०१ संन्गतिकथनम्

यद्यप्यक्षरशब्दो वर्णेषु लोकतः प्रसिद्धः

अक्षराधिकरणम्

तात्पर्यचन्द्रिका

संन्गतिकथनम्

॥ ॐ अक्षरमम्बरान्तधृतेः ॐ ॥

यद्यप्यक्षरशब्दो वर्णेषु लोकतः प्रसिद्धः । तथापि न तस्यान्यत्रप्रसिद्धता । न हि सा ब्रह्मणोऽन्यत्र यत्र क्वचन प्रसिद्धता । किं तु पूर्वपक्ष्यभिप्रेतेऽन्यत्र । उभयत्र प्रसिद्धत्वं तु ‘‘विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारण’’ इति न्यायविवरण एवोक्तम् । प्रयोगसाधारण्येनोभयत्र प्रसिद्धता तु नोक्ता । पूर्वपक्षिणं प्रति सम्प्रतिपन्नप्रयोगाभावात् । वर्णादिसाधारणेन तेन ब्रह्मचित्प्रकृतिरूपार्थद्वयमात्रसाधारण्यासिद्धेश्च । प्रवृत्तिनिमित्तोपजीविस्थलान्तरस्थप्रयोगानुसन्धाननिरपेक्षे समन्वेतव्यशब्दप्रवृत्तिनिमित्तसाधारण्यप्रयुक्त उभयत्र प्रसिद्धत्वे सम्भवति तत्सापेक्षस्य तस्यानादरणीयत्वाच्च । अत्र चाक्षरशब्दो योगमात्रस्यातिप्रसक्तत्वात्पङ्कजादिवद्योगरूढः । तत्र रूढ्यंशसाधारण्यस्य ‘‘अक्षरत्रयमीरित’’मित्यदृश्यत्वाधिकरणभाष्योदाहृतस्मृत्यैव सिद्धेर्योगांश साधारण्यमात्रं ‘‘अविनाशित्वसाम्या’’दिति न्यायविवरण उक्तम् । अत एव टीकायां ‘‘द्रष्टृत्वादिश्रवणाज्जडप्रकृतेरोंकारस्य च न सन्देहनिविष्टत्व’’मित्युक्तम् । अन्यथा हि नित्यमात्रस्य न सन्देहनिविष्टत्वमित्यवक्ष्यत् । जडप्रकृत्यादिसाधारण्येनाक्षरशब्दस्योभयत्र प्रसिद्धत्वाभावस्तु टीकायां न शङ्कितः । अन्यसाधारण्येऽपि संशयकोटिसाधारण्यमात्रेण तत्सिद्धेः ।

प्रकाशिका

‘‘अत्राविनाशित्वसाम्याच्चित्प्रकृतौ हरौ च साधारणस्याक्षरनाम्न’’ इत्यादिपादादिसङ्गत्युक्तिपरा टीका न युक्तेव । अविनाशित्वसाम्येऽक्षरनाम्नस्साधारण्ये बीजाभावात् । यद्यपि ‘‘अविनाशित्वस्याक्षरशब्दप्रवृत्तिनिमित्तत्वादित्यत्रोपस्कर्तव्य’’मिति न्यायविवरणटीकोक्तया सबीजत्वम् । तथाप्यक्षरशब्दस्य विष्णुचित्प्रकृत्योर्यौगिकत्वेन लिङ्गतापत्त्या नाम्न इत्युक्तययुक्तेश्चेत्यतो मूलोक्तितद्व्याख्यानादिटीकां विवरिष्यन्नन्यत्र प्रसिद्धत्वं तावदाशंक्य निराह ॥ यद्यपीत्यादिना ॥ क्वचनेति निपातसमुदायः ॥ किं त्विति ॥ इह च वर्णे द्रष्टृत्वादेरयोगान्न पूर्वपक्ष्यभिप्रेत इति भावः । का तर्हि पूर्वपक्षकोटिः । कथं चोभयसाधारण्यम् । वर्णव्यावृत्तस्य तद्बीजस्याभावादित्यत आह ॥ उभयत्रेति ॥ अविनाशित्वं तु वर्णादिव्यावृत्तकोटिद्वयमात्रसाधारणमित्यग्रे विवरिष्याम इति भावः । एतेन टीकैतन्मूलेति सूचितम् ।

