सिद्धान्तस्तु
सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु । अक्षरं ब्रह्मैव । चतुर्विधविनाशरहिते तत्रैवाक्षर शब्दप्रवृत्तिनिमित्तपौष्कल्यात् । ‘‘तस्मादक्षरमित्याचक्षत एतमेव सन्तम् । अक्षरं ब्रह्म परम’’मित्यादिश्रुतिस्मृतिषु तस्य तत्र प्रयोगाच्च । अत एव तत्रोत्तमाक्षरत्वप्रसिद्धिः । किं चेहाकाशं ‘‘यद्भूत’’मित्यादिना ‘‘आकाश एव तदोतं च प्रोतं चे’’त्यन्तेन सर्वचेतनपोषकतया ‘‘एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे’’त्यनेनान्याश्रितत्वेन चोच्यते । न च तच्चित्प्रकृतितोऽन्यत्र युक्तम् । न चात्रोतत्वादिकमुपादेयत्वमाधेयत्वं वा न तु पोष्यत्वम् । तच्च सर्वस्य जडप्रकृतिं प्रति सम्भवतीति शङ्क्यम् । ‘‘एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्चे’’त्याकाशाश्रयत्वेनोच्यमानाक्षरस्य द्रष्टृत्वादिना चेतनत्वेनोपादानत्वायोगात् । ‘‘कस्मिन्नु खल्विन्द्रलोका ओताश्चप्रोताश्चेति प्रजापतिलोकेषु गार्गी’’त्यादावाधेयत्वस्याप्यभावाच्च । न ह्यधस्तन इन्द्रलोक उपरितने प्रजापतिलोक आहितः । एकप्रकरणस्थस्योतादिशब्दस्य नानार्थत्वं चायुक्तम् । तस्मात् ‘‘रुद्रं समाश्रिता देवाः, राज्ञि राज्यं समाहित’’मित्यादाविव पोष्यत्वादिकमेवोतत्वम् । न चाचेतनस्य पोष्यत्वं युक्तमिति भूतादिपदमपि देहद्वारा भूतत्वादियुक्तचेतनपरमेवेत्याकाशं चित्प्रकृतिरेव । ततश्च तदाश्रयोऽक्षरं ब्रह्मैव । न चित्प्रकृतिः । स्वाश्रयत्वस्य विरुद्धत्वात् । तदुक्तं न्यायविवरणे ‘‘सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्ध’’मिति ॥ उक्तं च बृहदारण्यकभाष्ये–
दीप्तेराकाशशब्दोक्ता श्रीर्हि सर्वाश्रया मता ।
तदाश्रयः परो विष्णुः सोऽस्थूलादिगुणो मतः ॥ इति ।
एवं च ‘‘मयि सर्वमिदं प्रोत’’मित्यादिस्मृतिरप्यनुगृहीता भवति ।
प्रकाशिका
‘‘इदमक्षरं ब्रह्मैवे’’ति सूत्रभाष्याद्युक्तप्रतिज्ञांशेनैवाक्षरश्रुतेर्विष्णौ महायोगविद्वद्रूढिभ्यां मुख्यत्वस्य सूचनान्न तयान्यप्राप्तिर्युक्तेति भावेनान्यत्रोक्तश्रुत्यादिना हरौ महायोगविद्वद्रूढी दर्शयन्नाद्यं श्रुत्यनवकाशत्वप्रयुक्तपूर्वपक्षं तावन्निराह ॥ चतुर्विधेति ॥
अनित्यत्वं देहहानि र्दुःखप्राप्तिरपूर्णता ।
नाशश्चतुर्विधः प्रोक्तस्तदभावो हरेस्सदेदा ॥
इति स्मृतेरिति भावः । प्रयोगबाहुल्यरूपरूढावैतरेयश्रुतिमाह ॥ तस्मादिति ॥ प्रवृत्तिहेतुपौष्कल्यादित्यर्थः । एतं सन्तं प्रवृत्तिनिमित्तवत्तया विद्यमानम् ।
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ इति गीता ।
अत एव अक्षरशब्दमुख्यार्थत्वादेवेत्यर्थः । क्षराक्षरातीतत्वं च मुख्यवृत्त्याऽक्षरशब्दार्थत्वेऽपि परतन्त्रचेतनवैलक्षण्यमात्रेणोपपन्नमिति भावः । प्रसिद्धिः परतः परमक्षरमित्यादौ । एवं प्रतिज्ञांशसूचितन्यायं भाष्यादावस्फुटमपि –
शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् ।
अन्यार्थेष्वल्पता हेतोस्तन्निमित्तत्वतस्तथा ॥
तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ।
