पूर्वपादान्त्योत्तरपादाद्ययोश्चाधिकरणयोर्नावान्तरसङ्गत्यपेक्षेत्युक्तम्
विषयचिन्तानिरूपणम्
तात्पर्यचन्द्रिका
पूर्वपादान्त्योत्तरपादाद्ययोश्चाधिकरणयोर्नावान्तरसङ्गत्यपेक्षेत्युक्तम् । यद्वा पूर्वत्रेवात्राप्यात्मशब्देन सिद्धान्तादातिदेशिक्यवान्तरसङ्गतिः । अत्र ‘‘यस्मिन्द्यौ’’रित्यादिनोक्तं द्युभ्वाद्यायतनत्वं किं रुद्रादेः किं वा विष्णोरिति चिन्ता । तदर्थमात्मशब्दादयः किं गौणाः किं वा मुख्या इति । तदर्थं तेषां मुख्यत्वे बाधकमस्त्युत नेति । तदर्थं जायमानत्वं किं विष्णोर्न युक्तमुत युक्तमिति । तदर्थं किं शरीरग्रहणादिकमेव जननं किं वा प्रादुर्भावोपीति ।
प्रकाशिका
एवं पादान्तर्भावसङ्गत्युक्तिपरटीकां समर्थ्यदानीं यातु ‘‘श्रुत्यादिसङ्गगति’’-मित्यादिकाऽदृश्यत्वनयेनास्य सङ्गत्युक्तिपरभाष्यटीका सा न युक्तैव । तथात्वे तदानन्तर्यप्रसङ्गेन व्यवधानायोगादिति मन्दाशङ्कां व्युदसितुं सा फलोक्तिपरा । सङ्गतिपदं च फलपरम् । आनन्दमयनयोक्तदिशा येनकेनचित्पूर्वेण सङ्गतिरपेक्षिता नत्वव्यवहितेनेत्येतदाशयं वेतिभावेन पादांत्याद्यनययोस्सङ्गतिनियमबुद्धिं शिष्याणां व्युदसितुमुक्तं स्मारयन्नस्ति चेन्न त्याज्येति सङ्गतिं चाह ॥ पूर्वेत्यादिना ॥ एतेन यदुक्तं श्रुतप्रकाशे पूर्वस्मिन्नधिकरणे द्युपृथिव्यादिसम्बन्धिनः परमात्मत्वमुक्तम् । द्युपृथिव्यादिसम्बन्धित्वं परमात्मव्यतिरिक्तस्य दृश्यत इति शङ्कयैतदारम्भ इति सङ्गतिरिति तन्निरस्तम् । पूर्वाधिकरणप्रधानहेतुनैव सङ्गतिसम्भवे सम्बन्धसामान्यमुखेन सङ्गत्युक्तययोगादिति । विषयसंशयटीकां व्यनक्ति ॥ अत्रेत्यादिना ॥ इत्यादिनोक्तमित्यनेन ‘‘तद्द्युभ्वाद्यायतनत्वं विषय’’ इति टीकास्थतच्छब्दार्थो विवृतः । आथर्वणे ‘‘द्वेविद्ये वेदितव्ये परा चैवापराचे’’त्युपक्रम्य श्रूयते ‘‘यस्मिन्द्यौः पृथिवीचान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचो विमुंचथ । अमृतस्यैष सेतुः । अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येव ध्यायत आत्मानं स्वस्तिवः पाराय तमसः परस्तात् । यस्सर्वज्ञस्सर्ववि’’दित्यादि । तत्र द्युभ्वन्तरिक्षमनःप्राणायतनत्वं विषय इत्यर्थः । सूत्रे यथाश्रुति धर्मिनिर्देशेपि लिङ्गताद्योतनाय यथाटीकं भावान्तनिर्देशः ।
रुद्रादेरिति ॥ रुद्रप्रधानवायुजीवानामन्यतमस्येत्यर्थः । एतेनान्येषामिति टीकास्थान्यशब्दार्थो विवृतः । प्रापकप्राबल्याशयेन रुद्रस्य पूर्वं स्वशब्देन च निर्देशः । टीकायां बहुवचनोक्तावप्येकवचनोक्तिः पूर्वपक्षकोटीनां बहुत्वे कथं लिङ्गस्योभयत्र प्रसिद्धत्वम् । किं तु बहुषु प्रसिद्धत्वमेव स्यादिति शङ्कानिरासाय पूर्वपक्षकोटित्वेन बहूनामेकीकरणादिति भावेनेत्याहुः । अत्र यद्यपि भाष्ये तत्वप्रदीपसन्न्यायरत्नावल्योश्च प्रधानकोटेर्द्युभ्वाद्यायतनत्वप्राप्तिर्वा तन्निरासो वा न भवति । तथापि टीकायां ‘‘स्वशब्दपर्यायात्मशब्दान्न प्रकृतिजीवावभिधीयेते’’ इति विष्णुतत्वनिर्णयोक्तयनुरोधेन प्रधानकोटेरप्युक्तेस्तदनुरोधेनात्राप्यादिपदेन तदुक्तिः । एवं द्युभ्वायतनं नानुमानं प्राणभृच्चेति प्रतिज्ञांशोपयुक्तचिन्तामुक्त्वा स्वशब्दान् मुक्तोपसृप्यव्यपदेशादिति हेत्वंशव्यावर्त्यशङ्कोपयुक्तचिन्तामाह ॥ आत्मशब्दादय इति ॥ आदिपदेनामृतसेतुत्वरूपमुक्तोपसृप्यत्वलिङ्गब्रह्मप्रकरणेतमेवैकं जानथ आत्मानमित्यादिवाक्योक्ताहेयत्वोक्तिहेयत्वानुक्तयन्यहेयत्वोक्तयो वा लिङ्गप्रकरणसमाख्या एव वा ग्राह्याः । अतच्छब्दादिति हेत्वंशव्यावर्त्यशंकोपयुक्तचिन्तामाह ॥ तदर्थं बाधकमस्त्युत नेतीत्यादिना ॥ जायमानत्वमिति ॥ अत्र यद्यपि रुद्रोवावलोकाधार इत्यादिसमाख्या विष्णौ न युक्ताऽथ युक्तेति । तदर्थं समाख्यागतरुद्रादिशब्दा निरवकाशा उत विष्णौ सावकाशा इत्यादिचिन्ताप्युपदर्शनीया । तथापि रुद्रसमाख्यायाष्टीकोक्तरीत्या वक्ष्यमाणदिशाच बलवत्त्वेऽपि इतरसमाख्ययोर्विष्णुसमाख्याप्रतिरोधेन जायमानत्वलिङ्गेनैव तयोरुज्जीवनाद्वा प्राकरणिकबाधकोपदर्शनं कार्यमित्याशयाद्वा उपलक्षणत्वाद्वा जायमानत्वकोटिकचिन्तैवोक्ता । यदि शरीरग्रहणमेव जननं तस्याशरीरे विष्णावयोगाद्बाधकादात्मशब्दादीनां गौणत्वात्समाख्यादिबलेन रुद्रादिरेवेति पूर्वपक्षे फलम् । यदि विपरीतं तदा विष्णुरिति सिद्धान्ते फलमिति स्पष्टः फलफलिभाव इति भावः । यद्यपि टीकायां जायमानत्वबाधकेनात्मशब्दस्यैवामुख्यत्वमाशङ्कितम् । न तु मुक्तोपसृप्यत्वादेः । प्रत्युत तेनैवात्मशब्दस्य मुख्यत्वमुक्तं मुक्तोपसृप्यसूत्रे । तथापीह श्रुतेर्विष्णौ मुख्याया अपि जीवलिङ्गेनामुख्यत्वशङ्कायां तुल्यन्यायतया लिङ्गस्यापि सा भवत्येवेत्याशयेन जायमानत्वलिङ्गेनात्मशब्दादयो गौणा इति बहुवचनोक्तिः । टीकायां तु मुक्तोपसृप्यसूत्रे चशब्दाभावात्तत्स्वारस्याय तथोक्तिरिति भावः ।
अत्र यद्यपि च विष्णोरिति चिन्तानन्तरं तदर्थमात्मशब्दादिकं रुद्रादिजीवे नेतुं शक्यमुताशक्यमिति चिन्ता तदर्थमत्र प्रकरणे निरवकाशजीवविष्णुप्रापकबलेन तयोरभेद आश्रयितुं शक्य उताशक्य इति चिन्ता तदर्थमन्यमीशमित्यादिभेदाद्युक्तिर्जीवविष्णुनिष्ठाऽथ नेति चिन्ता तदर्थमीशशब्दः किं विष्ण्वन्ययत्किञ्चिचित्पर उत प्रकरणबलाद्विष्णुपर एवेति भेदादिसूत्रव्यावर्त्यशङ्कोपयुक्ता चिन्तापरम्पराऽपि वाच्या । तथापि स्पष्टत्वाद्वा सूत्रक्रमे वक्ष्यमाणप्रकारेणाभेदशङ्काया रुद्रादिकोटिचतुष्टयसाधारण्याभावाद्वा साऽपि शङ्का जायमानत्वरूप जीवलिङ्गनिरवकाशत्वप्रयुक्तैवेति तन्निरवकाशत्वादिचिन्तोक्तयैवोक्तप्रायेति वा नोक्ता । यद्वाऽऽत्मशब्दादयः किं गौणा इत्यस्य जीवाभेदेन नेया इत्यप्यर्थः । ‘‘जीवेशाभेदेन ब्रह्मगतलिङ्गस्य जीवे सम्भवा’’दिति टीकोक्तेः । तथाच साऽपि चिन्तोक्तैवेति ।
पाण्डुरङ्गी
पूर्वपादान्त्यस्योत्तरपादाद्यस्य चाधिकरणस्यावान्तरसंगतेरावश्यकत्वं वदन्तं प्रत्यभ्युच्चयेनाह । यद्वेति ।