ननु वक्ष्यमाणदिशा रूढेरप्यावश्यकत्वात्तस्याश्च प्रयोगबाहुल्यादिरूपत्वात्प्रयोगवशादेव साधारण्यं कुतो नोक्तम् । किं रूढितोऽप्यमुख्ययोगाश्रयणेनेत्यत आह ॥ प्रयोगेति ॥ ‘‘यया तदक्षरमधिगम्यत’’ इत्यादिप्रयोगात्कथमेतदित्यत उक्तं सम्प्रतिपन्नेति ॥ तत्रासंमतेरिति भावः ॥ नन्वस्ति ‘‘परतः परमक्षरम् । हरिमेवे’’ति स्मार्तप्रयोग इत्यनुशयादाह ॥ वर्णादीति ॥ वर्णे लोकतः । जडप्रकृतौ च स्मार्तः ॥ अर्थद्वयेति ॥ तन्मात्रसाधारण्यस्यैव वक्तव्यत्वेनाग्रे साधनादिति भावः । ननु द्रष्टृत्वादिना वर्णजडप्रकृत्योर्निरासे द्वयमात्रवृत्तित्वं स्यादित्यतो हेत्वन्तरमाह ॥ प्रवृत्तीति ॥ श्रीतत्त्वादौ स्थलान्तरप्रयोगस्यावयववृत्त्यैवोपपत्तौ रूढेरकल्पनादिति भावः । नन्वेवं प्रवृत्तिनिमित्तस्याकाशादावपि सत्त्वेन कथं द्वयमात्रवृत्तित्वमक्षरशब्दस्येत्याशङ्कां हृदि कृत्वा ‘‘उपलक्षणं चैतत् । अक्षरशब्दस्य तत्र प्रसिद्धत्वादिति द्रष्टव्य’’मिति न्यायविवरणटीकायां ‘‘अविनाशित्वसाम्या’’दित्यस्योपलक्षणत्वोक्तेर्बीजं वदंस्तदनुरोधेनात्रापि टीकायामविनाशित्वसाम्यादित्यनन्तरं तत्र प्रसिद्धत्वाच्चेत्यपि द्रष्टव्यमिति भावेन योगस्य साधारण्यमुपेत्य रूढिबलाच्चोभयमात्रवृत्तित्वं द्रष्टव्यमित्येकं पक्षं तावदाह ॥ अत्र चेति ॥ अत एवेति ॥ योगरूढिभ्यां साधारण्यस्याभिमतत्वादेवेत्यर्थः । ‘‘अक्षरत्रयमीरित’’मिति जडप्रकृतौ, ‘‘यस्त्वेतं त्रिमात्रेणोंऽकारेणैवाक्षरेण परमपुरुषमभिध्यायीते’’त्योंकारे च प्रयोगात्तयोरपि रूढेरविनाशित्वयोगस्य च सत्त्वाद्द्वयोरेव व्यवच्छेद्यतयोक्तिः । योगमात्रस्याभिमतत्वे तस्य नित्यमात्रेऽपि सत्त्वेन तन्मात्रमेव व्यवच्छेद्यतयोपादीयेतेत्यर्थः । ननु वर्णमात्रेऽपि योगरूढिभावोऽस्तीति चेत्सत्यम् । वर्णमात्रोपलक्षणमेतट्टीकायाम् । अत एव न्यायविवरणटीकायां ‘‘नन्वचेतन प्रकृतौ वर्णेषु च कुतो न शङ्के’’त्युक्तमिति ध्येयम् । ननु योगरूढ्योर्जड प्रकृत्यादावपि भावे सति पूर्वोत्तरकोटिद्वयमात्रसाधारण्याभावाद्द्रष्टृत्वादिना संशयादिकोटित्वशङ्कानिरासवदुभयत्र प्रसिद्धत्वाभावमाशङ्क्य कुतो न तन्निरासः कृत इत्यत आह ॥ जडेति ॥

