०९ अद्वैतमतपरीक्षा

अन्येतु

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु । ‘‘अमृतस्यैषसेतु’’रिति द्युभ्वाद्यायतनममृतसम्बन्धित्वेन सेतुत्वेन च श्रूयते । न च ब्रह्मणोऽन्यदमृतमस्ति । येन ब्रह्म तत्सम्बन्धि स्यात् । सेतुश्च पारवान् । ब्रह्मतु अपारम् । तस्मान्न द्युभ्वाद्यायतनं ब्रह्म । किं तु रुद्रवायुप्रधानजीवादिरेवेति प्राप्ते प्रधानादेरपि जलविधारकत्वादेरभावेन न रूढं सेतुत्वम् । यौगिकं तु भावप्रधानामृतशब्दार्थमोक्षधारकत्वाद् ब्रह्मणोऽप्यस्ति । यद्वा श्रुतावेतच्छब्दो न ब्रह्मपरः । किन्तु ‘‘तमेवैकं जानथे’’ति विधेयत्वेन शब्दतः प्रधानतया प्रस्तुतज्ञानपरः । तस्यामृतत्वसाधनत्वाद्गौणं तत्सेतुत्वमिति सिद्धान्त इत्याहुः । तन्न । ब्रह्मण्यत्यन्तायुक्तेन जायमानत्वलिङ्गेनैव पूर्वपक्षौचित्यात् । ब्रह्मणोऽन्यदमृतं नेति पूर्वपक्षेपि जीवादावमृतसेतुत्वस्य दुर्वचत्वाच्च । सिद्धान्ते जायमानत्वलिङ्गस्य गत्यनुक्तेश्च । सत्यस्य मोक्षस्याद्वैतिमते ब्रह्ममात्रत्वेन ब्रह्मणस्तद्धारकत्वायोगाच्च । मुक्तिः पञ्चमप्रकारेति मतेऽप्यविद्या जीवाश्रितेति पक्षे तद्ध्वंसस्यापि तदाश्रितत्वात् । चिन्मात्राश्रितेति पक्षेऽपि मोक्षस्य बन्धाश्रयजीवाश्रितत्वात् । बन्धस्यापि चिन्मात्राश्रितत्वेच श्यामत्वादिवत्संसारस्य प्रतिबिम्बनिष्ठत्वोक्तययोगात् ।

यच्चोक्तं श्रुतावेतच्छब्दो ज्ञानपर इत्यादि । तन्न । ‘‘एषसेतुर्विधृति’’रिति श्रुत्यन्तरे सेतुत्वेन प्रसिद्धब्रह्मण एवेह प्रत्यभिज्ञानात् । अस्यामेव श्रुतौ ‘‘स एषोऽन्तश्चरत’’ इति ‘‘दिव्ये ब्रह्मपुरे ह्येष व्योम्नयात्मा सम्प्रतिष्ठित’’ इत्युत्तरवाक्यस्थस्यैतच्छब्दस्य ब्रह्मपरत्वदर्शनाच्च । सिद्धरूपाभिधायिनः पुल्लिङ्गस्यैतच्छब्दस्य पुल्लिङ्गेन तच्छब्देनात्मशब्देन चाव्यवधानेन प्रकृतसिद्धरूपात्मपरत्वसम्भवेऽपि तद्विपरीतज्ञानपरत्वायोगाच्च । किं चाद्यसूत्रे द्युभ्वाद्यायतनत्वं नाम परमते निर्विशेषस्य तद्भ्रमाधिष्ठानत्वम् । तथाच श्रुतावोतशब्दः सूत्रे चायतनशब्दश्चायुक्तः । न हि शुक्तौ रूप्यमोतमित्युच्यते ।

