पूर्वपक्षस्तु
पूर्वपक्षकथनम्
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु । द्युभ्वाद्यायतनं रुद्रः प्रधानं वायुर्जीवो वा । ‘‘रुद्रोवाव लोकाधारः । प्राणानां ग्रन्थिरसि रुद्रः । भूतं च भवच्च भविष्यच्चेत्याचक्षते । आकाश एव तदोतं च प्रोतं च । वायुना वै गौतमसूत्रेणायंच लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानी’’त्यादि समाख्यानात् । जायमानत्वरूपजीवलिङ्गाच्च । न च ‘‘लोकाश्च लोकिनश्च विष्णावेवोताश्च प्रोताश्चे’’ति विष्णावपि समाख्यास्तीति वाच्यम् । रुद्रसमाख्यायां ‘‘प्राणानां ग्रन्थिरसि रुद्रः । प्राणेश्वरः कृत्तिवासाः पिनाकी । रुद्रोवाव लोकाधार’’ इति बहुरुद्रश्रुतिलिङ्गसद्भावात् । एतदेवाभिप्रेत्योक्तमनुव्याख्याने ‘‘बाहुल्यं लिङ्गशब्दाना’’मिति । ‘‘विष्णोर्द्युभ्वाद्यायतनत्वप्रसिद्धावपी’’त्यादिटीकायां विष्णुसमाख्याबाधार्थं जायमानत्वलिङ्गोक्तिस्तु विष्णुसमाख्यातो रुद्रसमाख्याया बलवत्त्वेपि वाय्वादिसमाख्यायाः प्राबल्याभावात् ।
ननु तथापि ‘‘द्वेविद्ये वेदितव्ये’’ इति विष्णुप्रकरणेन ‘‘अमृतस्यैषसेतु’’रिति मुक्तोपसृप्यत्वविष्णुलिङ्गेन च रुद्रादिसमाख्याया बाधः । मुक्तोपसृप्यत्वादेश्च विष्णुलिङ्गत्वं ‘‘तन्निष्ठस्य मोक्षोपदेशात् । अस्मिन्नस्य च तद्योगं शास्ती’’त्यादिसूत्रसिद्धम् । लिङ्गप्रकरणे च समाख्यातो बलवती । न च समाख्या निरवकाशा । अन्तरधिकरणन्यायेन रुद्रादिशब्दानां शास्त्रदृष्ट्येति न्यायेन पिनाकित्वादिलिङ्गानां च विष्णौ सावकाशत्वात् । न च ‘‘स एषोन्तश्चरते बहुधा जायमान’’ इति जायमानत्वादिलिङ्गविरोधः । ‘‘तमेवैकं जानथ आत्मान’’मित्यात्मश्रुत्या तद्बाधात् । आत्मशब्दस्य विष्ण्वेकनिष्ठत्वं च ‘‘गौणश्चेन्नात्मशब्दात् । साधारणशब्दविशेषा’’ दिति सूत्रसिद्धम् । जायमानत्वस्य ब्रह्मणि सावकाशत्वं च ‘‘क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनि’’रित्यनुव्याख्यान आनन्दमयाधिकरण उक्तत्वात्तत्र, ‘‘कारणत्वेन चाकाशादि’’ष्वित्यत्र च सिद्धमिति ।
प्रकाशिका