पाण्डुरङ्गि

नन्वक्षरशब्दस्योभयत्र प्रसिद्धशब्दसमन्वयप्रतिपादकपादे समन्वयप्रतिपादने पादासङ्गतिः । तस्य वर्णादौ रूढत्वेनान्यत्र प्रसिद्धत्वादित्यत आह ॥ यद्यपीत्यादिना ॥ सा अन्यत्र प्रसिद्धता । ननु चाविनाशित्वरूपप्रवृत्तिनिमित्तसाधारण्येनाक्षरशब्दस्योभयत्रप्रसिद्धत्वं किमर्थमुच्यते । प्रयोगसाधारण्येनाप्युभयत्र प्रसिद्धत्वोपपत्तेरित्यत आह ॥ प्रयोगेति ॥ पूर्वपक्षिणं प्रतीति ॥ ब्रह्मणि चित्प्रकृतौ चेति शेषः । किं च प्रयोगसाधारण्येनाक्षरशब्दस्य चित्प्रकृतिब्रह्मरूपोभयप्रसिद्धता न सम्भवति । तस्य चित्प्रकृतिब्रह्मणोरिव वर्णादावपि सत्त्वादित्यत आह ॥ वर्णादीति ॥

ननु च न प्रयोगमात्रमुभयत्रप्रसिद्धिसाधकत्वेनोच्यते । येनातिप्रसङ्गः स्यात् । किं नाम प्रवृत्तिनिमित्ताविनाशित्वोपजीविप्रयोगसाधारण्यमेव । न चैवं ब्रह्मणि प्रयोगो नास्तीति न तस्योभयत्रप्रसिद्धत्वमिति वाच्यम् । विषयवाक्ये प्रवृत्तिनिमित्तोपजीविप्रयोगाभावेऽपि स्थलान्तरे तत्संभवादित्यत आह ॥ प्रवृत्तिनिमित्तेति ॥ ननु यदि प्रयोगसाधारण्यस्य वर्णादिसाधारणत्वेन तेन ब्रह्मचित्प्रकृतिरूपार्थद्वयमात्रसाधारण्यासिद्ध्या तस्योभयत्र प्रसिद्धिसाधकत्वं नाङ्गीक्रियते तर्ह्यविनाशित्वरूपप्रवृत्तिनिमित्तसाधारण्येनाप्युभयत्र प्रसिद्धत्वं न स्यात् । प्रवृत्तिनिमित्तसाधारण्यस्यापि वर्णादिसाधारणत्वेन ब्रह्मचित्प्रकृति रूपार्थद्वयमात्रसाधारण्यासिद्ध्यापातादित्यतः स्यादेतदेवं यदि प्रवृत्तिनिमित्तसाधारण्यमात्रेणैवोभयत्र प्रसिद्धतोच्येत । किं नाम रूढिसहितयोगसाधारण्यमेव । अक्षरादिशब्दानां योगरूढत्वादिति भावेनाह ॥ अत्र चेति ॥ अत एवेति ॥ रूढियोगसाधारण्यस्योभयत्रप्रसिद्धिसाधकत्वेनाभिमतत्वादेवेत्यर्थः ॥ अन्यथेति ॥ अविनाशित्वरूपप्रवृत्तिनिमित्तसाधारण्यमात्रस्यैवोभयत्रप्रसिद्धिसाधनत्वेऽभिमत इत्यर्थः । ननु रूढियोगसाधारण्यस्यापि प्रकृतिवर्णसाधारणत्वेन तेनापि तत्र ब्रह्मचित्प्रकृतिरूपार्थद्वयमात्रसाधारण्यसिद्धिः कथं स्यादित्यत आह ॥ जडप्रकृत्यादीति ॥ आदिपदेन वर्णसङ्ग्रहः । विष्णुचित्प्रकृतिवर्णसाधारणत्वाद्द्वयमात्रसाधारण्याभावादुभयत्रप्रसिद्धत्वं कथमिति शङ्काभावो वक्ष्यमाणहेतोरिति भावः । सन्देहकोट्योरेव साधारण्यस्य विवक्षितत्वादिति भावः ।


अथवा स्वरूपध्वंस इव शरीरवियोगेऽपि..

