केचित्तु
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु । भूमा प्राण इत्येव पूर्वः पक्षः । प्राणशब्दस्तु प्राणसहचारिणि जीवे लाक्षणिकः । ‘‘प्राणोह पिते’’त्यादिना प्राणे पितृत्वादिव्यपदेशात् । ‘‘पितृहा वै त्वमसी’’त्यादिना सप्राणस्य शरीरस्य हिंस्यत्वव्यपदेशाच्च । न हि केवलजडस्य पितृत्वादिकं हिंस्यत्वं च युक्तमित्याहुः । तन्न । प्राणशब्दस्य प्रसिद्ध्यनुसारेण प्राणाभिमानिदेवतावाचित्वेऽपि ‘‘अथ यद्यप्येनानुत्क्रान्तप्राणा’’नित्यादिनोपपादितस्य पितृत्वादेः सम्भवेन लक्षणायोगात् । ‘‘अथ यद्यप्येनानुत्क्रान्तप्राणा’’निति प्रकृतानामाचार्यादिजीवानाम् उत्क्रान्तप्राणत्वस्योक्तत्वेन प्राणस्य जीवमात्रत्वायोगाच्च । न हि स्वयं स्वस्मादुत्क्रान्तो भवति । अत एव ‘‘एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाये’’ति श्रुतेः सम्प्रसादो जीवः । तस्मादध्युपदेशादिति केषांचित्सूत्राक्षरार्थोऽपि निरस्तः । तथात्वे श्रुतौ प्राणशब्दस्य जीवे लक्षणापत्तेः । जीवसामान्यादध्युपदेशमात्रेण ब्रह्मत्वासिद्धेश्च । त्वद्रीत्या श्रद्धादिषु व्यभिचाराच्च । सम्प्रसादोऽस्मादिति श्रुतौ शरीरात्समुत्थानलिङ्गेन सम्प्रसादशब्दस्याल्पसुखयुक्तजीवे कथञ्चिद्यौगिकत्वेऽपि सूत्रेऽल्पसुखयुक्तजीवपरत्वे हेत्वभावाच्च । ‘‘नामाभिमानिनी चोषा ’’इत्यादिस्मृत्या नामादीनामपि जीवविशेषत्वाच्चेति । टीकाक्षरार्थस्तु स्पष्टः । यद्यपि श्रुतौ विश्वतः परममिति द्राविडपाठः । तथापि विश्वतः परमामित्यांध्रपाठो भाष्य उदाहृतः ॥
प्रकाशिका
केचित्त्विति ॥ ‘‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे’’त्यादावुक्तो भूमा किं प्रत्यागात्मरूपो जीवोऽथ परमात्मेति संशये नामादिषु प्रश्नोत्तरत्वेन प्रवृत्तस्य भूयस्त्ववचनस्य प्राणे पर्यवसानात् प्राणादूर्ध्वं तदनुक्तेः प्राणभूम्नोरभेदात् प्राणशब्दस्य ‘‘तरति शोकमात्मवि’’दित्यात्मजिज्ञासया प्रक्रान्ते प्रकरणे प्राणपर्यंतोपास्योपदेशहेतुना प्राणसाहचर्यनिमित्तेन लक्षणया जीवपरत्वात् प्रसिद्धजडवायुपरत्वे प्रक्रान्तात्मशब्दायोगात् ‘‘प्राणो वै पिता प्राणो वै माता प्राणो भ्राता प्राणस्स्वसा प्राण आचार्यः प्राणो ब्राह्मण’’ इत्युक्तपितृत्वादेरयोगात् तथा ‘‘पितृहा वै त्वमसी’’ति ‘‘मातृहा त्वमसी’’त्यादिना तथा ‘‘उत्क्रान्तप्राणा’’नित्यारभ्य प्रवृत्तेन ‘‘न पितृहासी’’ति ‘‘न मातृहासी’’त्यादिना चात्र प्रकरणे सप्राणेषु हिंसके पुरुषे हिंसानिमित्तोपक्रोश वचनस्याप्राणेषु हिंसके हिंसानिमित्तोपक्रोशाभावस्य च दर्शनेन केवलजडे हिंस्यत्वनिमित्तोपक्रोशादेश्चायोगाद् लोके च सजीवनिर्जीवयोरुपमर्दकारिषूपक्रोशतदभावोपलम्भात्प्राणशब्दितो जीव एव भूमेति प्राप्ते भूयो विषयप्रश्नप्रत्युक्तयोः प्राणपर्यंतत्वेऽपि प्राणवादिनोऽतिवादित्वोक्तयनन्तरं ‘‘एष तु वा अतिवदति यः सत्येनातिवदती’’ति तुशब्देनोपासकभेदं प्रतिपाद्य सत्योपासकस्य पूर्वस्मात्प्राणोपासकादाधिक्यकथनादतिवादित्वस्य स्वोपास्याधिक्यवादित्वरूपत्वात्सत्यशब्दावसेयं ब्रह्मैव भूमा सम्प्रसादात्प्राणशब्दिताज्जीवादूर्ध्वमुपदेशात् । अमृतत्वस्वमहिमप्रतिष्ठितत्वसर्वात्मत्वादिधर्माणामुपपत्तेश्च ब्रह्मैव भूमेति सिद्धान्त इत्याहुरित्यर्थः ।
तर्हि को विशेष इत्यत आह ॥ प्राणशब्दस्त्विति ॥ जीवग्रहे हेतुद्वयमाह ॥ प्राणो हेति ॥ सिद्धान्तस्य स्फुटत्वात्पूर्वपक्षस्यैवोपन्यासः । यदुक्तं प्राणशब्दश्चेतनपर इति तद्युक्तम् । लाक्षणिकत्वं त्वयुक्तमित्याह ॥ प्राणशब्दस्येति ॥ प्रसिद्धीति ॥ प्रागुक्तश्रुतिप्रसिद्ध्यनुसारेणेत्यर्थः । तदीयसूत्रार्थोऽप्ययुक्त इत्याह ॥ अत एवेति ॥ अतश्शब्दार्थं व्यनक्ति ॥ तथात्व इति ॥ त्वया तथोक्तत्वादिति भावः ॥ महतः परमव्यक्तमित्यादौ त्वन्मते जीवादधिकत्वेन निर्दिष्टे शरीरे ब्रह्मत्वाभावादप्रयोजकोऽयं हेतुरित्याह ॥ जीवेति ॥ त्वद्रीत्येति ॥ त्वन्मते तेषामब्रह्मत्वात्सत्यवाक्य इव श्रद्धात्वेवेत्याधिक्यद्योतकतुशब्दस्य श्रद्धादौ भावादिति भावः । तथा हि तद्भाष्यं ब्रह्मोपासनं सत्यं त्वेव विजिज्ञासितव्यमुपदिश्य तदुपायभूतं ब्रह्ममननं मतिस्त्वेव विजिज्ञासितव्येत्युपदिश्य श्रवणप्रतिष्ठार्थत्वान्मननस्य मननोपदेशेन श्रवणमप्यर्थात्सिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धां श्रद्धात्वेव विजिज्ञासितव्येत्युपदिश्ये’’त्यादि । ननु सम्प्रसादोऽस्मादिति श्रुतौ जीवे प्रसक्तेन जीववाचिना सौत्रसम्प्रसादशब्देन जीवस्योक्तेस्तदनुरोधात् श्रुतौ लक्षणाऽऽश्रीयत इत्यत आह ॥ सम्प्रसाद इति ॥ सम्प्रसादशब्दस्य जीवेऽभिधानाद्यभावेन रूढ्यभावात्स्वयोग्यकिञ्चित्पूर्णसुखवति तस्मिन् सम्बद्धं प्रसादशब्दितं सुखं यस्येति व्युत्पत्त्या सुखसम्बद्धो जीवः सम्प्रसादशब्देन ग्राह्यः । न चात्र मुख्यार्थस्य तत्सुखमित्युक्तस्य सन्निहितपूर्णसुखस्य त्यागेन जीवग्रहणे हेतुरस्ति । येन श्रुतौ तद्बलाल्लक्षणाऽश्रीयेतेत्यर्थः । किं च जीवादाधिक्येनोपदेशस्य वागादावपि सत्त्वात्तत्रापि व्यभिचार इति भावेनाह ॥ नामेति ॥ ‘‘नामाभिमानिनी चोषा तस्याब्रह्मपरं स्मरे’’दित्यादिछान्दोग्यभाष्योदाहृतस्मृत्येत्यर्थः । ‘‘धर्मोपपत्तेश्चे’’ति सूत्रार्थो न विरुद्ध इति न दूषितः । ‘‘प्रतिसूत्रं प्रकाश्येते घटनाघटने मये’’त्युक्तेः प्रायिकत्वाभिप्रायत्वादद्वैतमत एतत्सूत्रार्थस्यापि दूषणाच्च न प्रतिज्ञाविरोधः ।
एतेन रामानुजरीतिमनुसृत्य पूर्वोत्तरपक्षौ कुर्वतः कस्यचिच्छैवस्य मतं प्रत्युक्तं ध्येयम् । यदत्र सौत्रहेतोश्चन्द्रिकोक्तव्यभिचारनिरासाय सम्प्रसादाज्जीवादधिकात्मत्वेनोपदेशादित्यर्थ इत्युक्तं तन्न । सूत्रे अध्यात्मोपदेशादिति निर्देशाभावात् । यदत्रोक्तं शिवार्कमणिदीपिकायां ‘‘निरतिशयसुखवर्णनपरस्य भूमोपदेशस्यात्मविषयत्वं स्पष्टमिति हेतावपेक्षितमप्यात्मत्वविशेषणं सूत्रेन कृत’’मिति तन्न । अधिकत्वस्यापि स्पष्टत्वेनावाच्यत्वापातात् । भूमोपदेशस्यात्मविषयत्वाय निरतिशयसुखत्वस्य हेतुत्वेनावश्यकत्वेऽस्मन्मतरीत्या सम्प्रसादादित्यस्यैव तदर्थत्वस्य न्याय्यत्वेन तेनात्मत्वं प्रसाध्याधिकात्मत्वेनोपदेशादित्याद्युक्तेः क्लिष्टत्वात् । ‘‘भूमा नारायणाख्यस्स्यात्स एवाहं कृतिस्स्मृत’’ इत्यादिस्मृतिविरोधाद् भूमा शिव इति सिद्धान्तस्यानुत्थानाच्चेति ॥ स्पष्ट इति ॥ उपन्यासमुखेन विवृत इत्यर्थः ॥
पाण्डुरङ्गि
नन्वेवं प्रसादशब्दस्य सुखपरत्वे सम्प्रसादोऽस्माच्छरीरादिति श्रुतावपि सुखपरत्वं स्यात् । यदि च तत्र जीवपरत्वं तर्हि सम्प्रसादादिति सूत्रस्थप्रसादशब्दस्यापि जीवपरत्वमिति समानमित्यत आह ॥ सम्प्रसाद इति ॥ अल्पत्वं सुखविशेषणं तच्च तत्सुखं च तद्युक्तो जीव इति वदता दुःखबाहुल्यवज्जीवपरत्वं सम्प्रसादशब्दस्य न सम्भवति । न हि गङ्गायां घोष इत्यत्र गङ्गाशब्दस्तीरपर इत्येतावता गङ्गायां मत्स्य इत्यत्रापि तत्परो भवति । तदिह सम्प्रसादोऽस्माच्छरीरादित्यत्र बाधकसद्भावेन सम्प्रसादशब्दस्य जीवपरत्वेऽप्यन्यत्र न तत्परत्वम् । अन्यथाऽतिप्रसङ्गः स्यादिति भावः ॥
॥ इति भूमाधिकरणम् ॥ २ ॥