०३ पूर्वपक्षनिरूपणम्

पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु । इदमक्षरं श्रीतत्त्वमेव । विष्णोरप्यविनाशित्वेनाक्षरत्वसम्भवेऽपि लोकप्रयोगस्य च श्रीतत्त्वेऽप्यभावेऽपि ‘‘ये त्वक्षरमनिर्देश्य’’मित्यादौ श्रीतत्वेऽक्षरशब्दवत्क्षराक्षरातीतत्वेन प्रसिद्धे विष्णौ तदभावात् । ‘‘यया तदक्षरमधिगम्यत’’ इत्यादेरपि पूर्वपक्षे चित्प्रकृतिपरत्वात् । अत एवैतस्यादृश्यत्वादिगुणकस्याक्षरस्यान्यत्वे पूर्वोक्तमप्यदृश्यत्वादिगुणकमक्षरमप्यन्यत्स्यादित्यदृश्यत्वाधिकरणमाक्षिप्तं भाष्यादौ । अन्यथा ‘‘एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत’’ इति द्यावापृथिव्याश्रयत्वेन श्रुतस्याक्षरस्यान्यत्वे द्युभ्वाद्यायतनमप्यन्यत्स्यादिति सन्निहितं द्युभ्वाद्यधिकरणमाक्षिप्येत । प्रवृत्तिनिमित्तसाधारण्यप्रयुक्ता चोभयत्रप्रसिद्धिर्न पूर्वपक्षदशायां ब्रह्मणि प्रयोगमपेक्षते । अत एव भाष्ये श्रीतत्त्वस्येति वक्तव्ये पूर्वपक्षे हेतुं दर्शयितुमक्षरस्येत्युक्तम् । अस्तु वा ‘‘अक्षरत्रयमीरित’’ मिति वचनादन्यत्राक्षरशब्दो ब्रह्मणि । अत एवोत्तमाक्षरेऽक्षरशब्दमङ्गीकृत्य तद्व्यावृत्त्यर्थं भाष्ये मध्यमशब्दः ।

तथापीहाक्षरं न ब्रह्म । ‘‘सूर्याचन्द्रमसौ विधृतौ तिष्ठत’’ इति ‘‘एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठत’’ इति चाक्षरे श्रुतस्य चन्द्रसूर्याद्याधारत्वस्य ‘‘अहं सोममाहनसं बिभर्मी’’त्यादिना श्रीतत्व इव द्युभ्वाद्यधिकरणन्यायेन ब्रह्मण्यपि सम्भवेऽपि ‘‘अदृष्टं द्रष्ट्रश्रुतं श्रो’’त्रित्यक्षरे श्रुतस्यादृश्यत्वादेश्च ‘‘ये त्वक्षरमनिर्देश्य’’मित्यादिना श्रीतत्व इवादृश्यत्वाद्यधिकरणन्यायेन ब्रह्मण्यपि सम्भवेऽपि ‘‘न तदश्नाति किंचने’’त्यक्षरे श्रुतस्यानत्तृत्वस्य ‘‘अत्ता चराचरे’’त्यत्र सर्वात्तृत्वेनोक्ते ब्रह्मण्यसम्भवात् । न चैतदशुभानशनपरम् । किञ्चनेत्युक्तत्वात् । मध्यमाक्षरस्य तु ‘‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चनमिष’’दिति श्रुतौ स्वतंत्रोन्मेषाभावेनानुन्मेषोक्तिवत्स्वतंत्राशनाभावेन वा ब्रह्मवत्संहर्तृत्वाभावेन वा अत्तेत्यत्र संहाररूपतयोक्तस्याशनस्याभावो युक्तः । तदुक्तं न्यायविवरणे ‘‘अत्तेत्युक्त्वा न तदश्नाति किंचनेति विरुद्धते’’ति । अत एवादृश्यत्वचन्द्राद्याधारत्वादिलिङ्गानां ब्रह्मणि सम्भवमुपेत्य पूर्वपक्षस्य प्रवृत्तत्वादेव भाष्ये ‘‘तस्यापि सम्भवा’’दित्यपिशब्दः । अदृश्यत्वादिलिङ्गानां मध्यमाक्षरेऽपि सम्भवा’’दिति टीका च । अस्मिन्पक्षेऽदृश्यत्वाद्यधिकरणाक्षेपस्तु विष्णोरेवादृश्यत्वादीत्यवधारणस्याक्षेपादिति ज्ञेयम् । अत एव चात्र टीकायामदृश्यत्वादिकं चान्यस्य प्रसज्यत इत्युक्तम् । न त्वन्यस्यैवेति । अत एवाम्बरान्तधृतिप्रशासनादिकमपि मध्यमाक्षरस्यैवेति ।

