०३ सिद्धान्तनिरूपणम्

सिद्धान्तस्तु

सिद्धान्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ॥

अज्ञास्त्वज्ञानतः शब्दानन्यत्रैव प्रयुंजते ।

ज्ञानिनोऽपि च हानादिव्यवहारप्रसिद्धये ॥ १ ॥

अज्ञानिन इव ज्ञानिनोप्यन्यत्र हानादिव्यवहारस्यापेक्षितत्वात्तस्य च शब्दप्रयोगाधीनत्वाद् ब्रह्मण्यमुख्यस्यान्यत्र मुख्यस्य च शब्दस्याभावादनन्यगतिकतयाऽन्यत्रापि प्रयुञ्जते । जातिःशब्दार्थ इति मते जातौ मुख्यानपि शब्दान् हानादिव्यवहाराय व्यक्ताविव । अग्न्यादाविन्द्रादिशब्दप्रयोगे च व्यवहारव्यवस्था न स्यात् । न चाग्न्यादौ वह्न्यादिशब्दानामिवेन्द्रादिशब्दानामपि शक्तिरभिधानादिसिद्धा । अग्निर्दुःखी अग्निर्वै देवानामवम इत्यादौ च तद्गतत्वेन विवक्षितदुःखित्वाद्यनुपपत्तेर्भृत्ये जयिशब्दस्येवाग्निशब्दस्यान्यत्रामुख्यता । अन्यथाऽलौकिकमग्न्यादिस्वरूपमेव न सिद्ध्येदिति कथं तत्र प्रयोगाभावापादनम् । सूक्तादिव्यवस्थायां त्वग्न्यादिसूक्तादिभिर्ब्रह्मोपासनयाऽग्न्यादावेव ब्रह्मणोऽभिव्यक्तिर्वा अग्न्यादिसूक्ताद्युपासकैरग्न्यादावेव ब्रह्मणोऽनुस्मरणीयत्वं वा तदुपासकानामग्न्यादिस्थब्रह्मप्राप्तिर्वा निमित्तम् । यद्यपि ऋग्भाष्ये–

पृथग्रूपाणि विष्णोस्तु देवतान्तरगाणिच ।

अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥

इत्यग्न्यादिशब्दप्रयोगः सूक्तव्यवस्थापक उक्तः । एवं च यथा सामशब्दस्तद्विशेषबृहद्रथन्तरादिशब्दाश्च ऋगाश्रितगीतिविशेष एव मुख्यास्तदाश्रयनानाऋक्षु त्वमुख्यास् तथैव द्वितीय उक्तत्वात् सप्तमे उपपादितत्वान्नवमे स्मारितत्वाच्च । एवमिन्द्राग्न्यादिशब्दास्तत्तत्सूक्तानि चेन्द्राग्न्यादिगतब्रह्मरूपेष्वेव मुख्यानि । अतीतानागतनेकेन्द्रादिषु त्वमुख्यानीत्येव व्यवस्था सिद्ध्यति । अन्यथा परमतेऽपि सौरसावित्रादेरेकदेवताकत्वादिदं सौरमिदं सावित्रमिति व्यवस्था न स्यात् । तथापीह सूत्र आग्नेयादिसूक्तोपासकैरग्न्यादिगतत्वेनानुस्मर्तव्यमित्यनुष्ठानविशेषोपयोगिव्यवस्थापकमुक्तम् । उक्तं चानुक्रमणिकायामपि सर्वसूक्तानां परमात्मदेवताकत्वं ‘‘एकैववा महानात्मा देवते’’ति । एतेन यागव्यवस्थापि सिद्धा । ‘‘अहं हि सर्वयज्ञानां भोक्ताच प्रभुरेव चे’’त्यादिना सर्वयागानां विष्णुदेवताकत्वेपि आग्नेयादियागेष्वग्न्यादिगतस्यैव भगवतोऽग्न्यादिशब्दैरेवोद्देष्टव्यत्वादिना यागव्यवस्थोपपत्तेः । अग्नीषोमीयादीनां द्विदेवताकत्वं चाधिष्ठानद्वित्वेन वाऽधिष्ठितभगवद्रूपद्वित्वेन वेति द्रष्टव्यम् ।

