०८ पंचमसप्तमसूत्रार्थवर्ननम्

तत्र चशब्दो न केवलं टीकोक्तरीत्या..

**पंचमसप्तमसूत्रार्थवर्ननम् **

तात्पर्यचन्द्रिका

तत्र चशब्दो न केवलं टीकोक्तरीत्या पूर्वोक्तहेतूनां नञश्चानुकर्षणार्थः । किं तु वायुसमुच्चयार्थोपीति द्रष्टव्यम् । पञ्चमे जीवब्रह्माभेदेनोभयाबाधसम्भवेनैकस्यापि बाधो युक्त इति शङ्किते तन्निरासाच्चशब्दाभावः स्वपक्षसाधकस्वशब्दादिहेतुविप्रकर्षश्च । अत्र चान्यमीशमित्युक्तेनान्यत्वेन पश्यतीति प्रकृतो जीवः पदिन्यायेन (यदिन्यायेन) प्रतियोगित्वेन सम्बध्यत इत्यभिप्रेत्येयं श्रुतिर्जीवेशभेदे प्रमाणीकृता । ‘‘विशेषणभेदव्यपदेशाभ्या’’मित्यत्र त्वयमन्यो मार्ग इत्युक्ते प्रसिद्धमार्गादन्यत्ववदन्यमीशमित्युक्ते प्रसिद्धेशाद्रुद्रादन्यत्वप्रतीतेरियं श्रुतिर्व्याख्यानान्तरमभिप्रेत्य रुद्रादन्यत्वे प्रमाणीकृतेत्यविरोधः । एवं षष्ठेपि भेदव्यपदेशस्यान्यविषयत्वशङ्कानिरासाच्चशब्दाभावः ।

सप्तमेतु न केवलं व्यपदेशात् श्रुतेर्भेदः किं तु लिङ्गादपीति कथनाच्चशब्दः । श्रुतावदनस्य प्राथम्येपि स्थितेरीश्वरसम्बन्धित्वेनाभ्यर्हितत्वादल्पाच्तरत्वाच्च सूत्रे तस्याः प्राथम्यम् । न च वाच्यं द्वासुपर्णेति मन्त्रोक्ते स्थित्यदने बुद्धिजीवगते । न तु जीवेशगते । ‘‘तावेतौ सत्वक्षेत्रज्ञा’’विति पैङ्गिरहस्यब्राह्मणेनास्य मन्त्रस्य सत्वक्षेत्रज्ञशब्दार्थत्वेन बुद्धिजीवविषयत्वेन व्याख्यातत्वादिति । ब्राह्मणे सत्वशब्दस्य ‘‘ऊनं न सत्वेष्वधिको बबाधे’’ इति प्रयोगात् ‘‘सत्वमस्त्रीतुजन्तु’’ष्विति नामानुशासनात् ‘‘सत्वं जीव इति प्रोक्त’’ इतिस्मृतेश्च जीवपरत्वात् । क्षेत्रज्ञशब्दस्य च–

प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।

क्षेत्रज्ञमाहुर्जीवं तु कर्तारं गुणसंयुतम् ॥

इति मोक्षधर्मादिवचनैर्ब्रह्मपरत्वात् । अन्यथा द्वासुपर्णेत्यस्मादुत्तरं ‘‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमान’’ इत्यादिकमयुक्तं न हि बुद्धौ पुरुषशब्दो मुह्यमानत्ववीतशोकत्वादिकं च युक्तम् ।