प्रकाशिका

ननु नेह पूर्वपक्षोदयः । अक्षरश्रुतेर्योगेन ब्रह्मण्युपपत्तेः । लौकिकप्रयोगबाहुल्यरूपरूढेरुभयत्राप्यभावात् । ‘‘अदृष्टं द्रष्ट्रि’’त्यादिनादृश्यत्वश्रवणाच्च । तस्य चादृश्यत्वनये वैष्णवत्वस्य समर्थनात् । द्यावापृथिव्याद्याधारत्वश्रवणाच्च । तस्य च द्युभ्वादिनये विष्णुधर्मताया निर्णीतत्वादित्याशङ्क्य द्वेधा पूर्वपक्षटीकां विवृणोति ॥ पूर्वपक्षस्त्वित्यादिना ॥ ‘‘तत्राक्षरशब्दस्य प्रसिद्धे’’रिति टीकोक्तहेतुं समर्थयते ॥ विष्णोरित्यादिनाऽक्षरस्येत्युक्तमित्यन्तेन ॥ इत्यादाविति ॥ टीकोदाहृतगीतारूपस्मृतावित्यर्थः । एतेन प्रसिद्धेरित्यस्य वैदिकप्रसिद्धेरित्यर्थ उक्तो भवति ॥ प्रसिद्ध इति ॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ।

क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्य’’ इति गीतायां ‘‘अक्षरात्परो हरि’’रिति प्रागुदाहृतस्मृतौ च प्रसिद्ध इत्यर्थः । ब्रह्मण्यप्यस्त्यक्षरत्वप्रसिद्धिरित्यतो नेत्याह ॥ ययेति ॥ अत एवेति ॥ पूर्वपक्षे तत्र ब्रह्मपरत्वासंमतेरेवेत्यर्थः । यद्वा अक्षरश्रुतेर्निरवकाशत्वसम्पत्त्यर्थत्वादेवेत्यर्थः । प्रयोजनार्थं तदाक्षेप उपपन्न इत्यत आह ॥ अन्यथेति ॥ फलमात्रार्थत्व इत्यर्थः ।

ननु यथा पादान्त्यप्राणाधिकरणे पूर्वपक्षे ‘‘तद्वै त्वं प्राणो अभव’’ इत्यत्र प्राणशब्दस्य विष्णुत्वाक्षेपादुभयत्र प्रसिद्ध्यभावस्तथाऽत्रापि स्यात् । ब्रह्मणि क्वाप्यक्षरपदप्रयोगासम्मतेरित्यत आह ॥ प्रवृत्तीति ॥ यथा ज्योतिर्दर्शनादित्यत्र ज्योतिश्शब्दस्य जीवेशरूपोभयत्रप्रसिद्धिस्तथेति भावः । हेतूक्तिपरटीकाया उद्भाष्यत्वभ्रमं निराह ॥ अत एवेति ॥ एवं भाष्येऽनेकज्ञापकोपलम्भबलेन ‘‘तत्राक्षरशब्दस्य प्रसिद्धे’’रिति टीकां श्रुतिनिरवकाशत्वाभिप्रायतया व्याख्यायेदानीं टीकायां तत्रैवेत्यनुक्त्वा तत्राक्षरशब्दस्य प्रसिद्धेरित्येवोक्तत्वात् । तथा ‘‘एतस्य वा अक्षरस्ये’’त्यादिना चन्द्राद्याधारत्वस्य श्रीतत्वलिङ्गतयोपपाद्य ‘‘अदृष्टं द्रष्ट्रि’’त्यादिनाऽत्र श्रुतादृश्यत्वादिकं च ‘‘ये त्वक्षरमनिर्देश्य’’मित्यादिना श्रीतत्वे प्रतिपाद्यान्ते ‘‘अक्षरश्रुतेरदृश्यत्वादिलिङ्गानां च मध्यमोत्तमयोस्साम्येऽत्र मध्यममेवोच्यत इति निर्बन्धे को हेतु’’रित्यादिनाऽक्षरश्रुतिलिङ्गानां सावकाशत्वमुपेत्य ‘‘न तदश्नाती’’त्युक्तानशनलिङ्गेन पूर्वपक्षोज्जीवनस्य कृतत्वात्तत्र कथं श्रुतिलिङ्गानां विष्णावपि क्षराक्षरातीतत्वेनोक्ते वृत्तिः । कथं चानशनेनोज्जीवनमित्यतश्श्रुत्यादेस्सावकाशत्वमुपेत्याशेषटीकां व्यनक्ति ॥ अस्तु वेति ॥ अन्यत्र वाक्यान्तरे । श्रुतेस्सावकाशत्वेन टीकाप्रवृत्तौ भाष्य ज्ञापकमाह ॥ अत एवेति ॥ इहेति ॥ विषयवाक्ये ॥ ‘‘आहनसं यज्ञेष्वभिषूयमाणम् । लताभिमानित्वेनेयमुक्ति’’रिति टीका । तत्वप्रदीपे तु ‘‘आहनसम् आसमन्ताद्धन्तारं संहर्तार’’मित्यर्थ उक्तः । एतच्चाम्भृणीशब्दितलक्ष्मीवाक्यम् ।