रूढमित्येव साध्यं स्या’’दित्यानन्दमयनयानुव्याख्याने सामान्यत उक्तमन्यत्रोक्तश्रुत्यादिना स्फुटीकृत्येदानीमम्बरान्तधृतेरिति सौत्रलिङ्गोक्तिपरटीकां विवृण्वन्नस्य निरवकाशत्वं वक्तुमाकाशशब्दस्य ‘‘आकाशाख्यप्रकृते’’रिति टीकोक्तचित्प्रकृतिरूपमध्यमाक्षरार्थत्वमाह ॥ किञ्चेत्यादिना आकाशं चित्प्रकृतिरेवेत्यन्तेन ॥ इहाकाशमित्यस्योच्यत इत्यन्वयः ॥ यद्भूतमिति ॥ यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चे’’त्यन्तेनेत्यर्थः । ‘‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चे’’ति प्रश्ने ‘‘एतस्मि’’न्निति परिहारः ॥ न च तदिति ॥ सर्वोपजीव्यत्वे सत्यन्यैकाश्रितत्वस्य श्रीतत्वस्य श्रीतत्वासाधारणलिङ्गत्वस्य ‘‘अव्यक्तात्पुरुषः परः । मम योनिरप्स्वन्तः समुद्र’’ इत्यादिमानसिद्धत्वादिति भावः । ओतत्वं पोष्यत्वमित्येतत्साधयति ॥ न चेत्यादिना ॥ उपादेयत्वम् उपादानपरिणामत्वमित्यर्थः ॥ आधेयत्वस्याप्यभावाच्चेति ॥ इन्द्रलोकस्य प्रजापतिलोकादधस्तनत्वादिति भावः । अस्य वाक्यस्य सिद्धान्तार्थस्तु –
शिवो हीश्वरनामा स्यात्तत्पारम्यात्सरस्वती ।
इन्द्रेत्युक्ता तत्सुखानां ब्रह्माधिर्मुक्तिगामिनाम् ।
तत्सुखानां परं ब्रह्म मुक्तिगानां परायणम् ॥
इत्यादिब्रह्माण्डस्मृत्या ध्येयः । संसाराल्लुप्तानां मुक्तानां कानि सुखानि लोका इत्यर्थः । ननु तत्र बाधकादर्थान्तरमस्त्वित्यत आह ॥ एकेति ॥ अदृश्यत्वनयेऽक्षरशब्दस्य नानार्थत्वं परावधित्वादिबाधकात् ‘‘अक्षरत्रयमीरित’’मित्यादिस्मृतिबलाच्चोपेतमपि नेहैकार्थत्वे बाधकमस्तीति भावः । तावतोतत्वं पोष्यत्वरूपमिति कुत इत्यत आह ॥ तस्मादिति ॥ परिशेषादित्यर्थः ।
रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः ॥ इत्यादिभारतवाक्यादाविवेत्यर्थः ।
ननु ‘‘भूतं च भवच्चे’’त्युक्तजडस्य कथं पोष्यत्वम् । अत एतस्मादेव बाधकान्नानार्थत्वं युक्तमित्यत आह ॥ न चेति ॥ टीकायां भाष्येऽनुक्तस्यापि ‘‘आकाशाख्यप्रकृते’’रित्युक्तिर्निर्मूला । किञ्चेदं लिङ्गमन्यस्य नेत्येतदपि टीकायां न प्रतीयते । यस्यात्र विवरणं क्रियत इत्यत आह ॥ तदुक्तमिति ॥ विष्णोरन्यस्य श्रीतत्वस्येत्यर्थः । टीकायां न्यायविवरणे च प्रकृतिपदस्यैव प्रयोगाच्चित्प्रकृतिपरत्वे स्पष्टं ज्ञापकमाह ॥ उक्तं चेति ॥ समाख्याबलाच्चैवमिति भावेनाह ॥ एवं चेति ॥ विष्णोरेव सर्वाधारत्वे –
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ॥
इत्यादिगीताप्यनुकूलिता भवतीत्यर्थः ।
चन्द्रिकाबिन्दुः
सिद्धान्ते सूत्रार्थमाह ॥ किञ्चेत्यादिना ॥ निरपेक्ष इति ॥ किन्तु चित्प्रकृतौ स्थौल्यादिनिषेधोऽपीश्वराधीन एव । स च अमुख्य इति भावः ॥
पाण्डुरङ्गि
अत एवेति ॥ प्रवृत्तिनिमित्तपौष्कल्यादेवेत्यर्थः । अनेन महायोगविद्वद्रूढिभ्यामक्षरशब्दस्य ब्रह्मपरत्वमित्युक्तं भवति । अम्बरान्तधृतेरिति हेतुभागसूचितां युक्तिमाह ॥ किञ्चेति ॥ नन्वाकाश एव तदोतमित्यत्रोतशब्दस्याधेयपरत्वादिन्द्रलोका ओता इत्यत्र तु पोष्यत्वार्थकत्वान्न विरोध इत्यत आह ॥ एकप्रकरणेति ॥ ननु नात्रोतत्वं पोष्यत्वम् । ओतत्वेनोक्तानां भूतानामचेतनत्वेन पोष्यत्वानुपपत्तेरित्यत आह ॥ भूतादिपदमिति ॥