प्रकाशिका

सूत्रे वायुनिरासाप्रतीतेराह ॥ तत्रेति ॥ पञ्चम इति ॥ भेदव्यपदेशादिति सूत्रे । ‘‘अन्यमीशमिति जीवेशभेदव्यपदेशादित्यर्थ’’ इति टीका नयुक्तेव । श्रुतौ जीवादन्यमित्यप्रतीतेः । विरुद्धा चादृश्यत्वाधिकरणभाष्येणेत्यत आह ॥ अत्र चेति ॥ पदिन्यायेनेति ॥ चतुर्थस्याद्यपादे ‘‘पदकर्माप्रयोजकं नयनस्य परार्थत्वा’’दिति दशमाधिकरणे चिन्तितम् । ज्योतिष्टोमे ‘‘एकहायन्या क्रीणाती’’त्येकहायन्या गवा सोमक्रयणं प्रकृत्य ‘‘षट्पदान्यनुनिष्क्रामति । सप्तमं पदमध्वर्युरञ्जलिना गृह्णाती’’ति षट्पदनयनानन्तरं साज्यसप्तमपदपांसुग्रहणं विधाय ‘‘यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमुपांज्या’’दिति हविर्धाने शकटप्रवर्तनकाले तदक्षांजनं तेन पदपांसुना साज्येन कर्तव्यमाम्नायते । तत्र सोमक्रयणवत्पदपांसुसाध्यमक्षांजनमप्येकहायनीनयनस्य प्रयोजकमनुष्ठापकमिति यावत् । उत नेति संशये उभयोरप्येकहायनीनयनसाध्यत्वादुभयं प्रयोजकमिति प्राप्ते एकहायन्या क्रीणातीत्येकहायन्याः क्रयणार्थत्वेन विधानाद् यदर्थं द्रव्यं तदर्थस्तत्संस्कार इत्येकहायन्या सोमक्रयणदेशं प्रति नयनरूपस्य संस्कारस्यापि क्रयणार्थत्वात्क्रयणमेव प्रयोजकमन्यदनुनिष्पादीति सिद्धान्त इति । अत्र सप्तमं पदमित्यत्र पदशब्दस्य सन्निधानादेकहायनीपदविषयकत्वं सिद्धङ्कृत्वा विचारः प्रवृत्त इति पदिन्यायेनेत्युक्तमित्याहुः । पदयुक्तन्यायः पदिन्यायः ॥ एवमिति ॥ पञ्चम इव प्रकरणादित्यत्रापीत्यर्थः । जीवस्य कस्माच्चिदीशादन्यत्वमुच्यते न तु परमात्मनः । अतो न तयोर्भेद इति शङ्कायां ‘‘द्वेविद्येवेदितव्ये’’ इति परविद्याविषयस्य वस्तुनः परमात्मन एव प्रक्रम्याधीतत्वेन तस्य तत्प्रकरणत्वेनेशशब्देन तस्यैव ग्रहणोपपत्तेरित्यर्थोक्तेरिति भावः ।