प्रकाशिका

आत्मशब्दश्रुतिस्मृतिसमाख्याप्रकरणाभिविमानत्वादिलिङ्गानां वैश्वानरस्य विष्णुत्वसाधकानां, वैश्वानरादिश्रुत्यादेरन्यत्र व्यवहारान्यथानुपपत्त्या सूक्तादिभेदव्यवहारान्यथानुपपत्त्या च विष्णुत्वासाधकत्वोक्तेर् व्यवहारस्य गत्युक्तयैवात्मशब्दादिबलाद्वैश्वानरो विष्णुरिति भाष्यटीकारीत्या सिध्यतीति भावेन व्यवहारस्य गत्युक्तिपरां ‘‘अनन्ययोगेन ब्रह्मवाचकैरपि तैर्ज्ञानिनो हानादिसिद्ध्यर्थमन्यत्राग्न्यादौ व्यवहरन्ती’’त्यादिसाक्षादित्यादि सूत्रभाष्यटीकां विवृण्वंस्तदुक्तं प्रमेयं सङ्गृह्याह ॥ अज्ञास्त्विति ॥ अज्ञानां मुख्यार्थाज्ञानतोऽन्यत्र प्रयोगेपि ज्ञानिनां कुतस्तत्र प्रयोगः । हानादिव्यवहारस्यान्येनापि सम्भवादित्यत उत्तरार्धं व्यनक्ति ॥ अज्ञानिन इवेति ॥ एतेन पूर्वार्धस्योपयोगो दर्शितः । तमग्रे स्पष्टयिष्यामः । यद्वाऽत्र भाष्यादावनभिज्ञानादन्यत्र व्यवहारोक्तिः ‘‘जगद्वाचित्वा’’दिति सूत्रसिद्धस्येह दृष्टान्तत्वेनेति सूचनायाज्ञानिन इवेत्युक्तम् । यद्वाऽन्यत्र व्यवहारो न स्यादित्येतदज्ञानिनो ज्ञानिनो वेति विकल्प्य श्लोके द्वयोर्गत्युक्तिः । नेदं रजतं तस्माज्जहि इदं रजतमुपादत्स्वेत्यादिव्यवहारस्य शब्दैकसाध्यत्वादित्यर्थः ॥ अन्यत्रापीति ॥ एतेन श्लोके चोऽप्यर्थोऽनुवृत्तेनान्यत्रेतिपदेनान्वेतीति सूचितम् ॥ मत इति ॥ भट्टमते ॥ प्रागुक्तातिप्रसङ्गं निराह ॥ अग्न्यादाविति ॥ अज्ञानां सर्वशब्दमुख्यार्थेश्वराज्ञानतोऽन्यत्रैव शब्दव्यवहारात् तस्य चासङ्कीर्णत्वाय व्यवस्थयैवशब्दप्रयोगात् प्राज्ञा अपि तत्प्रहाणेन शब्दान्तरोपादाने कृत्याभावाद्बहुलाज्ञप्रयोगानुसार्यभिधानादिसिद्धशब्दशक्तयनुसाराच्च व्यवस्थयैव शब्दान् प्रयुञ्जते । तदर्थत्वाच्छब्दप्रयोगस्येत्यर्थः । यदप्यग्न्यादौ वह्न्यादिशब्दस्याप्यप्रयोग इति तत्साम्यापादनं तत्र तद्वैषम्यमाह ॥ न चेति ॥ एतेन जयिशब्दस्य राजभृत्ययोरिव वह्न्यादिशब्दानां कल्पनोपदेशादिति न्यायेन जगद्ब्रह्मवाचकत्वाविशेषेऽपि न्यूनाधिकभावेनोभयत्र शक्तिरेवेति सूचितम् । यदत्रोक्तं जयिशब्दवैषम्यं तत्राह ॥ अग्निर्दुःखीति ॥ दुःखादिस्वामित्वेन दुःखित्वमीशेऽपि युक्तमित्यतस्तद्गतत्वेनेत्युक्तम् । तद्गतनीचत्वापादकत्वेनेत्यर्थः । अन्यथा अमुख्यतोऽपि तत्राप्रयोगे । प्रत्यक्षादिसिद्धतां निराह ॥ अलौकिकेति ॥ एवं ‘‘साक्षादप्यविरोधं जैमिनि’’रिति सूत्राभिप्रेतमन्यत्र व्यवहारसमर्थनमुपपाद्य ‘‘अभिव्यक्तेरित्याश्मरथ्यः । अनुस्मृतेर्बादरिः । सम्पत्तेरिति जैमिनि’’रिति सूत्रोक्तान् सूक्तादिव्यवस्थाहेतूस्तत्तत्सूत्रभाष्यटीकां विवृण्वन्नाह ॥ सूक्तादीति ॥

