अत्र चाद्यसूत्रे स्वपक्षे श्रुतिरूपस्य साधकस्योक्तिः
सूत्रक्रमयोजनाबीजनिरूपणम्
तात्पर्यचन्द्रिका
अत्र चाद्यसूत्रे स्वपक्षे श्रुतिरूपस्य साधकस्योक्तिः । द्वितीये समाख्यारूपस्य । अत्रेतिशब्दस्याद्यसूत्रानुषक्तेन विष्णुर्वैश्वानर इत्यनेनान्वयः । तथाच विष्णुर्वैश्वानर इति गीतायां स्मर्यमाणं विष्णोर्वैश्वानरत्वम् अत्रापि स एव वैश्वानर इत्यस्यानुमापकमिति सूत्राक्षरार्थः । तृतीये वैश्वानरशब्दमात्रविषयासाधारणबाधकोद्धारः । तथा चेतोर्पणनिगदादित्यत्र ब्रह्मणि प्रसिद्धशब्दत्यागेन गायत्र्यादिशब्दप्रयोगे प्रयोजनं नेत्याशङ्का निरस्ता । अत्र त्वग्न्यादिशब्दानां पाचकत्वादिलिङ्गानां च ब्रह्मणि निरवकाशत्वाशङ्का निरस्यत इति भेदः । चतुर्थे परमतनिरासः । पञ्चमे प्रस्तुते वैश्वानरशब्दसमन्वये समाप्ते सर्वशब्दविषयसाधारणबाधकोद्धाराय लौकिकस्य वैदिकस्य चान्यत्र व्यवहारस्यगत्युक्तिः । वाच्यार्थधीव्यवहितं लक्षणादिकं विना साक्षान्मुख्यवृत्त्या ब्रह्मणः शब्दार्थत्वेऽपि व्यवहाराविरोध इति चास्याक्षरार्थः । षष्ठादिषु चतुर्षु साधारणबाधकोद्धाराय वैदिक्याः सूक्तादिव्यवस्थाया गत्युक्तिः । यद्यप्यनुस्मृत्यनन्तरमभिव्यक्तिरभिव्यक्तयनन्तरं सम्पत्तिः । तथाप्यभिव्यक्तयनन्तरमपि सम्पत्तेः प्रागनुस्मृतिरपेक्षितेति दर्शयितुमनुस्मृतेर्मध्य उक्तिरिति सूत्रक्रमः ।
न च साक्षादित्यादिसूत्रपञ्चकं समन्वयानुपपत्तिसमाधिरूपत्वादध्यायान्ते स्यादिति शङ्क्यम् । चतुर्थपादे पदवर्णस्वरादिसमन्वयस्यापि वक्ष्यमाणत्वात्तदवस्थायां च सूक्तादिभावस्यैवाभावेन तदनुपपत्तिशङ्कानुदयात् तथाग्न्यादिसूक्तादिस्थपदादिसमन्वयनिष्ठानां पुंसामग्न्यादावेव ब्रह्मणोऽभिव्यक्तयादेरभावेन परिहारासङ्गतेः । तथोभयत्र प्रसिद्धसमन्वयोक्तयनन्तरं ब्रह्मणि मुख्यत्वेऽन्यत्र प्रयोगो न स्यादिति शङ्काया अन्यत्र मुख्यत्वे ब्रह्मणि स न स्यादिति प्रतिशङ्काप्रतिरुद्धत्वेनानुदयाच्चात्रैव युक्तत्वादिति ।
प्रकाशिका
आद्येति ॥ ‘‘वैश्वानरस्साधारणशब्दविशेषा’’दित्यत्र साधारणस्य श्रुतिलिङ्गयोर्निरवकाशत्वादिनाऽग्नाविष्ण्वोस्साधारणस्य वैश्वानरशब्दस्य । ‘‘आत्मानं वैश्वानर’’मित्यात्मशब्देन विशेषणादित्यात्मश्रुतिरूपस्येत्यर्थः । द्वितीये स्मर्यमाणमनुमानं स्यादित्यत्र । अहं वैश्वानरो भूत्वे’’ति स्मृतिसमाख्यारूपस्य स्वपक्षसाधकस्येत्यर्थः । अत्र परैरितिशब्दो यस्मादित्यर्थो व्याख्यातः । स न युक्तः । करणार्थल्युडंतानुमानशब्देनैव तदर्थलाभेनेतिशब्दाभावेऽप्यन्वयसम्भवादतिशयाभावाच्च, हेत्वर्थकत्वस्य व्यर्थत्वादिति भावेन तस्यार्थमाह ॥ अत्रेति ॥ यद्वा भाष्ये ‘‘इतिशब्दस्समाख्याप्रदर्शक’’ इत्युक्तम् । ‘‘अनेन इतिस्मर्यमाणमित्यन्वयस्सूचितो भवती’’त्युक्तं टीकायाम् । तावता कथमर्थो लब्ध इत्यतस्तद्व्यनक्ति ॥ अत्रेति ॥ आद्यसूत्रे तत्तुसमन्वयादित्यतोऽनुवृत्तस्य तदित्यस्यार्थानुवादो विष्णुरिति । अहंशब्दस्य विष्ण्ववतारभूतकृष्णार्थकत्वाद्विष्णुर्वैश्वानर इति गीतायामित्युक्तम् ॥ तृतीय इति ॥ ‘‘शब्दादिभ्योन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसम्भवात्पुरुषविधमपि चैनमधीयत’’ इत्यत्राग्न्यादिशब्दात् होमाधारत्वगार्हपत्याद्यंगकत्वपाचकत्वादिलिङ्गेभ्यः योऽयमन्तः पुरुष इत्यन्तः प्रतिष्ठानान्न विष्णुरिति शङ्किते अग्न्यादिनामलिङ्गादिमत्त्वेनोपासनोपदेशेन तेषां सावकाशत्वात् ‘‘को न आत्मा किं ब्रह्मे’’त्युक्तात्मत्वादेरन्यत्रासम्भवात् ‘‘शीर्ष्णो द्यौस्समवर्तते’’त्यादिना पुरुषसूक्तोक्तपुरुषसदृशस्यैवात्र ‘‘मूर्धैव सुतेजा’’ इत्यादिनाऽभिधानाद्विष्णुरेवेति निरवकाशेन सावकाशस्य बाधोपपत्तेरित्युक्तत्वादिति भावः ॥ बाधकेति ॥ यद्यप्यसम्भवादित्याद्यंशेन साधकोक्तिरप्यस्ति । तथापि तदुक्तेः परपक्षे बाधकोक्तया बाधकनिरासेऽपि व्यापाराद्बाधकोद्धार इत्युक्तम् । अत एव प्रकरणादित्यनुक्त्वाऽसम्भवादित्युक्तम् । ‘‘तथा दृष्ट्युपदेशा’’दित्यंशस्य गायत्र्यधिकरणोक्तेनापौनरुक्तयमाह ॥ तथा चेतोर्पणेति ॥ चतुर्थ इति ॥ ‘‘अत एव न देवताभूतं चे’’त्यत्र अत एव निरवकाशात्मशब्दादिहेतोरेव । देवतादिर्नेत्यर्थः । साधकोक्तिबाधकोद्धारयोरनन्तरं परमतनिरासस्यावसरप्राप्तेरिति भावः ॥ पञ्चम इति ॥ ‘‘साक्षादप्यविरोधं जैमिनि’’रित्यत्र ॥ षष्ठादिष्विति ॥ ‘‘अभिव्यक्तेरित्याश्मरथ्यः । अनुस्मृतेर्बादरिः । सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति । आमनन्ति चैनमस्मि’’न्नित्येतेषु ॥ साधारणेति ॥ उक्तवक्ष्यमाणसर्वशब्दसाधारणेत्यर्थः । तत्रापि पौर्वापर्यमाक्षिप्य समाधत्ते ॥ यद्यपीति ॥ पञ्चमादेरत्रानिवेशमाशङ्क्य द्वेधा समाधिमाह ॥ न चेति ॥ पदादीति ॥ पदवर्णस्वरादिसमन्वयादिनिष्ठानां चतुर्मुखाद्युत्तमाधिकारित्वेन तेषां व्याप्तदर्शित्वादिति भावः । तर्हि तृतीयपादान्ते निवेशः स्यादित्यत आह ॥ तथोभयत्रेति ॥
पाण्डुरङ्गि
॥ सूत्राक्षरार्थ इति ॥ इदंशब्दवदितिशब्देन पूर्वसूत्रे प्रकृतवैश्वानरविष्णुपरामर्शात् तस्य स्मर्यमाणत्वोक्तया स्मृतिश्रुत्योरेकार्थत्वप्रदर्शनेन समाख्याप्रदर्शकत्वं भाष्य इति शब्दस्योक्तमिति भावः ।