तात्पर्यचन्द्रिका

अथवा स्वरूपध्वंस इव शरीरवियोगेऽपि नाशशब्दप्रयोगाद्

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥

इति स्मृतौ च जीवस्य क्षरत्वमुक्त्वा चित्प्रकृतेरक्षरशब्दवाच्यत्वोक्तेः ‘‘लक्ष्मीरक्षरदेहत्वादक्षरे’’त्यादिश्रुतौ शरीराक्षरणस्य निमित्तत्वोक्तेश्चाव्यभिचरिते शरीरक्षरणाभावरूपाक्षरणविशेषे केवलयौगिकोऽक्षरशब्दः । प्राभाकरमतेऽचिरनिर्मथनत्वरूपनिर्मथनविशेषे निर्मंथ्यशब्द इव । न चैवं पङ्कजादेरपि केवलयौगिकत्वापातः । तत्र पद्मत्वजातेरपि प्रतीतेः । पङ्कजननविशेषस्य निमित्तत्वे मानाभावाच्च । कुमुदादिव्यावृत्तस्य पद्मे पङ्कजननविशेषस्याभावाच्च । अत्र त्वनेकाक्षरानुगतजातिभेदस्याप्रतीतेः । अक्षरणविशेषस्य निमित्तत्वे स्मृतेरुक्तत्वाच्च । इतरव्यावृत्तस्य क्षरणरहितशरीरयोगरूपस्य विशेषस्य सत्त्वाच्च । वर्णादौ तु रूढः । वर्णात्वादिजातिभेदप्रतीतेः । इह च द्रष्टृत्वादिना रूढार्थबाधाद्यौगिकोऽक्षरशब्दो द्वयमात्रसाधारणः । इदमेव च ब्रह्मचित्प्रकृतिरूपार्थद्वयमात्रसाधारणशरीराक्षरणं न्यायविवरणेऽविनाशित्वपदेन विव क्षितम् । वक्तव्यं हि द्वयमात्रसाधारण्यम् । न्यायविवरणे पूर्वत्र द्युभ्वाद्यायतनत्वादौ संशयकोटिमात्रसाधारण्योक्तेः । तथोत्तरत्र सच्छब्दस्य स्वतः सर्वसाधारणस्यापि कारणत्वमुखेन द्वयमात्रसाधारण्योक्तेः । तथा ‘‘आहोभयगतत्वं च स्यादतो लिङ्गशब्दयो’’रित्यनुव्याख्याने सिद्धान्ते निरसनीयत्वेन यत्साधारण्यं प्रसक्तं तस्यैवोभयत्र प्रसिद्धित्वेनोक्तत्वाच्च । इन्द्रादिशब्देषु तु रूढ्यादिनैव पूर्वपक्षितत्वान्नैश्वर्यादिप्रवृत्तिनिमित्तसाधारण्यमिति नातिप्रसङ्गः ।

प्रकाशिका

यद्येवं तर्हि न्यायविवरणोक्तस्योपलक्षणत्वमुपेत्य रूढिरपि नोपादेया । योगस्यान्यसाधारण्येऽपि संशयकोटिद्वयसाधारण्यमात्रेण तदुपपत्तेरित्यतो योगस्यानतिप्रसक्तत्वसम्भवात्कोटिद्वयमात्रवृत्तित्वमक्षरशब्दस्य । अत एवात्र टीकायां ‘‘अविनाशित्वसाम्या’’दित्येवोक्तिः । न तु रूढ्या चेति रूढ्यंशस्यापि । अत एव च योगस्यान्यसाधारण्येनोभयत्र प्रसिद्धत्वाभावशङ्काभावः । जडप्रकृतेरोङ्कारस्य चेति विशिष्य द्वयोरेव निषेधस्तु तत्र न योगसम्भवाभिप्रायः । अपि तु रूढ्याऽक्षरशब्दार्थत्वं तयोरप्यस्तीत्यभिप्राय इति भावेन योगस्यानतिप्रसक्तत्वं तावत्साधयति ॥ अथवेति ॥ इह न क्षरतीत्यक्षरमिति शरीरवियोगराहित्यरूपमविनाशित्वमभिमतम् । तच्च चित्प्रकृतीश्वरयोरेव । नान्यत्रेति वक्तुं देह वियोगस्य नाशशब्दार्थत्वं तावदाह ॥ स्वरूपेति ॥ प्रयोगादिति ॥ शरीरक्षरणाभावेत्यादिनान्वयः । (यः पितरं नवेदः स नष्टो भवति इत्यस्य स्वरूपध्वंसं प्राप्नोतीत्यर्थायोगात् शरीर वियोगमाप्नोति मृत्युमाप्नोतीत्यर्थः वाच्यः) ॥ ‘‘तन्नोन्नशद्यः पितरं न वेदे’’त्यादिश्रुतौ (पृथिवी इत्यस्य पार्थिवा जना इत्यर्थः ॥ ते नाशिता देहवियोगं (मरणं) प्रापिता इत्यर्थः) ॥ ‘‘नाशिता पृथिवी सर्वा धार्तराष्ट्रैस्तु दुर्नयैरि’’त्यादि स्मृत्यादौ च प्रयोगादित्यर्थः । अस्त्वेवम् । तद्राहित्यं चित्प्रकृतौ हरौ च कुतः । येन तयोरक्षरशब्दो यौगिकः स्यादित्यत आह ॥ द्वाविति ॥ स्मृतौ चेति ॥ गीतायाम् ॥ जीवस्य क्षरत्वमुक्त्वेत्यादि ॥ तथा च चितत्प्रकृतौ देहवियोगराहित्यं ज्ञायत इति वाक्यशेषः । स्वरूपध्वंसाभावस्योभयत्राविशिष्टत्वाद्देहवियोगस्याप्यविशिष्टत्वे तद्योग्यजीवस्य क्षरत्वमुक्त्वा चित्प्रकृतेरक्षरत्वोक्तिर्न स्यादिति भावः । विष्णोर्देहवियोगराहित्यं तु ‘‘नित्यो नित्याना’’मित्यादिश्रुत्यादिना प्रमितमिति भावः । तावता तस्याक्षरपदप्रवृत्तिनिमित्तत्वं कुतः । येनाक्षरशब्दस्तयोरेव स्यादित्यत आह ॥ लक्ष्मीरिति ॥

