अन्ये तु
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु । जडरूपः पञ्चवृत्तिर्वायुरेव भूमेति प्राप्ते निर्विशेषब्रह्मैव भूमेति सिद्धान्त इत्याहुः । तन्न । पञ्चवृत्तौ ‘‘तरति शोकमात्मवि’’दित्युपक्रमस्थात्मशब्दादेः ‘‘भूमैव सुख’’मित्युक्तसुखत्वस्य चायोगेन पूर्वपक्षस्यातितुच्छत्वात् । प्राणशब्दश्च ‘‘ते ह प्राणा अहं श्रेयसि व्यूदिरे । अहं श्रेयानस्म्यहं श्रेयानस्मीति । तान्वरिष्ठः प्राण उवाचे’’त्यादौ तदभिमानिदेवतायामेव प्रसिद्धः । सिद्धान्तोऽप्ययुक्तः । उक्तरीत्योपक्रमानुगुणस्य गुणज्यैष्ठ्यरूपस्योत्तमत्वस्य निर्गुणेऽयोगात् । कल्पितज्यैषठ््यस्य च ‘‘भूमात्वेव विजिज्ञासितव्यः । भूमानं भगवो विजिज्ञासे’’ इत्युक्तं चरमकक्ष्यात्वेन मुमुक्षुजिज्ञास्यत्वमयुक्तम् । किञ्च ‘‘सर्वेषु लोकेषु कामचारो भवती’’ति यद्भूमज्ञानफलं श्रुतं तदप्ययुक्तम् । निर्विशेषज्ञानस्य हि सर्वलोकानां कामस्य च निवृत्तिः फलम् । न तु तत्र कामचारः ।
प्रकाशिका
अन्ये त्विति ॥ ‘‘भूमात्वेव विजिज्ञासितव्यः । भूमानं भगवो विजिज्ञास’’ इत्यादौ श्रुतभूमा जडवायुरुत ब्रह्मेति संशये ‘‘अस्ति भगवो नाम्न’’ इत्यारभ्याऽऽप्राणात्प्रवृत्तस्य भूयो विषयप्रश्नप्रतिवचनप्रवाहस्य प्राणेपरिसमाप्त्या प्राणानन्तरं प्रश्नप्रतिवचनाभ्यां विनाभूम्न आम्नानाद्भूमा प्राणशब्दितो वायुरेव । किञ्च भूमेति भावप्रत्ययान्तत्वाद्भावस्य भवितृसापेक्षत्वात्प्राणस्यैव चानन्तर्येण बुद्धौ सन्निधानात्तस्यैव भवितृत्वेनान्वयः । न तु तरति शोकमात्मविदित्युक्तः परमात्मा । विप्रकृष्टत्वात् । न च ‘‘तरति शोकमात्मवि’’दित्यादिनाऽऽत्मनः प्रकरणादात्मैव बुद्धिस्थइत्यात्मप्रकरणेन सन्निधिबाधात्स एव भूमेति युक्तम् । नामवागादिप्रतीकोपदेशरूपाब्रह्मविषयोत्तरानुसारेणोपक्रमस्याप्यब्रह्मविषयत्वेन ब्रह्मप्रकरणस्यानुत्थानात् । किं च प्राणतत्वमुपदिश्य प्राणोपासकस्यातिवादित्वनामकोत्कर्षमभिधाय प्राणप्रकरणविच्छेदशङ्कानिवृत्तये तदेवातिवादित्वमनुवर्त्य भूमानमुपदिशत्प्राणभूम्नोरभेदं गमयति । यस्मात्प्राणो भूमा । सुखत्वामृतत्वादिकं च कथञ्चिन्नेयमिति प्राप्ते ‘‘एष तु वा अतिवदति यस्सत्येनातिवदती’’त्यत्रातिवादित्वहेतुप्राणोपासनं तुशब्देन व्यावर्त्य मुख्यातिवादित्वहेतोब्रर्ह्मणस्सत्यशब्देन परमार्थसत्त्ववाचिना पृथगुपदेशात् तथा परमोपक्रमे ‘‘तरति शोकमात्मवि’’दिति वेद्यतया परमात्मन उच्यमानत्वान्निर्विशेषब्रह्मज्ञानोपयोगितया नामाद्यब्रह्मोपदेशोपपत्तेर् आत्मप्रकरणेन च सन्निधानबाधात् तथा ‘‘यत्र नान्यत्पश्यती’’ति द्वैतनिषेधेन भूम्नो लक्षणाभिधानेनाद्वैतः परमात्मैव भूमेति सिद्धान्त इत्याहुरित्यर्थः ॥ जडेति ॥ ‘‘पञ्चवृत्तेः प्राणस्ये’’ति तदीयभाष्योक्तेरिति भावः ॥ आत्मशब्दादेरिति ॥ आत्मशब्दस्य मुक्तिहेतुवेदनविषयत्वादेश्चाचिद्व्यावर्तकत्वेन पूर्वाधिकरणईक्षत्यधिकरणादौ चोक्तत्वात् । सुखस्य चेतनमात्रलिङ्गत्वादिति भावः । ननूक्तमत्र भामत्यां नामादिप्रतीकोपदेशरूपेणोत्तरेण ब्रह्मविषयेण तरति शोकमात्मविदिति प्रश्नस्याप्यब्रह्मविषयत्वं वाच्यम् । अन्यथा प्रश्नोत्तरयोर्वैयधिकरण्यापत्तेः । अतो न ब्रह्मप्रकरणोत्थानमिति चेन् निर्विशेषब्रह्मज्ञानोपयोगितया नामाद्यब्रह्मोपदेशोपपत्त्या सावकाशेन नामाद्यब्रह्मोपदेशरूपोत्तरेण प्रश्नस्थात्मश्रुतेर्मुक्तिहेतुवित्ति विषयत्वस्य च बाधायोगाद् अन्यस्य च प्रबलजडप्रापकस्याभावात्सन्निहितसुखत्वस्य सर्वथा जडेऽनुपपत्तेश्चेति ।
ननु जडे प्राणश्रुतिप्रसिद्ध्यनुरोधेन सुखत्वं दुःखराहित्याद्याशयेन नेयमित्यत आह ॥ प्राणशब्दश्चेति ॥ प्राणा इन्द्रियाभिमानिनः । व्यूदिरे विवादमकुर्वन् । प्राणः मुख्यप्राणः । एषा छन्दोगश्रुतिः । ‘‘तान्वरिष्ठः प्राण उवाच । मामोहमापद्यथ । अहमेवैतत्पंचधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्यविधारयामी’’ति षट्प्रश्ने । आदिपदेन ‘‘तेहेमेप्राणा अहं श्रेयसि विवदमाना ब्रह्मजग्मुः । तद्धोचुः कोनो वरिष्ठ’’ इति वाजसनेयश्रुतिर्ग्राह्या । एव शब्देनाभिमान्यधिकरणन्यायेन तत्र मुख्यत्वं सूचितम् । श्रुतीनां जडपरत्वे वचनादेरयोग इति भावः । एतेन नामवाक्चित्तसङ्कल्पादि जडप्रायपाठात्प्राणो जड इति निरस्तम् । श्रौतप्रसिद्ध्या प्रायपाठबाधात् । त्वन्मत आनन्दमयनये ‘‘असन्नेव सभवती’’त्यानन्दमय पुच्छविषय श्रुत्या पुच्छस्य ब्रह्मत्वबोधिन्याऽन्नमयाद्य ब्रह्मपुच्छप्रायपाठबाधवत् । नामादि शब्दानामभिमानिनयन्यायेन ‘‘नामाभिमानिनीचोषे’’त्यादि वक्ष्यमाणस्मृत्याच चेतनार्थत्वेन जडप्रायपाठाभावाच्चेति । भूमत्वं च किं वास्तवमुत कल्पितम् । न द्वयमपीत्याह ॥ उक्तरीत्येति ॥ ‘‘न हि देशतः पूर्णत्वं भूमत्व’’मित्यादिना पूर्वोक्तरीत्येत्यर्थः । उत्तमत्वस्य भूमत्वस्य ॥ इति यद्भूमज्ञानफलमिति ॥ यद्यपि भूमवाक्यादुपरि ‘‘अथात आत्मादेश’’ इत्युक्तात्मवाक्ये ‘‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानंदस्सस्वराट् भवति । तस्य सर्वेषु लोकेषु कामचारो भवती’’त्यात्मज्ञानस्यैव फलं श्रुतम् । तथापि भूमात्मनोरभेदादेवमुक्तम् ।
पाण्डुरङ्गि
नन्वेतत्तदास्याद्यदिगुणज्यैष्ठ्यरूपमुत्तमत्वं स्यात् । न चैवम् । देशतः पूर्णत्वस्यैव भूमत्वपदार्थत्वात् । तस्य च निर्गुणेऽपि सम्भवादित्यत आह ॥ उक्तरीत्येति ॥ देशतः पूर्णत्वं न भूमत्वम् । वाग्वाव नाम्नो भूयसीत्यादि वाक्येषु पूर्वत्र सर्वत्र भूयस्त्वस्य देशतः पूर्णत्वस्यासम्भवेन तत्र तस्यैव वक्तव्यत्वादित्युक्तरीत्येत्यर्थः । ननु तात्त्विकस्य गुणज्यैष्ठ्यरूपभूमत्वस्य निर्गुणेऽसम्भवेऽपि कल्पितस्य गुणज्यैष्ठ्यस्य तत्र सत्त्वेन सिद्धान्तो युक्त एवेत्यत आह ॥ कल्पितेति ॥