ननु ऋग्भाष्ये विष्णोरग्न्याद्यन्तर्गतान्यग्न्यादिशब्दवाच्यानि कानिचिद्रूपाणि कानिचित्तु तदनन्तर्गतानि पृथग्विद्यमानान्यग्नीन्द्रादिशब्दवाच्यानि सन्तीति भिन्नभिन्नशब्दवाच्यविष्णुरूपबोधकत्वाद्विष्णुरूपैकदेवताकत्वेऽपि संज्ञाभेदात्सूक्तादिव्यवस्था युक्तेत्युक्तम् । अत्र पुनरग्नावधिष्ठानेऽपरोक्षीभूतत्वादिकं निमित्तमुच्यते । एतच्चायुक्तम् । तथात्व इदं विष्णुसूक्तमिदं वामनसूक्तमिदं पुरुषसूक्तमिति व्यवस्थाभावापत्तेः । तत्राधिष्ठानस्यैवाभावात् । सौरसावित्रादिसूक्तव्यवस्थाभावापत्तेश्च । तत्राधिष्ठानभेदाभावात् । अतोन्यत्र भाष्यकृदुक्तमेव समाधानं वाच्यमिति तदेव सूत्रकृताऽत्र कुतो नोक्तमिति भावेन तत्रोक्तमाशङ्क्य तत्समर्थनपूर्वमेतदुक्तेरभिप्रायमाह ॥ यद्यपीति ॥ द्विविधानि विष्णुरूपाणि । देवतान्तर्गतानि तदनन्तर्गतानिच । सर्वाणि चाग्न्यादिनामवन्ति । तत्राद्ये रूपाणां नाम्नाऽधिष्ठाननाम्ना चाग्न्यादिसूक्तभेदः । अन्त्ये रूपनाम्नैवेत्युक्तमित्यर्थः । तत्र नामादीनां भगवति मुख्यत्वमन्यत्र तत्सम्बन्धनिमित्तत्वमित्येतद्दृष्टान्तेन समर्थयते ॥ एवं चेति ॥ द्वितीय इति ॥ द्वितीयेऽध्याय आद्यपादे ‘‘गीतिषु सामाख्ये’’ति द्वादशेऽधिकरणे यद्यपि प्रगीते मन्त्रे साम शब्दप्रयोगोऽभियुक्तानाम् । तथापि मन्त्रनिष्टा गीतिरेव सामशब्दार्थ इत्येतावन्मात्रमुक्तम् । तत्कथमित्याशङ्कायां सप्तमेध्याये द्वितीयपादे ‘‘साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद्यथाशिष्ट’’मित्यधिकरणे ‘‘कवतीषु रथन्तरं गायती’’त्यनेन रथन्तरशब्देन कवतीषु ऋक्षु किमतिदिश्यत इति परिज्ञानार्थं रथन्तरशब्दः किं गीतिविशिष्टानां ‘‘अभित्वाशूरनोनुम’’ इत्यादीनामृचां वाचक उत गीतिमात्रस्येति सन्देहे अध्येतृप्रसिद्ध्या गीतिविशिष्टऋग्वाचक इति प्राप्ते ‘‘विशेष्यं नाभिधागच्छेत्क्षीणशक्तिर्विशेषण’’ इति न्यायेन गीतिमात्रस्य वाचक इत्युपपादितत्वान् नवमे द्वितीयपादे ‘‘सामानि मन्त्रमेके स्मृत्युपदेशाभ्या’’मित्याद्याधिकरणे सप्तमसिद्धस्यैव गीतिवाचित्वस्योत्तरविवक्षया स्मारितत्वादित्यर्थः । उक्तं च शाबरभाष्ये ‘‘तदेव पुनरभिधीयते स्मारणायोत्तराधिकरणं चिन्तयितुम् । गीतिस्सामेति स्थिते इदं चिन्त्यते । किं गीतिष्वृचः प्रधानभूता उत गुणभूता इति । ‘‘सामानि मन्त्रमेक’’ इति पूर्वपक्षोऽपि तत्रत्यसिद्धान्तस्मारणार्थमेवे’’त्यादि । अत्र त्रितयोक्तिर्दार्ढ्यायेति ज्ञेयम् । यदत्र केनचिदुक्तं ‘‘विशेष्यं नाभिधागच्छे’’दिति न्यायाद्गानविशिष्टऋग्वाचित्वे कवतीषु रथन्तरं गायतीत्यतिदेशानुपपत्त्या तत्र तथात्वेऽपि नेह तथात्वमिति तत्तुच्छम् ।

