०२ संशयप्रदर्शनम्

अत्र ‘‘स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदंत्यस्थूल’’ ..

संशयप्रदर्शनम्

तात्पर्यचन्द्रिका

अत्र ‘‘स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदंत्यस्थूल’’ मित्यादिनोक्तमक्षरं किं चित्प्रकृतिः किं वा ब्रह्मेति चिन्ता । तदर्थं ‘‘एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्चे’’ति वाक्योक्तांबरान्तधृतिः किं चित्प्रकृतेर्युक्तोत न युक्तेति । तदर्थमत्राकाशशब्दःकिं मध्यमाक्षरेतरपरः किं वा मध्यमाक्षरपर इति । तदर्थं ‘‘न तदश्नाति किंचने’’त्युक्तमनशनं किं ब्रह्मणो न युक्तमुत युक्तमिति । यद्याद्यस् तदा ब्रह्मपक्षेऽनशनस्यैव बाधकत्वेनाकाशशब्दस्येतरपरत्वादितरधृतेश्च मध्यमाक्षरेऽपि सम्भवाद्ब्रह्मत्वसाधकाभावान्मध्यमाक्षरमेवेहाक्षरम् । यदि तु द्वितीयस् तदा बाधकाभावेनाकाशो मध्यमाक्षरमेवेति तदाश्रयत्वस्यैव ब्रह्मत्वसाधकत्वादक्षरं ब्रह्मैव ।

प्रकाशिका

नन्वत्र भाष्ये टीकायां च ‘‘अदृष्टं द्रष्ट्रि’’त्याद्युपसंहारवाक्यमुदाहृत्य तदक्षरं विषय इत्युक्तम् । तदयुक्तमिव तथात्वे तत्रांबरान्तधृत्यादिरूपसूत्रोपात्तहेतूनां सर्वेषामभावादित्यतः पूर्वसङ्गत्यर्थं द्रष्टृत्वादिना जडप्रकृत्यादिकं नात्र शङ्कार्हमिति सूचयितुम् अम्बरे सर्वाधारत्वस्य तत्राप्रतीतावप्यंबरधृतिरूपप्रधानहेतुरस्तीति दर्शयितुं च अन्त्यवाक्योक्तावपि तदुपलक्षणमिति भावेन वा भाष्यटीकयोरुक्तं ‘‘तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रि’’त्यादिचरमवाक्यस्थतदेतच्छब्दपरामर्शविषयं दर्शयितुं वा पूर्ववाक्योक्तया विषयसंशयटीकां व्यनक्ति ॥ अत्र स होवाचेत्यादिना ॥ बृहदारण्यके पञ्चमेऽध्यायेऽष्टमब्राह्मणे गार्गियाज्ञवल्क्यसंवादे श्रूयते ‘‘सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति । सहोवाच यदूर्ध्वं गार्गि दिवो यदर्वाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नुखल्वाकाश ओतश्च प्रोतश्चेति । सहो वाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदंत्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्ध मचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणमसुखममात्रमनन्तरमबाह्यं न तदश्नाति किञ्चन न तदश्नाति कश्चन । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवस्संवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्यानद्यस्स्यंदन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योन्या यां यां दिशमनु । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसंति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः । यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति । यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः । अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः । तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ । नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञातृ । एतस्मिन्खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे’’त्यत्र सर्वाधारत्वेन श्रुतमक्षरं विषय इत्यर्थः ॥ चित्प्रकृतिरिति ॥ कोट्यन्तरस्याग्रे निरस्यत्वादिति भावः ॥ इति वाक्योक्ताम्बरान्तधृतिरिति ॥ यद्यपि तद्वाक्येंऽबरधृतिरेवाक्षरे भाति । तथापि पूर्ववाक्येंऽबरस्य भूतभवदादिसर्वाधारत्वमुक्त्वा तादृशस्यांबरस्य ‘‘कस्मिन्नु खलत्वाकाश ओतश्च प्रोतश्चे’’ त्याधारे पृष्टे ‘‘स होवाचे’’त्यादिनाऽक्षरस्य महिमानमुक्त्वाऽनन्तरं ‘‘एतस्मिन्खल्वक्षरे गार्ग्याकाश’’ इत्युक्तत्वात्सर्वाधाराम्बराधारत्वरूपांबरान्तधृतिस्तत्र लब्धेति भावेनैव मुक्तिः ॥ मध्यमेति ॥ चित्प्रकृतीतरपर इत्यर्थः । वक्ष्यमाणपूर्वपक्षरीत्या फलफलिभावस्यास्फुटत्वादाह ॥ यदीति ॥ अत्र हि द्वेधा पूर्वपक्षः । एको भाष्ये ‘‘मध्यमाक्षरस्योक्ता’’ इति मध्यमाक्षरपदप्रयोगसूचिताक्षरश्रुतिनिरवकाशत्वमूलः । अन्यस्तु न्यायविवरणोक्तानशनविरोधमूलकः । तत्र द्वितीयपूर्वपक्षानुगुणेयं चिन्तापरम्परा प्रधानत्वात्कण्ठोक्ता । आद्यपूर्वपक्षानुगुणा तु ब्रह्मेति चिन्तानन्तरं तदर्थमक्षरश्रुतिप्रसिद्ध्यनुसारेणाम्बरान्तधृत्यादिरूपलिङ्गं नेयमुत विपरीतमिति चिन्ता । तदर्थं श्रुतिर्निरवकाशा लिङ्गं तु सावकाशमुत विपरीतमिति चिन्ता स्फुटत्वादूह्येति नोक्ता ।

पाण्डुरङ्गि

पूर्वपक्षसिद्धान्तयोः पलफलिभावमाह ॥ यद्याद्य इत्यादि ।