चशब्दाभाव इति ॥ पूर्वानन्तर्यं चेत्यपि ज्ञेयम् । नन्वेवमयं योगश्शक्यो वक्तुम् । कथमिष्टसिद्धिः । यथाऽतच्छब्दादित्युक्तया समाख्यास्थरुद्रादिशब्दानां विषयवाक्यस्थजायमानशब्दस्य चान्यार्थत्वनिरासेन विष्ण्वर्थत्वसिद्धिस् तथेशशब्दस्यापि विष्ण्वर्थत्वसिद्धेः । न च तत्र ‘‘जायमान’’ इत्यादिश्रुतिस्मृतिबलात्तथात्वसिद्धिः । इहापि ‘‘स ईशो योहरि’’रिति ‘‘ईशानादेव चेशान’’ इति ‘‘एवं नानाविधैश्शब्दैरेक एव त्रिविक्रम’’ इति ‘‘अन्यनाम्नां गतिर्विष्णु’’रिति श्रुतिस्मृतिभावात् । मैवम् । अन्तरङ्गज्ञापके सति त्यागायोगान्निरवकाशजीवलिङ्गादिना प्रकरणमन्यपरमित्याक्षेपे सति तत्सावकाशत्वस्यातच्छब्दादित्यनेनोक्तौ प्रकरणमपि साधकमेव । एवमेतदन्यत्राप्यनुसन्धेयमित्यर्थस्य ज्ञापनार्थत्वात्प्रागुक्तश्रुतिलिङ्गोपोद्बलनार्थत्वाच्चास्य योगस्योक्तिः । एतेन कथं प्रकरणेन ईशश्रुतिबाध इति प्रत्युक्तम् । श्रुतेस्सावकाशत्वात्प्रकरणस्यानवकाशत्वादिति ॥ सप्तम इति ॥ स्थित्यदनाभ्यां चेत्यत्र ॥ श्रुतेरिति ॥ अन्यशब्दरूपश्रुतेरिति व्यपदेशपदार्थोक्तिः । द्वासुपर्णेत्युपक्रम्य तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीतीति जीवेशयोः कर्मफलोपजीवनतद्रहितावस्थानरूपलिङ्गादपीत्यर्थः ॥ चशब्द इति ॥ पूर्वानन्तर्यं चेत्यपि ग्राह्यम् । अत्र श्रुतिक्रमोल्लङ्घनमीश्वरस्य प्राधान्यज्ञापनार्थम् । ‘‘स्थितिपदस्याल्पाक्षरत्वाच्चे’’ति टीकार्थं व्यक्तमाह ॥ श्रुताविति ॥ ‘‘अल्पाच्तरं पूर्व’’मिति पाणिनिस्मरणादिति भावः । गुहानयेऽनश्नन्नित्यस्याऽशुभाशननिषेधार्थत्वोक्तावपीह जीवनार्थं कर्मफलाशनं नेत्यर्थकतया व्याख्यानमभिमतम् ।

सुपर्णावेतौ सयुजौ सखायौ यदृच्छया कृतनीडौ च वृक्षे ।

एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ॥

इत्यादिभागवतोक्तेः ।

साशनानशनत्वेन नरदेवौ यथोदितौ ।

अत्तिं विनाप्यदौर्बल्यात्तथाऽनत्तिर्हरेर्भुजः ॥ इति स्मृतेश्चेति भावः ।

श्रुतेर्जीवेशविषयत्वं साधयति ॥ न चेत्यादिना ॥ तावेताविति ॥ ‘‘तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्वम् । अनश्नन्नन्योऽभिचाकशीतीति । अनश्नन्नन्योभिपश्यतीति ज्ञः । उभावेतौ सत्वक्षेत्रज्ञौ । तदेतत्सत्वं येन स्वप्नं पश्यति । अथ योयं शारीर उपद्रष्टा सक्षेत्रज्ञ’’ इत्यनेन व्याख्यातत्वादित्यर्थः । ‘‘ऊनं न सत्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने’’ इति रघुवंशे । ‘‘द्रव्यासुव्यवसायेषु सत्वमस्त्रीतुजन्तुषु’’ इति नानार्थवर्गे । जन्तुश्च ‘‘प्राणीतुचेतनोजन्मी जंत्वि’’त्यमरोक्तेजीर्व इति भावः ॥ इतिस्मृतेरिति ॥ त्रयोदशे गीतातात्पर्योक्तस्मृतेरित्यर्थः ॥ मोक्षधर्मादीति ॥ आदिपदेन –

क्षेत्रज्ञ एता मनसोविभूतीर्जीवस्य मायारचिता अनित्याः ।

आविर्हिताश्चैव तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ।

क्षेत्रज्ञ आत्मा पुरुषः पुराणस्साक्षात्स्वयं ज्योतिरजः परेशः ।

नारायणो भगवान्वासुदेवः स्वमाययात्मन्व्यवधीयमानः ॥

इति भागवतवचनं, ‘‘क्षेत्रज्ञं चापिमांविद्धी’’ति गीतावचनं ,

स्वेच्छयैवावृतो विष्णुर्जीवे तिष्ठति नित्यदा ।

योऽसौ नियमयन् जीवं क्षेत्रज्ञ इति शब्दितः ॥

इति हरिवंशादिवचनं गृह्यते ॥ पुरुषशब्द इति ॥ युक्त इति विपरिणामः । अत्र विस्तरस्तु गुरुपादकृतश्रुतितात्पर्यकौमुद्यां ज्ञेयः ॥