तत्तन्नाम्नोच्यते विष्णुस्सर्वशास्तृत्वहेतुतः ।

नक्वापि किञ्चिन्नामास्ति तमृते पुरुषोत्तमम् ॥

इत्यादिवचनजातेन ‘‘समाकर्षा’’दित्याद्युक्तन्यायेन तत्सिद्धेरिति ॥ अन्यथेति ॥ अग्न्यादिनानाशब्दप्रयोगेन सूक्तादिव्यवस्थाया अभाव इत्यर्थः ॥ तथापीति ॥ नामभेदेन सूक्तव्यवस्थासिद्धावपीत्यर्थः ॥ परमात्मदेवताकत्वमिति ॥ यद्यपि तत्र ‘‘एकैववा महानात्मा देवता सूर्य इत्याचक्षते । सहि सर्वभूतात्मा । तदुक्तमृषिणा सूर्य आत्मा जगतस्तस्थुपश्चे’’त्युक्तेः सूर्यदेवताकत्वमेवोक्तं भाति । तथापि स्थावरजङ्गमात्मकजगदात्मकत्वलिङ्गात् ‘‘तद्विभूतयोऽन्या देवतास्तदप्येतदृषिणोक्तम् इन्द्रं मित्रं वरुणमग्निमाहु’’रिति तदीयोत्तरवाक्याच्च सूर्यशब्देन परमात्मैवाभिप्रेत इति भावः । एतेनेत्यनेनात्रोक्तमृग्भाष्योक्तं च हेतुद्वयं परामृश्यत इति भावेन तद्व्यनक्ति ॥ अहं हीति ॥ अत्रोत्तमाधिकारिरूपकर्तॄणामधमाधिकारिरूपकर्तॄणामग्न्यादिगतविष्णूद्देशप्रकारः ‘‘गुहाशयायैव न देहमानिने’’ नदेहाय न तन्मानपराय च । सदेहमानिहरये प्रणमेत्केवलायवे’’त्यादिना कर्मनिर्णयोक्तो ध्येयः । आदिपदेन सङ्कल्पादिः । अग्नीषोमीयेति ॥ सर्वयागानां विष्णुदेवताकत्वेऽपीत्यनुकर्षः ॥

चन्द्रिकाबिन्दुः

सिद्धान्तस्त्विति ॥ अन्यथेति ॥ अन्यत्र प्रसिद्धिमात्रेणाग्न्यादिशब्दानां भगवल्लक्षणमुख्यार्थत्वानङ्गीकारे तेजोभूतयोरग्निशब्दस्य प्रसिद्ध्यविशेषात् । पूर्वपक्षिणा त्वयाप्यलौकिकाग्न्यादिदेवतावाचित्वं नाङ्गीकर्तव्यं स्यात् । तथा चाग्निदेवतायां प्रयोगो न स्यादिति त्वदाऽपादनमयुक्तं स्यात् । तथा च अन्यत्र प्रसिद्धिमात्रमप्रयोजकमिति भावः ॥ पृथग्रूपाणीति ॥ अग्निशब्दवाच्यानि अग्न्यन्तरगतान्यपि वाक्यानि अग्न्यादिनामयोगेनैव सूक्तादिव्यवस्थेत्यर्थः । नन्वेवमप्यग्न्यादिसूक्तव्यवस्था नोपपन्ना । सर्वेषामपि शब्दानां भगवद्वाचकत्वेन भगवद्वाचकाग्न्यादिनाम्नैव भगवद्वाचकेन्द्रवरुणविष्ण्वादिनाम्नामपि अग्निसूक्तादेव सत्त्वात् । तथा च इन्द्रसूक्तमित्यादिव्यवहारः स्यात् । न च प्रतिपाद्याग्निदेवतानिष्ठपरमात्मवाचकत्वमेवाग्न्यादिशब्दस्य । इन्द्रादिशब्दस्यापि अग्निदेवतानिष्ठभगवत्परत्वमेव । एवमिन्द्रसूक्तेऽपि व्यवस्था युक्तेति वाच्यम् । तथात्वेऽग्निशब्दस्य प्रतिपाद्यदेवतायां मुख्यवृत्तिस् तन्निष्ठपरमात्मनि चामुख्यवृत्तिः स्यादित्याशङ्कां दृष्टान्तमुखेन परिहरन् व्यवस्थामुपपादयति ॥ एवं चेति ॥ नानाऋक्षु विजातीयच्छन्दोबद्धास्वपि ऋक्षु । अनेन सामरथन्तरादिशब्दवाच्यत्वं न ऋचाम् । (एवं) तासु जगत्यादिच्छन्दोबद्धासु अनुगतनिमित्ताभावात् । सर्वत्र गीतिरेवानुगतनिमित्तमुक्तमित्युच्यते तर्हि सैव सामरथन्तरादिशब्दवाच्येति युक्तिं सूचयति ॥ अतीतानागतेति ॥ उत्तरत्रापीयं युक्तिरनुसन्धेया । इन्द्रपदं प्राप्तेषु जीवेषु इन्द्रपदप्रवृत्तिनिमित्तसम्पादकभगवन्मूर्तिविशेषस्यान्तर्यामिमूर्त्यपेक्षया भिन्नस्याप्यवस्थानङ्गीकारादिति । अन्यथा नामयोगेन सूक्तादिव्यवस्थानङ्गीकारे । योगव्यवस्थाप्रकारं सूचयन् तत्समाधानप्रकारं दर्शयति ॥ अहं हीत्यादिना ॥ इतिशब्दः समाख्यासूचकत्वप्रकारमुपपादयति ॥