यच्चोक्तं स्वशब्दादित्यनेनात्मशब्दादित्युच्यते । सहि ब्रह्मणः शब्द इति । तन्न । आत्मशब्दवाच्यत्वस्य निर्विशेषे अभावात् । तल्लक्ष्यत्वस्य च प्रधानादावपि संभवात् । सविशेषस्य चैतत्पादाप्रतिपाद्यत्वात् । यच्चोक्तं रागद्वेषादिमुक्तैर्ज्ञेयत्वव्यपदेशादिति वा ‘तमेवैकं जानथात्मानम् अन्यावाचो विमुञ्चथ’ इति वाग्विमोकपूर्वं ज्ञेयत्वस्य व्यपदेशाद् इति वा ‘‘तथाविद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैती’’ति मुक्तैः प्राप्यत्वव्यपदेशादिति वा द्वितीयसूत्रार्थ इति । तन्न । निरुपपदस्य मुक्तशब्दस्य संसारान्मुक्ते प्रसिद्धत्वेन तत्त्यागायोगात् । उपपूर्वस्य सृपेः समीपप्राप्त्यर्थत्वेन ज्ञानार्थत्वायोगाच्च । त्वन्मते ब्रह्मणो मुक्ताभेदेन तत्प्राप्यत्वाभावाच्च । सगुणमोक्षोक्तौ च पादासङ्गतिः । सौत्रमुक्तशब्दस्य श्रौतस्य नामरूपाद्विमुक्त इत्यस्यास्वारस्यं च । तृतीयसूत्रे अतच्छब्दोनाम तद्वाचकशब्दाभावश्चेन्निर्विशेषेऽपि समः । तल्लक्षकशब्दाभावस्तु प्रधानादावप्यसिद्ध इत्युक्तम् । चतुर्थे ‘‘यःसर्वज्ञः’’ इत्यतच्छब्दाद्यदि जीवनिषेधस्तर्हि निर्विशेषब्रह्मनिषेधोऽपि स्यात् । सार्वज्ञस्य सविशेषनिष्ठत्वात् । पञ्चमे भेदव्यपदेशोनाम ‘‘तमेवैकं जानथे’’ति कर्मकर्तृव्यपदेश इत्यप्ययुक्तम् । अन्यमीशमिति साक्षाद्भेदव्यपदेशे सति भेदकव्यपदेशग्रहणायोगात् । एवं सूत्रान्तरेऽप्यनुपपत्तिरूह्या । अत्रापि परमतेऽपि ‘‘भेदव्यपदेशा’’दित्यनेन जीवब्रह्मभेदोक्तेः ‘‘मुक्तोपसृप्यव्यपदेशा’’दित्यनेन मुक्तावपि भेदोक्तेश्चाभेदप्रतिकूलता व्यक्ता ।

प्रकाशिका

अन्येत्विति ॥

पारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः ।

द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित् ॥ इति भामत्युक्तमनुवदति ॥

अमृतस्यैष सेतुरिति ॥ भाष्योक्तकोटीराह ॥ रुद्रेति ॥ आदिपदेन हिरण्यगर्भः ।

धारणादमृतत्वस्य साधनाद्वाऽस्य सेतुता ।

पूर्वपक्षेऽपि मुख्यार्थस्सेतुशब्दो हि नेष्यते ॥

इति भामतीं हृदि कृत्वा सिद्धान्तमनुवदति ॥ प्रधानादेरपीति ॥ जीवादाविति ॥ अमृतपदोक्तब्रह्मप्रतिसेतुत्वस्य जीवादावपि दुर्वचत्वादित्यर्थः । निरवकाशविरोधिलिङ्गस्य जागरूकत्वान्न सिद्धान्तोदय इति भावेनाह ॥ सिद्धान्त इति ॥ यदप्यमृतत्वाधारत्वादमृतसेतुत्वं ब्रह्मणि युक्तमिति तत्र किमिदममृतत्वम् । ‘‘अविद्यास्तमयो मोक्षस्सा संसार उदाहृत’’ इत्युक्तेरविद्यानिवृत्तिरिति चेत्सा किं सत्याऽथ ‘‘न सन्नासन्नसदसन्नानिर्वाच्यश्च तत्क्षय’’ इत्युक्तेः पञ्चमप्रकारा । आद्ये दोषमाह ॥ सत्यस्येति ॥ द्वितीयेप्यविद्या किं भामतीरीत्या जीवाश्रिताऽथ विवरणरीत्या चिन्मात्राश्रितेति । आद्ये दोषो मुक्तिरिति । द्वितीयेपि किं बन्धो जीवाश्रितश्चिन्मात्राश्रितो वा । आद्ये दोषश्चिन्मात्राश्रितेति । अन्यथा बन्धमोक्षयोस्सामानाधिकरण्यं न स्यादिति भावः । द्वितीये दोषो बन्धस्यापीति ॥ श्यामत्वेति ॥ प्रतिमुखादाविति शेषः । यच्च यद्वेत्यादिनोक्तं तन्निराह ॥ यच्चेति ॥ श्रुत्यन्तर इति ॥ वाजसनेये ‘‘य एषोन्तर्हृदय आकाशस्तस्मिन् शेते । सर्वस्य वशी’’त्युक्त्वा ‘‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाये’’ति वाक्ये एष इत्येतच्छब्दस्य प्रकृतब्रह्मपरत्वं स्पष्टमेवेति भावेन प्रसिद्धेत्युक्तम् । तत्र यद्यपि विधरण इत्येव पाठस्तथापि दहरनये ‘‘धृतेश्च महिम्न’’ इति सूत्रे भाष्योक्तश्रुत्यन्तरोक्तिरियमिति ध्येयम् । अस्यामेव आथर्वण एव । तच्छब्देनेति ॥ तमेवैकमित्यत्र तमित्यनेनेत्यर्थः ।