‘‘द्युभ्वाद्यायतनत्वं रुद्रप्रधानजीववायूनामिति पूर्वः पक्षः’’ इत्यादिटीकां विवृण्वन् समाख्यात्रयेण जायमानत्वरूपजीवलिङ्गेन च कोटिचतुष्टयपूर्वपक्षानाह ॥ द्युभ्वाद्यायतनं रुद्र इत्यादिना ॥ यथासूत्रमयं निर्देशः । बहूपपादनत्वाज्जीवस्यान्ते निर्देशः । ‘‘रुद्रोवावे’’ति वाक्यं रुद्रस्य द्युभ्वाद्यायतनत्वे । ‘‘प्राणाना’’मिति वाक्यं रुद्रस्य प्राणाधारत्वे । टीकायां भाष्ये साक्षादुपात्तस्य प्राणानामिति वाक्यस्य पूर्वमादिपदोपात्तस्यान्यत्र साक्षादुक्तस्य तु पश्चादुक्तावपि विषयवाक्ये क्रमोपात्तलिङ्गोपपादनसौकर्याय ‘‘रुद्रोवावे’’त्यस्यैवात्र पूर्वमुक्तिः । तावतैव पूर्तौ द्वितीयवाक्यस्याप्युक्तिर्भाष्योपात्तत्वाद्वा तत्र बहुरुद्रश्रुतिलिङ्गसत्त्वेन विष्णुसमाख्यातः प्राबल्योपपादनाय वेति ज्ञेयम् । तत्र रुद्रेति संबुद्ध्यन्तपाठः साधुः । द्वितीये ‘‘तदभिध्यानादेव’’त्वित्यत्र टीकायां ‘‘रुद्र त्वं प्राणानामाश्रयोंऽतकश्चासि । सत्वं मामाविशेति व्याख्यानात् । तद्भूतभवदादिकम् आकाशशब्दिते प्रधाने ओतमित्यर्थः । तच्छब्दपरामर्शद्योतनाय भूतमित्यादिपूर्ववाक्योक्तिः । आकाशशब्दस्याक्षरनये प्रधानपरत्वं व्युदस्य चित्प्रकृतिपरत्वोक्तावपीह पूर्वपक्षी तत्रत्यपूर्वपक्षन्यायेन प्रधानपरत्वमेव मन्यत इति यथाटीकमत्र प्रधानपरतया भूतमित्यादिवाक्योक्तिर्युक्ता ॥ सूत्रेणेति ॥ स्यूतमस्मिञ्जगदिति व्युत्पत्त्या जगदाधारेण वायुना संदृब्धानि सङ्गतानि । तदाधारतयाऽवस्थितानीत्यर्थः ।
अत्र टीकायां ‘‘विष्णोर्द्युभ्वाद्यायतनत्वप्रसिद्धावपी’’त्यादिना विष्णुसमाख्यामाशङ्क्य बहुधाजन्मबाध उक्तः । तत्रान्यत्रोक्तश्रुतिलिङ्गबाहुल्येन प्रबलरुद्रसमाख्याबाधोपि वाच्य इति भावेन शङ्कोत्तरे वक्ति ॥ न च लोकाश्च लोकिनश्चेति ॥ ‘‘सर्वेवा ते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च लोकाश्च लोकिनश्चालोकाश्चालोकिनश्च विष्णावेवोताश्च प्रोताश्चे’’ति विष्णुसमाख्याऽस्तीत्यर्थः । तथाच तद्बलाद्विष्णुविषयत्वमपीति भावः । प्राणा इन्द्रियाणि । प्राणिनो देहिनः । दिविभवानि दिव्यानि कल्पतरुप्रभृतीनि वस्तूनि । लोका भूरादयः । तदभिमानिनो लोकिनः । अलोका वैकुण्ठादयः । अलोकिनस्तद्गता मुक्ता इत्यर्थः ॥ उक्तमिति ॥ एतत्पादीयाधिकरणपूर्वपक्षन्यायसङ्ग्रह उक्तमित्यर्थः । टीकावाक्यविरोधमाशङ्क्याह ॥ विष्णाविति ॥ जायमानत्वेति ॥ एतेन टीकायां बहुधा जन्मेत्युक्तावपि जन्मरूपलिङ्ग एव तात्पर्यम् । बहुधाजननस्य अत्रैव आशङ्क्य सावकाशीकरणे उत्तरत्र बहुधा जननमुपजीव्य पूर्वपक्ष तन्निरासौ न स्यातामिति अत जन्ममात्रस्यैव ग्रहणे अनेकजडाद्यात्मना बहुजननस्येक्षतिनये निरस्यत्वाज्जन्मलिङ्गेनैव विवक्षितसिद्धेश्च बहुधेत्युक्तेरभ्युच्चयत्वेनोपपत्तेरिति भावः । एतेन रुद्रसमाख्यायाः प्राबल्येन विष्णुसमाख्यया प्रतिहत्यभाववद्वाय्वादिसमाख्याया जायमानत्वादिलिङ्गबलेनाप्रतिहतत्वं टीकारीत्योपपाद्यमित्युक्तं भवति । वक्ष्यति चैवं पूर्वपक्षान्तरमपीत्यादि । लिङ्गनिरवकाशत्वं चाग्रे व्यक्तम् । नन्वेवं टीकायां ‘‘विष्णोर्द्युभ्वाद्यायतनत्वप्रसिद्धावपी’’त्यादिना समाख्याबलेन विष्णोर्द्युभ्वाद्यायतनत्वमाशङ्क्य जायमानत्वलिङ्गेन तद्बाधो न वाच्यः । अपि तूक्तदिशा प्रबलया रुद्रसमाख्यया विष्णुसमाख्यायां दूरीकृतायामप्रतिहतया वाय्वादिसमाख्यया वाय्वादिप्राप्तिरित्येव समाधानं वाच्यम् । न च विष्णुसमाख्येव वाय्वादिसमाख्यापि बलवद्रुद्रसमाख्यया व्युदस्ता सती नात्र वाय्वादिप्रापिकेति वाच्यम् । तथात्वे जन्मलिङ्गेन विष्णुसमाख्याबाधपक्षेऽपि तेनाप्रतिहतबलवत्या रुद्रसमाख्यया वाय्वादिसमाख्याबाधेन तयोरत्राप्राप्तेः । तस्माद्रुद्रसमाख्याया अपि सावकाशत्वोपपादनेन रुद्रादिसमाख्यात्रयस्यापि विष्णुसमाख्यया समाख्यात्वेन तुल्यबलत्वाद् रुद्रादिसमाख्यास्वन्यतमयाऽपि विष्णुसमाख्यानिरासायोगाज् जन्मरूपलिङ्गेन विष्णौ निरवकाशेन बाधितया विष्णुसमाख्ययाऽत्र विष्णोर्द्युभ्वाद्यायतनत्वाप्राप्तौ रुद्रादौ योग्येन जन्मलिङ्गेन अबाधादविशेषितबलाबलेन समाख्यात्रयेण तुल्यबलेन रुद्रादिकोटित्रयस्य जन्मलिङ्गेन जीवमात्रासाधारणेन जीवकोटेश्च द्युभ्वाद्यायतनत्वप्राप्तिरिति वक्तव्यम् । एवं च टीकायां जन्मलिङ्गेन विष्णुसमाख्याबाधोक्तिः स्वरसा भवतीति चेन्मैवम् । अन्तकत्वादिलिङ्गेन रुद्रसमाख्याया निरवकाशत्वोक्तिपरपूर्वतनटीकावाक्यविरोधात् । ‘‘समाख्याऽपि निरवकाशे’’त्यग्रे वक्ष्यमाणदिशा सावकाशत्वासम्भवाच्च । कथं तर्हि प्रकृतिवाय्वोः प्राप्तिः । रुद्रसमाख्याऽज्ञानिन इत्यस्तु । नह्येक एवात्र पूर्वपक्षीति नियामकमस्ति । द्वितीयाद्यस्मृत्यधिकरणादाविवानेकेषां पूर्ववादित्वोपपत्तेरिति । नन्वेवमपि रुद्रसमाख्यया विष्णुसमाख्याबाधेपि प्राकरणिकविष्णुलिङ्गादिबहुबाधायोगात् सावकाशत्वाच्च तस्या इति समाख्यया पूर्वपक्षमाक्षिपति ॥ नन्विति ॥