ब्रह्मा शिवस्सुरेशाद्याश्शरीरक्षरणात्क्षराः ।

लक्ष्मीरक्षरदेहत्वादक्षरा तत्परोहरिः ॥

इति तत्वनिर्णयोक्तश्रुतावित्यर्थः ॥ प्राभाकरेति ॥ प्रथमस्य चतुर्थे नामधेयपादे ‘‘तथा निर्मंथ्ये’’ इति दशमेऽधिकरणे ‘‘निर्मंथ्येनेष्टकाः पचन्ती’’त्यत्र श्रुतोऽग्निवाचको निर्मंथ्यशब्दोऽरणिमथनसंस्कारनिमित्तकोऽथाग्नित्वजातिनिमित्तक इति संशये मथनकर्मत्वस्य निष्पन्नेऽग्नावभावात् ‘‘निर्मंथ्येन पश्याम’’ इति लौकिकेऽपि प्रयोगान्न संस्कारनिमित्तक इति प्राप्ते अचिरनिर्मथनविशिष्टेऽग्नौ निर्मथनविशेषस्य सत्त्वेन तत्र यौगिक इत्युक्तम् । आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोऽग्निश्चिरनिर्मथितः । सद्य एव लौकिकमथनेन जातोऽग्निरचिरनिर्मथितः । तेनेष्टकाःपच्यन्ते । यथा पुरातननूतनयोर्घृतयोर्नवनीतजन्यत्वे समानेऽपि नूतनमेवनावनीतमिति व्यवह्रियते तद्वन्निर्मंथ्यशब्दस्य मथनकर्ममात्रे पाणिनिस्मरणेऽप्यचिरनिर्मथिते चिरनिर्मथितव्यावृत्ताचिरनिर्मथनविशेषविशिष्टे यौगिक एव । न तु तद्व्यावृत्त्यर्थं रूढिरप्याश्रयणीयेति यथोच्यते तथाऽत्राप्यन्यव्यावृत्ताविनाशविशेषनिमित्तयौगिक एव । न त्वन्यव्यावृत्त्यर्थं रूढिरप्याश्रयणीयेत्यर्थः । नन्वेवं निबन्धनमते ‘‘क्लृप्तशक्तिकावयवयोगादेव पङ्कजादिशब्दः । अन्यथा समुदायशक्तिकल्पनागौरवापत्ते’’रिति नयविवेकवरदराजीययोरुक्तया तदप्यनुमतमिति भ्रमनिरासाय तदाशङ्क्य निराह ॥ न चैवमिति ॥ जातिप्रतीतावपि क्लृप्तावयवशक्तयैव प्रयोग इति निबन्धनमतं निराह ॥ पङ्कजननेति ॥ ननु नेदमक्षरपदप्रवृत्तिनिमित्तमव्याप्तेरित्यत आह ॥ वर्णादौ त्विति ॥ तत्र यौगिकत्वाभावान्नाव्याप्तिर्दोषायेति भावः । कथं तर्हि द्वयमात्रसाधारण्यमक्षरपदस्येत्यत आह ॥ इह चेति ॥ यथा हि परमते ‘‘अजामेका’’मिति वाक्यस्थाजाशब्दश्छाग्यां रूढोऽपि न तत्पर इति वक्ष्यते चतुर्थपादे तथेति भावः ॥ उत्तरत्रेति ॥ ईक्षत्यधिकरणे ॥ इत्यनुव्याख्यान इति ॥ प्रागुदाहृतमेतत् । व्याख्यातं चास्माभिः । एवं न्यायविवरणटीकारीत्या योगरूढिभ्यां वा भाष्यटीकारीत्याऽनतिप्रसक्तयोगमात्रेण वा द्वयसाधारण्यं न्यायविवरणेऽभिप्रेतमित्युक्तम् ।

