पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु । भूमा मुख्यवायुरेव । ‘‘प्राणो वा आशायाभूया’’निति प्राणशब्देनोपक्रमात् । भूम्नो ब्रह्मत्वं हि द्वेधा भवेत् । प्राणो वायुरेव भूमा तु ब्रह्मेति प्राणभूम्नोर्भेदेन वा प्राणो भूमा च ब्रह्मैवेति तयोरभेदेन वा । नाद्यः । प्राणादुत्तममनुक्त्वा भूम्न आम्नानाद् यदि हि नामादिभ्यो वागादिवत्प्राणाद्भूमाऽन्यः स्यात्तदा ‘‘अस्ति भगवो नाम्नो भूय’’ इत्यादिप्रश्नवत् ‘‘वाग्वाव नाम्नो भूयसी’’त्यादिप्रतिवचनवच्च अस्ति भगवः प्राणाद्भूय इति प्रश्नः भूमा वाव प्राणाद्भूयानिति प्रतिवचनं च स्यात् । भूम्नः सर्वोत्तमत्वार्थमेव नामवागादितारतम्यस्य प्रक्रान्तत्वात् । न च यदर्थमन्यत्प्रक्रान्तं तदनुक्तिर्युक्ता । अत एव टीकायां ‘‘तारतम्यमाशावसानमुक्त्वे’’ त्युक्तम् । तदुक्तं न्यायविवरणे ‘‘प्राणो वा आशायाभूयानित्युक्त्वा प्राणाद्भूयसोऽनुक्ति’’रिति । विष्णुसमाख्या तु प्राणोपक्रमाद्दुर्बला ।
न द्वितीयः । ‘‘अत एव प्राण’’ इत्युक्तरीत्या प्राणशब्दस्य ब्रह्मपरत्वसम्भवेऽपीह ‘‘उत्क्रान्तप्राणा’’निति प्राण उत्क्रमणश्रवणात्तस्य च पूर्णे ब्रह्मण्ययोगात् । तदुक्तं भाष्ये ‘‘उत्क्रान्तप्राणानित्यादितल्लिङ्गा’’दिति । वायोर्भूमत्वे तु तद्युक्तम् । न हि देशतः पूर्णत्वं भूमत्वम् । ‘‘वाग्वाव नाम्नो भूयसी । वाग्वाव ऋग्वेदं विज्ञापयति यजुर्वेदं स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते’’ इत्यादिषु वाङ्मनःसङ्कल्पादिवाक्येषु पूर्वत्र सर्वत्र भूयस्त्वस्य गुणज्यैष्ठ्यरूपतया भूमेत्यत्रापि तस्यैव वक्तव्यत्वात् । अत एव टीकायां ‘‘प्राणस्योत्तमत्व’’मित्युत्तमशब्दः । आनन्दमय उक्तमानन्दस्य पूर्णत्वं च न देशतः,किंतु नीलतमत्वविद्वत्तमत्वादिवत्सर्वस्मात्सजातीयादुत्कृष्टत्वम् । अन्यथा ‘‘ते ये शतं मानुषा आनन्दाः, स एको मनुष्यगन्धर्वाणामानन्द’’ इत्याद्ययोगात् । न हि मानुषाद्यानन्देभ्यो मनुष्यगन्धर्वाद्यानन्दा देशतः शतगुणिताः । एवंविधपूर्णानन्दत्वं चाणोरपि वायोर्युक्तमिति युक्तष्टीकोक्त आनन्दमयाक्षेपः ।
