०१ संन्गतिकथनम्

अत्र यद्यपि वैश्वानरनाम्नः सूत्र एवाग्नाविष्णोः..

वैश्वानराधिकरणम्

तात्पर्यचन्द्रिका

संन्गतिकथनम्

॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥

अत्र यद्यपि वैश्वानरनाम्नः सूत्र एवाग्नाविष्णोः साधारण्यस्योक्ततयोभयत्र प्रसिद्धता । तथाप्यन्यत्र प्रसिद्धपाचकत्वादिबहुलिङ्गसमन्वयस्याप्यत्रोक्तेर्बह्वनुग्रहस्य च न्याय्यत्वात् प्रथमातिक्रमे कारणाभावाच्च पादसङ्गतिरित्येके । इतरे तु । अन्यत्र प्रसिद्धलिङ्गांशेन द्वितीयपादसम्बन्धादुभयत्र प्रसिद्धनामांशेन च तृतीयपादसम्बन्धादुभयानुग्रहाय पादद्वयमध्येऽस्य निवेश इत्याहुः । तन्न । ‘‘अन्यत्र प्रसिद्धवैश्वानरनाम्न’’ इति टीकाविरोधात् । सूत्रोपात्तवैश्वानरशब्दस्यान्यत्र प्रसिद्धिसम्भवे उक्तकल्पनद्वयायोगाच्च । तस्मादित्थं पादसङ्गतिः । वैश्वानरशब्दस्य श्रुत्यन्तरेऽग्नौ प्रयोगाद्वा विषयवाक्येऽग्निशब्दसामानाधिकरण्याद्वाऽन्यत्र प्रसिद्धता नाभिप्रेता । येन ‘‘स्थूलभुग्वैश्वानरः प्रथमःपाद’’ इति श्रुत्यन्तरे विष्णावपि प्रयोगाद्वा ‘‘आत्मानं वैश्वानर’’मिति विषयवाक्ये ‘‘गौणश्चेन्नात्मशब्दा’’दित्यत्र विष्णुसाधारणतयोक्तात्मशब्दसामानाधिकरण्याद्वोभयत्र सिद्धता स्यात् । किं तु लोकतः । अत एव टीकायां ‘‘लोकतोऽन्यत्र सिद्धे’’त्युक्तम् । सूत्रोक्तं साधारण्यं त्वन्यत्र प्रसिद्धेर्विष्णुलिङ्गानां च निरवकाशत्वेन तुल्यबलतया । न तु वैश्वानरशब्दस्योभयत्र प्रसिद्ध्येत्यन्यत्र प्रसिद्ध्यविघातेनैव टीकायां दर्शितम् । अत्रानुव्याख्याने ‘‘श्रुतिर्लिङ्गाधिका परे’’ति वैश्वानरशब्दस्य नामत्वोक्तेर्लोकेऽग्नौ रूढत्वाच्च टीकायां नामतोक्ता । ‘‘विश्वजीवान्तरत्वाद्यैर्लिङ्गै’’ रिति सङ्क्षेपभाष्यकारीया लिङ्गत्वोक्तिस्तु सिद्धान्ते ब्रह्मणि यौगिकत्वाभिप्राया । अनन्तरसङ्गतिस्तु गताधिकरणोक्तसर्वगतत्वाक्षेपेण पूर्वपक्षोत्थानादिति भाष्य एवोक्ता ।

प्रकाशिका

अत्र टीकायां ‘‘लोकतोऽन्यत्र प्रसिद्धवैश्वानरनाम्नः पाचकत्वाद्यनेकलिङ्गसमन्वयसिद्धये’’ इत्यादिनाऽस्य नयस्यात्र पदेऽन्तर्भाव उक्तः । स च सुधायां ‘‘अस्याधिकरणस्य नात्रान्तर्भावस्सम्भवति । नामात्मक शब्दसमन्वयार्थत्वात् । नापि पूर्वत्र । लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् । न चोभयबहिर्भावः । अन्यत्रप्रसिद्धशब्दविषयत्वात् । न चावक्तव्यता । समन्वयासिद्धिप्रसङ्गात् । तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावस्समर्थितः । यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषोऽय’’ मित्यादिना ग्रन्थेन विवृतः । तत्र लोकतोऽन्यत्रप्रसिद्धेत्यंशस्य सूत्रविरोधशङ्कां समाधातुमाह ॥ अत्र यद्यपीति ॥ उत्तानदृशां समाधिद्वयमनूद्य निराह ॥ तथापीति ॥ नाम्न उभयत्र प्रसिद्धत्वेऽपीत्यर्थः ॥ प्रथमेति ॥ नामांशेन तृतीये लिङ्गांशेन लिङ्गपादेंऽतर्भावप्राप्तौ प्रथमस्य लिङ्गपादान्तर्भावस्यातिक्रमे कारणाभावाच्चेत्यर्थः । सम्भव इत्युक्तसम्भवप्रकारमेवाह ॥ तस्मादिति ॥ सङ्गतिर् अन्तर्भावरूपा । यद्याकाशोऽर्थान्तरेत्यादाविव ‘‘वैश्वानरमृत आजातमग्नि’’मित्यन्यत्र प्रयोगेण वा, सर्वगतत्वादेरादित्यादिशब्दसामानाधिकरण्येनेव श्रुत्यन्तरसामानाधिकरण्येनवान्यत्रप्रसिद्धता स्यात् तदा ‘‘स्थूलभुग्वैश्वानर’’ इत्यादौ प्रयोगादितौल्यस्य विष्णावपि सत्त्वेन ‘‘श्रुत्यन्तरादिभिस्तुल्ये’’त्युक्तलक्षणसत्त्वेनोभयत्र प्रसिद्धता स्यात् । न चैवम् । किन्तु लोकप्रयोगात् । स च विष्णौ नेति नोभयत्र प्रसिद्धतेत्यर्थः । सौत्रोक्तेष्टीकारीत्या गतिमाह ॥ सूत्रोक्तमिति ॥ ