सिद्धान्तस्तु
सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु । ‘‘यो वै भूमा तत्सुख’’मिति भूम्नः पूर्णसुखतोक्ता । सा च ‘‘विश्वशम्भुव’’मित्यादिभाष्योक्तश्रुत्यादिभिर्विष्ण्वेकनिष्ठा । न हि द्वयोः सर्वोत्कृष्टानन्दत्वम् । विरोधात् । तत्सुखमित्यत्रामुख्यभूतापूर्णसुखोक्तौ तु मुख्यामुख्यन्यायबाधः । नाल्पे सुखमिति निषेधायोगश्च । जडे सुखस्याप्रसक्तेः । चेतने च सुखमात्रनिषेधे बाधात् । पूर्णसुखनिषेधस्तु चेतनेन बाधितः । किं चायं चरमकक्ष्यापन्नो भूमा सर्वोत्तमः । प्राणभूम्नोरभेदपक्षे ‘‘वाग्वाव नाम्नो भूयसी’’त्यादाविव प्रतियोगिविशेषानुपादानात् । भेदपक्षे प्राणादप्युत्तमत्वात् । ‘‘नाल्पे सुख’’मिति निरुपपदाल्पस्य प्रतियोगित्वेनोपादानाच्च । असर्वोत्तमस्य कस्माच्चिदल्पत्वेन निरुपपदाल्पस्य तत्प्रतियोगित्वायोगात् । तच्च ‘‘विश्वतः परमा’’मित्यादिभाष्योक्तश्रुत्यादिभिर्विष्ण्वेकनिष्ठम् । न च द्वयोः सर्वोत्तमत्वम् । विरोधात् । तस्माद्भूमा विष्णुः ।
प्रकाशिका
पराभिमतहेत्वोरनुक्तयुत्क्रमणयोस्सावकाशतामग्रे विवक्षुस्सूत्रोपात्तसम्प्रसादादिहेतुना भूमा विष्णुरित्युक्तिपरां ‘‘विष्णुरेवायं भूमे’’त्यादिटीकां विवृण्वन् सिद्धान्तयति ॥ सिद्धान्तस्त्विति ॥ ‘‘पूर्णसुखरूपत्वाभिधानान्नामादीनां सर्वेषामुपरि तदुत्तमत्वेन व्यपदेशाच्चे’’ति टीकोक्तहेत्वोः ‘‘पूर्णसुखत्वादिकं च कुतो विष्णुत्वनिश्चायक’’मित्यादिटीकोक्तनिरवकाशतां क्रमेण विवरिष्यन्नाद्यस्य तां तावदाह ॥ यो वै भूमेत्यादिना ॥ विश्वशम्भुवं पूर्णसुखाश्रयमित्यर्थः ।
लक्षणं परमानन्दो विष्णोरेव न संशयः ।
अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः ॥ इति
सुखं लब्ध्वा हि कुरुते लोकचेष्टां जनार्दनः ।
अल्पात्सुखादल्पकर्मा पूर्णानन्दाद्धि सर्वकृत् ॥
इत्यादिस्मृतयस्सर्वकर्तृत्वादियुक्तयश्चादिपदार्थाः । वायोरप्यस्त्वित्यत आह ॥ न हीति ॥ एतेन ‘‘नापि पूर्णानन्दत्व’’मिति टीकायां विरोधादिति पदमत्राप्यनुवर्त्य योज्यमिति सूचितम् । सर्वशब्दस्यासङ्कुचितत्वेनान्योन्यनिरूपितोत्कर्षस्य द्वयोरयोगादित्यर्थः । ननु ‘‘पूर्णसुखतोक्ते’’ त्ययुक्तम् । अश्रवणात् । सुखशब्दस्यापूर्णसुखार्थत्वेऽप्युपपत्तेरित्यतः ‘‘पूर्णसुखत्वाभिधाना’’ दिति हेतोरसिद्धिं परिहर्तुं प्रवृत्तां ‘‘निरूपपदसुखशब्दमात्रस्यापि पूर्णसुखार्थत्वा’’दिति टीकां विपक्षे बाधकोक्तया व्यनक्ति ॥ तत्सुखमिति ॥ ‘‘मुख्यामुख्ययोर्मुख्ये सम्प्रत्यय’’ इति न्यायबाध इत्यर्थः । इह सुखशब्दः पूर्णसुखवाचीत्यत्र ‘‘करोति नासुखी भूमा सुखं नाल्पे सुखं भवे’’दित्यानन्दमयनयानुव्याख्याने ‘‘पूर्णमेवात्र सुखं विवक्षितम् । नाल्पे सुखमस्तीत्युक्तत्वा’’ दितीह तत्वप्रदीपे चोक्तदिशाऽर्थापत्तिं चाह ॥ नाल्प इति ॥ ‘‘यो वै भूमा तत्सुख’’मित्युक्त्वा ‘‘नाल्पे सुख’’मिति निषिध्यते । तत्राल्पशब्देन जडं चेतनं वा वाच्यम् । आद्ये जडे सुखस्याप्रसक्तेरप्रसक्तनिषेधापातात् । न च ‘‘नान्तरिक्षे न दिवी’’तिवन्नित्यानुवादः । व्यर्थत्वात् । नान्तरिक्ष इत्यादेस्तूपयोगोंऽतर्यामिनये व्यक्तः । अतश्चेतन एव निषेध इति वाच्यम् । तत्र चाहं सुखीत्यादिप्रत्यक्षादिना सुखस्य प्रमितत्वेन सुखमात्रनिषेधे बाधापत्तेः । अतः ‘‘अपशवो वा अन्ये गो अश्वेभ्य’’ इत्यत्र प्रशस्तपशुत्वनिषेधवत्पूर्णसुखमेव निषिध्यत इत्युपेयम् । तादृशस्य जीवेऽभावेन बाधाप्रसक्तेः । अतस्तत्र सुखनिषेधान्यथानुपपत्त्या च पूर्णसुखमेव सुखशब्दार्थ इत्यर्थः ।