न च भूम्नः ‘‘स एवाधस्तात्स उपरिष्टात्स पश्चा’’दिति वाक्यशेषस्थसर्वगतत्वविरोधेनोत्क्रमणं गौणमिति युक्तम् । श्रौतोत्क्रमणविरोधेन अधस्तादुपरिष्टादित्याद्यनेकपदसमभिव्याहाररूपवाक्यगम्यसर्वगतत्वस्यैव गौणत्वात् । ब्रह्मणस्तु सर्वगतत्वं श्रुत्यन्तरादिसिद्धम् । एवं च पूर्णानन्दत्वादिरूपं सिद्धान्ते हेतूकृतं सम्प्रसादादिकं पूर्वपक्षिणा वायौ शङ्क्यत इति न भूम्नो ब्रह्मता ।
न च वाच्यं ‘‘अन्यभावव्यावृत्ते’’रित्यत्र ब्रह्मणो महत्त्वेऽप्यणुत्वं वक्ष्यते । अणुत्वमेव च क्रियावत्त्वे तंत्रम् । न तु महत्त्वाभावविशिष्टम् । न वा महत्त्वाभावः । गौरवादिति । महत्त्वमेवाक्रियत्वे तन्त्रम् । न त्वणुत्वाभावविशिष्टम् । न वाऽणुत्वाभाव इत्यपि सम्भवात् । सर्वत्रप्रसिद्धेत्यत्र तु सर्वगतस्यापि व्योमदृष्टान्तेनैकदेशगतत्वमुक्तम् । न तु सक्रियत्वम् । ‘‘ज्योतिर्दर्शना’’दित्यत्र तु ‘‘स समानः सन्नुभौ लोकावनुसंचरती’’त्युक्तं यत्कर्मवशेनोभयलोकसंचरणं तत्कर्मातीतस्य ब्रह्मणो न युक्तमिति शङ्का । नेदं संचरणं कर्मवशात् । किं तु स्वेच्छयेति परिहारश्च । न तु पूर्णस्य क्रियानुपपत्त्या शङ्कातत्परिहारौ । अत एव तत्र पूर्वपक्षे टीका ‘‘जीवस्य हि कर्मवशादुभयलोकसंचरणं युक्त’’मिति । सिद्धान्तन्यायविवरणं च ‘‘लोकसंचरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्या’’दिति । न च ‘‘शास्त्रदृष्ट्ये’’ति न्यायेनान्तर्यामिगता क्रिया । ‘‘एष म आत्मांऽतर्हृदये ज्यायान्पृथिव्या’’ इत्यादिश्रुत्या तस्यापि सर्वगतत्वात् । यदि च सर्वगतस्यापि क्रिया तदा ‘‘उत्क्रान्तिगत्यागतीना’’मित्यत्र जीवस्य सक्रियत्वेनाणुत्वोक्तिरयुक्ता स्यादिति ।
प्रकाशिका
प्राणभूम्नोर्भेदपक्षेऽभेदपक्षे चानुक्तिरुत्क्रमणलिङ्गं च क्रमेण पूर्वपक्षप्रापके इति भावेन ‘‘मुख्यप्राणोऽयं भूमेति पूर्वपक्ष’’ इत्यादिटीकां विवृण्वन्पूर्वपक्षयति ॥ पूर्वपक्षस्त्विति ॥ नामेत्यारभ्याभिधायेत्यन्तटीकायास्तात्पर्योक्तिराशाया भूयानिति । ‘‘प्राणशब्देनोपक्रमा’’दिति टीकायामेवमनुक्त्वाऽन्यथोक्तेरुपयोगोऽग्रे स्पष्टः । ‘‘तदुत्तममनुक्त्वा भूम्न आम्नातत्वा’’दिति टीका प्राणभूम्नोर्भेदपक्ष एव योज्येति भावेन विकल्पयति ॥ भूम्न इति ॥ ‘‘तदुत्तम’’ मित्यादिटीकां योजयति ॥ नाद्य इत्यादिना ॥ ननु प्राणाद्भूयसोऽनुक्तिर्न प्राणस्य भूमत्वसाधिका । विद्यमानस्यापि प्राणादुत्तमस्यानुक्तिसम्भवात् । अतोऽप्रयोजको हेतुरित्यत आह ॥ भूम्न इति ॥ एवं भूयसोऽनुक्तेर्निरवकाशत्वमुपपाद्य टीकारूढं करोति ॥ अत एवेति ॥ भूम्नस्सर्वोत्तमत्वार्थं तारतम्यस्य प्रक्रान्तत्वादेवावश्यवक्तव्यत्वस्फोरणाय तथोक्तमित्यर्थः । भाष्येऽप्रतीतावपि टीकायामेवमुक्तेर्मूलमाह ॥ तदुक्तमिति ॥ ‘‘न च विष्णोरपि भूमत्वस्ये’’त्यादिटीकार्थमाह ॥ विष्णुसमाख्या त्विति ॥ ननु समाख्यापि साभ्यासत्वादिना प्रबलेति चेन्न । निरवकाशानुक्तिसाहित्येन प्राणोपक्रमस्य ततोऽपि प्राबल्यमित्याशयात् ।
ननु ‘‘प्राणो वा आशाया भूयानित्युक्तप्राणस्य अत एव प्राण इत्युक्तरीत्या विष्णुपरत्वा’’ दित्यादिटीकां व्याचष्टे ॥ न द्वितीय इत्यादिना ॥ इहेति ॥ विषयवाक्ये ॥ उत्क्रमणश्रवणादिति ॥ तथा च तत्रेवात्र निरवकाशविष्णुलिङ्गाभावात्प्रत्युत विपरीतलिङ्गभावान्न तन्न्यायविषयत्वमस्येति भावः । पूर्णे देशादितो व्याप्ते देहादुत्क्रमणायोगादित्यर्थः । भाष्यं तद्व्याख्यानं चोक्तदिशा द्वितीयपक्षनिरासपरमिति भावेनाह ॥ तदुक्तमिति ॥ ननु ‘‘उत्क्रान्तिगत्यागतीना’’मित्यादौ वक्ष्यमाणदिशा वायोरप्यणुत्वात्कथं तस्य भूमत्वं पूर्णसुखत्वं वा स्यादित्यतः ‘‘तस्य च वायावेव सम्भवा’’दिति टीकां विवृण्वन्नाह ॥ वायोरिति ॥ ‘‘वाग्वाव ऋग्वेद’’मित्यादि गुणकथनम् । ‘‘स यदा मनसे’’ति मनःप्रकरणगतवाक्यम् । नन्वत्र भूम्नस्स एवाधस्तादित्यादिना सर्वगतत्वेन श्रुतस्य वायुत्वे वायोरपि सर्वगतत्वापत्त्या ब्रह्मणीव वायावप्युत्क्रमणमयुक्तम् । तत्रोपचरितं चेद्ब्रह्मण्यपि तथोपेत्य भूमत्वमुच्यतामिति भावेनाशङ्क्य निराह ॥ न च भूम्न इति ॥ गौणमिति ॥ मनोगतमेवात्र भातीत्यर्थः ॥ श्रौतेति ॥ उत्क्रान्तेति पदश्रुत्या प्रतीतेत्यर्थः । ब्रह्मणोऽप्यत्रोक्तं सर्वगतत्वं सङ्कुचितमुपेत्योत्क्रमणं च मुख्यमङ्गीकृत्य भूमत्वमुच्यतामित्यत आह ॥ ब्रह्मणस्त्विति ॥ ‘‘सर्वगतं सुसूक्ष्मम् अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’’ इत्यादिश्रुत्यन्तर इत्यर्थः । एतेन ‘‘सर्वगते हरावसम्भवा’’दिति टीका विवृता । नन्वथापि तत्सुखमित्युक्तपूर्णसुखत्वाध्युपदेशादिना भूमा विष्णुः किं न स्यादित्यत आह ॥ एवं चेति ॥ अधिकरणान्तरन्यायैरेवोत्क्रमणस्यापि भगवति सिद्धेर्न तेनेह पूर्वपक्षोदय इति भावेनाशङ्क्य निराह ॥ न चेत्यादिना ॥ इत्यत्रेति ॥ उत्तराधिकरणगुणसूत्र इत्यर्थः । न त्विति ॥ येन ब्रह्मणि महत्त्वस्यापि भावात्क्रियावत्त्वं न स्यादिति वाक्यशेषः ॥ गौरवादितीति ॥ न च वाच्यमिति पूर्वेणान्वयः । अभावघटितत्वादिति भावः ॥ इत्यपि सम्भवादिति ॥ तथा च ब्रह्मणि सत्यप्यणुत्वेन तेनोत्क्रमणादिक्रियावत्त्वसिद्धिः । महत्त्वस्याक्रियत्व प्रयोजकस्याकाशादाविव भावादिति भावः ॥ उक्तमिति ॥ ‘‘अर्भकौकस्त्वा’’दित्यादिगुणसूत्रेणेत्यर्थः ॥ ज्योतिरिति ॥ अत्र सिद्धक्रियावत्त्वमुपेत्यैव विशेषशङ्कया तत्प्रवृत्तमित्यर्थः । पूर्णस्य देशतो व्याप्तस्य ॥ अन्तर्यामिगता क्रियेति ॥ प्राणसंवादादिलिङ्गवदिति भावः ॥
तस्यापि सर्वगतत्वादिति ॥ ‘‘तत्प्राण उत्क्रान्तेऽपद्यते’’त्यादिप्राणोत्क्रमणादि त्वत्रत्यन्यायेनान्तर्यामिगतत्वेन तत्राभिमतम् । न तु तत्रैव तत्सिद्धमिति भावः । एतेन ‘‘सर्वगते हरावसम्भवा’’दिति टीकावाक्यम् अणुत्ववत्यपि हरौ सर्वगतेऽसम्भवादिति व्योमवदेकदेशगतेऽपि हरौ सर्वगतेऽसम्भवादिति अन्तर्यामिण्यपि सर्वगते हरावसम्भवादित्यादि रूपेण व्याख्यातं भवति ॥ उत्क्रान्तीति ॥ द्वितीयस्य तृतीयपादे ‘‘उत्क्रान्तिगत्यागतीना’’मित्यत्र जीवः किं व्याप्तोऽणुर्वेति सन्देहे ‘‘व्याप्ता ह्यात्मान’’ इति श्रुतेर्व्याप्त इति प्राप्ते ‘‘सोऽस्माच्छरीरादुत्क्रम्यामुं लोकमभिगच्छत्यमुष्मादिमं लोकमागच्छती’’त्युत्क्रमणगमनागमनरूपक्रियादर्शनाद्व्याप्तस्य तदयोगादणुरेव । व्याप्तत्वश्रुतेः परमात्मविषयत्वमिति वक्ष्यमाणत्वात्तद्विरोधस्स्यादित्यर्थः ।
पाण्डुरङ्गि
उत्क्रमणानुक्तयोरेकत्राऽसम्भवात्पक्षभेदेन व्यवस्थापनायाह ॥ भूम्नो ब्रह्मत्वं हि द्वेधा भवेदित्यादिना ॥ प्राणभूम्नोरभेदपक्ष इत्यादिनैतद्विवेकं स्वयमेव करिष्यति । ननु सर्वगतत्वेन ब्रह्मण उत्क्रमणायोगेन तस्य भूमत्वानङ्गीकारे वायोरेव सर्वगतत्वापत्त्योत्क्रमणानुपपत्तिरित्यत आह ॥ वायोरिति ॥ ननु वायोरणुत्वेन तस्यैवानन्दमयत्वमिति टीकोक्ताक्षेपानुपपत्तिः । आनन्दमय उक्तस्य देशतः पूर्णत्वस्याणौ वायावसम्भवादित्यत आह ॥ आनन्दमय इति ॥