ननु ‘‘गुहां प्रविष्टावात्माना’’वित्यत्रानशनश्रुतेर्गतिरुक्तेत्यतो वैषम्यमाह ॥ न चेति ॥ तत्रानश्नन्नित्येव प्रतीत्या तथा गतिसम्भवेऽपीह किञ्चनेत्युक्तया सामान्यनिषेधस्यैव प्रतीतेरित्यर्थः । ‘‘न च मध्यमाक्षरस्यानशनाङ्गीकारे विरोधोऽस्ती’’ति वाक्यं टीकायामयुक्तम् । श्रीतत्वस्यापि नित्यमुक्ततया सुखाशनस्येश्वररमणनिमित्तसुखभोगस्य भावाच्चेत्यतो व्यनक्ति ॥ मध्यमाक्षरस्य त्विति ॥ टीकायामनशनलिङ्गेन पूर्वपक्षोज्जीवनं मूलारूढं दर्शयति ॥ तदुक्तमिति ॥ एवं तर्हि कथं पूर्वाक्षेपः । प्रागुक्तस्य ब्रह्मण्यभ्युपेतत्वादित्यत आह ॥ अस्मिन्निति ॥ ननु सर्वाधारत्वादिलिङ्गाद्विष्णुः किं न स्यादित्यत आह ॥ अत एवेति ॥

पाण्डुरङ्गि

आद्यं तावट्टीकोक्तहेतुमुपपादयति ॥ इदमक्षरमित्यादिना ॥ यया तदक्षरमधिगम्यत इत्यादेःपूर्वपक्षे चित्प्रकृतिपरत्वे ज्ञापकमाह ॥ अत एवेति ॥ यया तदक्षरमधिगम्यत इत्यादिवाक्योक्तपरविद्याविषयत्वादेः पूर्वपक्षे चित्प्रकृतिपरत्वस्याभिप्रेतत्वादेवेत्यर्थः ॥ अन्यथेति ॥ यया तदक्षरमित्यादेः प्रकृतिपरत्वस्यानभिप्रेतत्व इत्यर्थः । ननु ये त्वक्षरमनिर्देश्यमित्यादौ श्रीतत्वेऽक्षरशब्दवत् क्षराक्षरातीतत्वेन प्रसिद्धे विष्णावक्षरशब्दाभावाच्छ्रीतत्वस्यैवाक्षरत्वमिति पूर्वपक्षकरणेऽक्षरशब्दस्योभयत्रप्रसिद्धता न स्यादित्यत आह ॥ प्रवृत्तिनिमित्तेति ॥ अत एवेति ॥ श्रीतत्ववद्विष्णावक्षरशब्दाप्रयोगादेवेत्यर्थः । नन्वेवमक्षरशब्दस्य सर्वथापि विष्णुपरत्वाभावे भाव्येऽक्षरस्येत्येव वक्तव्ये मध्यमाक्षरस्येति मध्यमशब्दो व्यर्थ इत्यरुच्या पक्षान्तरमाह ॥ अस्तु वेति ॥ अथवा टीकोक्तं द्वितीयहेतुमुपपादयति ॥ अस्तु वेति ॥ नन्वत्तृत्वेनोक्ते ब्रह्मण्यनत्तृत्वरूपानशनस्यायोगान्मध्यमाक्षरेऽपि तदसम्भवात्कथं तस्याक्षरत्वमित्याशङ्कापरिहारार्थं न च मध्यमाक्षरस्यानशनाङ्गीकारे विरोधोऽस्तीति टीका प्रवृत्ता । तत्र विरोधाभावो नोपपादितः । अतस्तमुपपादयितुमाह ॥ मध्यमाक्षरस्य त्विति ॥ अत एवेत्यस्य विवरणमदृश्यत्वस्येत्यादि । नन्वदृश्यत्वादेर्ब्रह्मणि सम्भवमुपेत्य यदि पूर्वपक्षप्रवृत्तिस्तर्ह्यदृश्यत्वाक्षेपानुपपत्तिरित्यत आह ॥ अदृश्यत्वेति ॥