प्रथमाध्यायस्य द्वितीयः पादः समाप्तः

पाण्डुरङ्गि

हानादिव्यवहाराय व्यक्ताविवेति ॥ यद्यपि कल्पनोपदेशाच्चेत्यादिनाऽन्यत्रापि वक्ष्यमाणया मुख्यवृत्त्यैव व्यवहारः । तथापि समाकर्षादिति न्यायेन परममुख्यस्वारसिकप्राप्तस्य विष्णोः परित्यागेन किमर्थमन्यव्यवहार इत्यस्याः शङ्काया अतः कविर्नामसु यावदर्थस्स्यादित्युक्तरीत्या व्यवहारार्थमित्युत्तरम् । अत्र मुख्यलाक्षणिकयोर्जातिव्यक्तयोरिव मुख्यामुख्यमात्रांशे दृष्टान्त इति ज्ञेयम् । अन्यथा नचेत्युत्तरवाक्यविरोधापत्तेरिति भावः । नन्वेवं ब्रह्मणि मुख्यानामन्यत्र व्यवहारे लक्षणाद्यापत्त्याग्न्यादिशब्दानामिन्द्रादाविन्द्रादिशब्दानामग्न्यादौ प्रयोगः स्यादित्यत आह ॥ अग्न्यादाविति ॥ नन्वग्न्यादौ वह्न्यादिशब्दप्रयोग इवेन्द्रादिशब्दानामपि प्रयोगे व्यवहारव्यवस्था किं न स्यात् । अन्यथा व्यवहारव्यवस्थानुपपत्त्या वह्न्यादिशब्दानामपि प्रयोगो न स्यादित्यतो वैषम्येण परिहरति ॥ न चाग्न्यादाविति ॥ ननु भृत्यो विजयीत्यत्र भृत्यशब्दस्य भृत्ये मुख्यत्वात्तदन्वयाय जयिशब्दस्य तत्रामुख्यतासम्भवेऽपि प्रकृतेऽपि सर्वेषामपि शब्दानां ब्रह्मणि मुख्यत्वेन ब्रह्मणोऽन्यत्र कस्यापि शब्दस्य मुख्यस्याभावात् । कस्यान्वयाय शब्दान्तरस्यामुख्यता स्यादित्यत आह ॥ अग्निर्दुःखीति ॥ अन्यथेति ॥ सर्वथाऽग्न्यादिशब्दानामग्न्यादिपरत्वाभाव इत्यर्थः । अग्न्यादिशब्दानाममुख्यवृत्त्याऽप्यग्न्यादिपरत्वाभावेऽपि प्रत्यक्षेणैवाग्न्यादिसिद्धिरित्यत उक्तम् ॥ अलौकिकमिति ॥ द्वितीय उक्तत्वादिति ॥ द्वितीयाध्याये प्रथमपादे गीतिषु समाख्येत्यस्मिन्नधिकरण उक्तत्वादित्यर्थः । ननु तथाप्येकदेवताकत्वात्कथं भेद इत्यत आह ॥ अन्यथेति ॥