पाण्डुरङ्गि

नन्वन्यसाधारण्ये संशयकोटिसाधारण्यमात्रेणोभयत्रप्रसिद्धतेत्ययुक्तम् । द्वयमात्रसाधारण्यस्यैवोभयत्र प्रसिद्धिसाधकत्वात् । न्यायविवरणे पूर्वाधिकरणे द्युभ्वाद्यायतनत्वादौ संशयकोटिमात्रसाधारण्योक्तेः । तथा चोत्तरत्रसच्छब्दस्य स्वतः सर्वसाधारणस्यापि कारणत्वमुखेन द्वयमात्रसाधारण्योक्तेः । तथा ‘‘आहोभयगतत्वं चे’’त्यनुव्याख्याने सिद्धान्ते निरसनीयत्वेन यत्साधारण्यं प्रसक्तं तस्यैवोभयत्रप्रसिद्धत्वेनोक्तत्वाच्च । अन्यथा प्रवृत्तिनिमित्तमात्रसाधारण्यस्य वा प्रयोगसाधारण्यस्य वा वर्णादि साधारणस्यापि संशयकोटिसाधारण्यमात्रेणैवोभयत्र प्रसिद्धत्वोपपत्तौ योगरूढ्यङ्गीकारवैयर्थ्यापत्तेरित्यस्वरसान्न्यायविवरणानुव्याख्यानस्वारस्यानुरोधात्पक्षान्तरमाह ॥ अथवेति ॥ तर्हि पङ्कजशब्दस्यापि पङ्कजननविशेषनिमित्तकेवलयौगिकत्वोपपत्तौ योगरूढत्वं न स्यादित्याशङ्कते ॥ न चेति ॥ केवलयौगिकत्वं न स्यादित्यतस्तेषामसिद्धिमाह ॥ अत्र त्विति ॥ ननु योगस्य वर्णादिसाधारणत्वेन कथं तेनोभयत्रप्रसिद्धतेत्यत आह ॥ वर्णादाविति ॥ नन्वस्त्वक्षरशब्दस्य वर्णे रूढिः । तथापि प्रकृतेरूढार्थो वर्णोऽप्यक्षरशब्दार्थ इति कथमक्षरशब्दस्य ब्रह्मप्रकृतिरूपार्थद्वयमात्रसाधारण्यमित्यत आह ॥ इह चेति ॥ रूढार्थबाधादिति ॥ अनेनोदाहृतटीकावाक्यं योजितं भवति ।

ननु शरीराक्षरणरूपप्रवृत्तिनिमित्तस्योभयसाधारण्य प्रयोजकत्वे न्यायविवरणविरोधः । तत्राविनाशित्वस्यैव तत्प्रयोजकत्वेनोक्तत्वादित्यत आह ॥ इदमेव चेति ॥ नन्वक्षरशब्दप्रवृत्तिनिमित्तस्य शरीराक्षरणस्य ब्रह्मचित्प्रकृतिसाधारण्येनाक्षरशब्दस्योभयत्रप्रसिद्धत्वे इन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यस्यापीन्द्रब्रह्मरूपार्थद्वयसाधारण्येनोभयत्रप्रसिद्धत्वापत्त्याऽन्यत्र प्रसिद्धसमन्वयप्रतिपादकपादासङ्गतिरित्यत आह ॥ इन्द्रादिशब्देष्विति ॥