पाण्डुरङ्गि

तत्र चशब्द इति ॥ अत्र भाष्ये पूर्वानुक्तवायुसमुच्चायकत्वस्य स्पष्टप्रतीतेष् टीकायामुक्तसाध्यहेत्वनुकर्षमात्रार्थत्वमित्यव्याख्यातत्वाद्वायुसमुच्चयश्चशब्दार्थो नेति न मन्तव्यमिति भावः । जीवप्राणधारण इति धातोर्जीव एव प्राणभृच्छब्दार्थोऽभिप्रेतो नतु वायुः । तथात्वे रुद्रस्यापि ग्रहणोपपत्तेः । टीकायां पूर्वपक्षे वायोः प्राणाधारत्वप्रसिद्ध्युक्तिमात्रेण तस्य ग्रहणे प्राणानां ग्रन्थिरसीत्यादौ रुद्रस्यापि तदविशेषात् । अत एव भाष्ये न जीवो वायुश्चेति योगविभागः । अन्यथा न प्रकृतिजीवावभिधीयेते इत्यन्यत्रेवात्रापि न जीववायू इति स्यादितिभावेनेदं व्याख्यानम् । भावबोधेतु ‘‘द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’’ इत्यादौ श्रुतौ च प्राणसंवादादिना रुद्राद्यपेक्षयाप्यतिशयेन प्राणधारकत्वाद्वायोरपि सौत्रप्राणभृच्छब्दार्थत्वम् । योगविभागस्तु तत्रैकवचनोपपत्तये कृतः । भाष्ये चशब्दस्तु वायुपूर्वपक्षे नञः हेतूनां चानुकर्षार्थ इत्याशयेन सौत्रचशब्दस्य मुख्यवायुसमुच्चयज्ञापकत्वमनुक्त्वा वायोः प्राणभृच्छब्दार्थत्वमेवोक्तमिति ज्ञेयम् । ननु जुष्टं यदा पश्यतीति श्रुतेः पूर्वं परमात्मनो रुद्राद्भेदे प्रमाणत्वेनोदाहृतत्वाज् जीवेश्वरभेदे प्रमाणत्वेनोदाहरणे पूर्वोत्तरविरोध इत्यत आह ॥ अत्र चेति ॥ यदिन्यायेनेति ॥ अन्यत्वावधित्वेन प्रतीतो जीवो यद्यवधिर्नस्यात्ततः किम् अन्यत्वावधि कस्यापि भावात् । यदि चान्यदेवावधिभूतं स्यात्तर्ह्यवधिमदन्यन्नास्तीति वदन्नास्तिको हत इत्यर्थः । पदिन्यायेनेति पाठे पदे जुहोतीति होमाधिकरणं पदं किमिति प्राप्ते अध्वर्युः सप्तमं पदमंजलिना गृह्णातीति प्रकृतैकहायन्या य एव वस्तुतः पदप्रतियोगित्ववदत्रापि प्रकृतजीवस्यैवान्यत्वप्रतियोगित्वेन सम्बन्धो ज्ञेय इत्यर्थः । अन्यथा प्रकृतत्वाविशेषात्तत्रापि न स्यादिति भावः । अभ्यर्हितत्वादिति ॥ अभ्यर्हितं पूर्वमिति पूर्वनिपात इति भावः । अन्यथेति ॥ द्वासुपर्णेति मन्त्रस्य सत्वक्षेत्रज्ञशब्दार्थत्वेन प्रसिद्धबुद्धिजीवविषयत्वाभ्युपगम इत्यर्थः ।