एवं सौत्रसम्प्रसादशब्दितं पूर्णसुखत्वरूपं टीकाद्युक्तमाद्यहेतुं समर्थ्य अध्युपदेशशब्दितस्य ‘‘सर्वेषामुपरि तदुत्तमत्वेन व्यपदेशाच्चे’’ति द्वितीयहेतोरपि भूम्नयसिद्धिं परिहरन्विष्ण्वेकनिष्ठतामाह ॥ किं चेति ॥ प्रतियोगीति ॥ एतस्माद्भूयानित्यवधिविशेषानिर्देशादित्यर्थः । ननु प्राणभूम्नोरभेदे ‘‘प्राणो वा आशाया भूया’’नित्याशारूपप्रतियोगिविशेषोपादानमस्ति । न च तत्प्राणस्यैव न तु भूम्न इति युक्तम् । द्वयोरेकत्वादिति चेन्न । प्राणशब्दस्य वायुपरत्वमुपेत्यैव तदन्तर्यामितया विष्णोः प्राणशब्दितत्वोपगमेनाशोत्तमत्वस्य प्राणगतत्वात् । ‘‘महतः परमव्यक्त’’मित्यादावन्यगतोच्चत्वनीचत्वनियामकत्वेन तच्छब्दार्थतया तत्र स्थितत्वस्यानुमानिकनये वक्ष्यमाणदिशा प्राणगताशोत्तमत्वादिनियन्तृतया तत्र हरेः प्राणपदेन ग्रहणाद्भूमगतोत्तमत्वं प्रत्याशायाः प्रतियोगित्वाभावात् । अन्यथा वायोरुत्तमतानुक्तिप्रसङ्गात् । एवं च तस्यावधिविशेषमनुपादायैव सर्वान्ते पाठात्सर्वोत्तमत्वसिद्धिरिति भावः । एतेन ‘‘विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति । न चेदमसिद्धम् । नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वा’’दिति सुधावाक्यं विवृतं ध्येयम् ॥ प्राणादपीति ॥ सर्वोत्तमादपि प्राणादित्यर्थः । अल्पस्य भूमप्रतियोगित्वेनोपादानेऽपि कथं सर्वोत्तमत्वलाभ इत्यत आह ॥ असर्वेति ॥ एवं टीकाद्युक्तमध्युपदेशहेतुं सुधारीत्या सर्वोत्तमत्वरूपं भूम्नयुपपाद्य वैष्णवत्वं तस्याह ॥ तच्चेति ॥ सर्वोत्तमत्वं ‘‘विश्वतःपरमां सर्वतः परममकारवाच्यमित्यर्थः’’इति टीकायां व्यक्तम् । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । न त्वत्समोस्त्यभ्यधिकः कुतोऽन्य’’ इत्यादिरादिपदार्थः । ‘‘न च सर्वोत्तमत्वं वायोरपि । विरोधादेवेति टीकार्थमाह ॥ न चेति ॥ सर्वशब्दस्यासङ्कुचितत्वेनान्योन्यनिरूपितोत्तमत्वस्य द्वयोर्विरुद्धत्वादित्यर्थः । सूत्राद्युक्तहेतुद्वयसमर्थ नमुपसंहरन् साध्यमाह ॥ तस्मादिति ॥ सम्प्रसादादिनिरवकाशहेतुद्वयादित्यर्थः ।
पाण्डुरङ्गि
विरोधादिति ॥ सर्वशब्दस्य स्वेतरसर्वपरत्वेन एकस्य सर्वोत्तमत्वे अन्यस्य तद्धीनत्वापत्तौ पुनस्तस्य सर्वोत्तमत्वे विरोधात् । अन्यस्य वाऽधमत्वप्राप्त्या विरोधादित्यर्थः । एकप्रतियोगिकोत्कर्षापकर्षयोरेकत्र व्याहतत्वादित्याशयः ॥ प्रतियोगिविशेषेति ॥ निर्विशेषणभूमशब्दस्य निरूपचरितसर्वोत्तमपरत्वेप्रतियोगिविशेषोक्तिरूपापवादकाभावाच्चरमकक्ष्यापन्नत्वेन सर्वोत्तमत्वमित्यर्थः ॥ असर्वोत्तमस्येति ॥ तथा सति नाल्प इत्यनेन भूम्नयपि सुखनिषेधापत्त्या भूमैव सुखमित्यनेन विरोधापत्तेरिति भावः ॥