विष्णुप्रकरणेनेति ॥ यद्यपि टीकायां ‘‘परविद्याविषयत्वलिङ्गाद्विष्णुरिति चे’’दित्युक्तम् । तथापि लिङ्गस्योपक्रमे श्रुतत्वात्तत्र श्रुतलिङ्गस्य च ‘‘श्रुतिलिङ्गवाक्यानामुपक्रमोपसंहारयोः श्रुतत्वे तन्निश्चायकतया लिङ्गत्व’’मिति ‘‘शब्दादेवे’’ति सूत्रटीकोक्तरीत्या प्रकरणनिश्चायकत्वेन तल्लिङ्गोपेतोपक्रमवतस्तत्प्रकरणत्वेन ‘‘प्रकरणा’’दिति सूत्रानुसारात् प्रकरणेनेत्युक्तम् । अत एव ‘‘प्रकरणा’’दित्यत्र टीका ‘‘द्वेविद्ये वेदितव्ये’’ इति परविद्याविषयवस्तुनोऽत्रारभ्याधीतत्वेनास्य विष्णुप्रकरणत्वा’’दिति ॥ बाध इति ॥ यथाचतुर्थे ‘‘आत्माप्रकरणा’’दित्यत्र प्रकरणेन समाख्याया बाधस्तद्वत् । तत्रहि ‘‘य आत्माऽपहतपाप्मे’’त्यादिप्रकरणेन ‘‘स तेजसि सूर्ये सम्पन्न’’ इति समाख्याया बाधेन ‘‘परं ज्योतिरुपसम्पद्ये’’ति श्रुतज्योतिषो विष्णुत्वमुच्यते । यथा वा दहरनये लिङ्गेन समाख्याया बाधस्तद्वत् । तत्र ह्यपहतपाप्मत्वादिलिङ्गेन ‘‘तस्यान्ते सुषिरं सूक्ष्म’’मित्यादिसमाख्याया बाधेन सर्वाधारतया हृत्पद्मस्थत्वं विष्णोरेव । नत्वाकाशादेरित्युच्यते । आदेश्चेत्यादिपदेन प्रकरणम् । लिङ्गत्वं नाम ज्ञापकत्वम् । यद्वा परविद्याविषयत्वमादिपदार्थः । इत्यादीत्यादिपदेन ‘‘अदृश्यत्वादिगुणकोधर्मोक्ते’’रिति सूत्रं गृह्यते ॥ बलवती इति ॥ शब्दादेवेत्यत्र तद्बीजोक्तया व्युत्पादयिष्यमाणत्वादिति भावः ।
ननु ‘‘आनर्थक्यप्रतिहतानां विपरीतं बलाबल’’मिति न्यायेन समाख्यया बाधः किं नस्यादिति भावेनाशङ्क्यानर्थक्यं नेत्याह ॥ न चेति ॥ अन्तरिति ॥ अयं न्यायः प्राक्तत्र तत्र विवृतः । शास्त्रदृष्ट्येति न्यायोपि ॥ जायमानत्वादीति ॥ मनःप्राणाधारत्वमादिपदार्थः । लिङ्गं निरवकाशमित्यत आह ॥ जायमानत्वस्येति ॥ तत्रेति ॥ आनन्दमयाधिकरण इत्यर्थः ॥ कारणत्वेन चेति ॥ चतुर्थपादे ‘‘आत्मन आकाशस्सम्भूतः । आकाशाद्वायुः । वायोरग्नि’’रित्युदाहृत्यात्मन आकाशादिषु जनेर्वक्ष्यमाणत्वादिति भावः । यथोक्तं तत्र न्यायविवरणे ‘‘व्यक्तयपेक्षाया कार्यत्व’’मिति । अत्र परैरेतच्छङ्कानिरासाय ‘‘यस्मिन्द्यौ’’रित्यादिकं ब्रह्मप्रकरणे नास्तीति कृत्वाचिन्तयेदमारब्धमित्युक्तम् । कैश्चित्तु ‘‘द्वेविद्ये वेदितव्ये’’ इत्यादेर्ब्रह्मप्रकरणत्वेपि ‘‘यस्मिन्नि’’त्यादिकं जीवलिङ्गाज्जीवप्रकरणमिति प्रकरणभेदमाश्रित्य समाहितम् ।