ननु तमित्यस्य जानथेति ज्ञानवाचिना व्यवहितत्वाज्ज्ञानमेव परामृश्यत इत्यत आह ॥ आत्मशब्देन चेति ॥ सूत्रार्थानपि निराह ॥ किञ्चेति ॥ अस्य पादस्य निर्विशेषपरत्वाभ्युपगमेन तत्र द्युभ्वाद्यायतनत्वस्यारोपाधिष्ठानत्वादन्यस्याभावादिति भावः । प्रतिज्ञाभागं निरस्य हेत्वंशं निराह ॥ यच्चेति । एतेनात्मश्रुतितात्पर्यविषयत्वमात्रं हेतुरिति प्रत्युक्तम् । शब्दवृत्तिविषयत्वपूर्वकत्वात्तस्य । प्रधानादावपि सम्भवाच्च । ननु सविशेषस्यात्मपदवाच्यत्वं द्युभ्वाद्यायतनत्वं चास्तीत्यत आह ॥ सविशेषस्येति ॥ रागद्वेषादिमुक्तैर्ज्ञेयत्वेति ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥

इत्यादिनेत्यर्थः । ‘‘हृदयग्रन्थिश्चाविद्यारागद्वेषभयमोहाः । दर्शनं दृष्टं तस्मिन् । तदर्थमिति यावत् । यथा चर्मणि द्वीपिनं हन्ति चर्मार्थमिति गम्यत’’ इति भामत्यां व्याख्यानात् । अस्यार्थस्य तत्र वाक्ये स्पष्टप्रतीतेस्तदनुपादानेन रागद्वेषादिमुक्तैरित्येवोक्तम् ॥ वाग्विमोकेति ॥ सूत्रे मुक्तेतिशब्दस्य भावार्थनिष्ठान्तत्वेन मोचनार्थतया वाग्विमोकपूर्वमित्यर्थलाभादिति भावः । आद्यद्वितीययोर्दोषद्वयमाह ॥ निरुपपदस्येत्यादि ॥ तृतीये दोषमाह ॥ त्वन्मत इति मुक्तेति ॥ तस्य मुख्यमुक्त एव स्वारस्यादिति भावः । यदपि नानुमानमित्यस्य अनुमीयत इत्यनुमानं प्रधानं न द्युभ्वाद्यायतनम् । तच्छब्दाभावादित्यर्थ इति । तत्र हेत्वर्थं निराह ॥ तृतीयेति ॥ उक्तम् आद्यसूत्रार्थदूषणप्रस्तावे । यदपि ‘‘प्राणभृच्चे’’त्यत्रातच्छब्दादिति हेतुमनुकृष्य ‘‘यस्सर्वज्ञस्सर्ववि’’दिति तद्विपरीतशब्दान्न जीवो द्युभ्वाद्यायतनमिति । तत्राह ॥ चतुर्थ इति ॥ साक्षादिति ॥ भेदकोक्तिद्वारमन्तरेणैवेत्यर्थः ॥ एवमिति ॥ ‘‘प्रकरणा’’दित्यस्य त्वन्मते प्रधानहेतुत्वात्तत्र चशब्दश्रवणं स्यात् । ‘‘स्थित्यदनाभ्या’’मित्यत्रापि भेदकस्यैवोक्तया भेदसूत्रेण पौनरुक्तयमित्यादिरूपेणोह्येत्यर्थः ॥ इत्यनेनेति ॥ प्राप्तृप्राप्यभावस्य भेदव्याप्तत्वादिति भावः ।

पाण्डुरङ्गि

शब्दत इति ॥ विषयस्य प्राधान्येन ज्ञानस्य अर्थतः प्राधान्याभावेपि शब्दतः प्राधान्यमस्तीत्यर्थः ॥ सिद्धान्त इति ॥ प्रकृत्यधिकरणन्यायेन सावकाशं चेदविद्यायाः प्रतिबिम्बपक्षपातादिति वक्ष्यमाणरीत्या ज्ञेयम् । ननु निर्विशेषस्यात्मशब्दवाच्यत्वाभावेपि सविशेषस्य तच्छब्दवाच्यत्वेन तस्यैवात्र प्रतिपाद्यत्वमस्त्वित्यत आह ॥ सविशेषस्येति ॥ तथा च सविशेषप्रतिपादने पादासङ्गतिरिति भावः ।