । तथाहि । शब्दत्वसामान्यात्मकानि श्रोत्रग्राह्याण्यर्थप्रत्ययार्थक्रियाणि नामधेयानि । रूपधेयानि तु घटादीनि घटत्वसामान्यात्मकानि चक्षुरादीन्द्रियग्राह्याणि जलाधारप्रावरणाद्यर्थक्रियाणीति तयोर्भेदाद्वर्णेष्वाकाशादेरोतत्वाद्ययोगाद्ब्रह्मैवाक्षरमित्याहुरित्यर्थः । जातिसम्भेदस्य जातितादात्म्यस्येत्यर्थः । नन्वत्राप्योतप्रोतपदाभ्यां पृथिव्याद्यम्बरान्तसर्वात्मकत्वमेवोच्यते । न तु तदाश्रयत्वमिति चेन्न । सूत्रे धृतेरिति धृतिपदायोगात् । ‘‘पृथिव्यादेराकाशान्तस्य धारणा’’दिति त्वदीयभाष्याद्युक्तययोगाच्च । न चात्राक्षरस्य सर्वात्मकत्वं भ्रान्त्वाऽक्षरस्य वर्णत्वं शङ्क्यत इति युक्तम् । तथात्वे गौरयं वृक्षोयमित्यादौ रूपधेयस्य नामधेयसम्भेदेन भानेऽपीह सर्वाधारत्वमेवोच्यते । नत्वम्बरान्तसम्भेदोऽक्षरस्योच्यते । येन नामरूपसम्भेदोपपादनं सङ्गच्छेतेत्येव समाधिर्वाच्यः । न तु नामरूपभेदसमर्थनेन समाधिर्वाच्यः । एतेन भाष्ये ॐकार एवेदं सर्वमिति सर्ववर्णात्मकतया श्रुत्यन्तरसिद्धोङ्कारस्य सर्वात्मकत्वोक्तिरपि व्यधिकरणा । विषयवाक्येऽक्षरस्य सर्वाभेदाश्रवणादित्युक्तं भवति । नन्वत्र द्रष्टृत्वादिना वर्णानामक्षरत्वशङ्कानुपपत्तावुत्तराधिकरणे तदैक्षतेतीक्षणश्रवणेऽपि कथं प्रधानमिति पूर्वपक्ष इत्यत आह ॥ उत्तरेति ॥ अन्तर्याम्यधिकरणे द्रष्टृत्वादिश्रवणेऽपि प्रधानमिति पूर्वपक्षकरणमनेन न विरुध्यत इत्येतत्तत्रैवोक्तमस्माभिः । अक्षरस्य वर्णत्वेन पूर्वपक्षे दोषान्तरमाह ॥ किं चैवमिति ॥ गौरयं वृक्षोयमित्यादौ नाम्नो रूपात्मना भानेनात्राक्षरशब्दितेषु यद्भूतमित्यादिना सर्वात्मकत्वकथनं यद्यभिमतं तदा ‘‘ॐकार एवेदं सर्व’’मिति श्रुताविव ‘‘यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते तदक्षर ओतं च प्रोतं चे’’त्येव साक्षात्सर्वसम्भेदोऽक्षरेऽभिधीयेत । मध्ये आकाशप्रणाड्या तदभिधानं व्यर्थमिति श्रुतहानिस्स्यादित्यर्थः । व्यर्थेत्युपलक्षणम् । वक्ष्यमाणदिशा भूतभवद्भविष्यदाद्योतत्वस्यानित्याकाशेऽनुपपत्त्या विरुद्धार्थाच स्यादित्यपि ध्येयम् ॥
चन्द्रिकाबिन्दुः
आकाशस्य सर्ववर्णाश्रयत्वं नास्तीत्याह ॥ गौरित्यादावित्यादिना ॥ वक्ष्यत इति ॥ जडेऽपि गौणमीक्षणमस्तीति वक्ष्यते । न च वर्णेष्वपि गौणं द्रष्टृत्वमस्त्विति वाच्यम् । तत्र बहुभवनवद् अत्र तथा कल्पकाभावादिति भावः ।
पाण्डुरङ्गि
अन्येत्विति ॥ अत्र रूप्यत इति रूपमभिधेयम् । स्वार्थे धेयप्रत्यय इति बोध्यम् । अत्र वर्णा एवेत्यनेन न प्रधानजीवयोर्व्यावृत्तिः । किन्तु भाष्य ॐकारमात्रोक्तेस्तस्यैव व्यवच्छेद इति ध्येयम् । रूपधेयस्य रूपात्मकप्रपञ्चस्येत्यर्थः । तर्हि भाष्य ॐकारमात्रस्य पूर्वपक्षनिविष्टत्वोक्तिः कथमित्यत आह ॥ भाष्य इति ॥ तन्नेति ॥ अक्षरत्रयमीरितमित्यादौ यथाऽक्षरशब्दवाच्यत्वं वाऽक्षरत्वजात्याधारत्वं प्रतीयते तथा गौरित्यत्रापीत्यर्थः । जातिसम्भेदः जातिसम्बन्धः ।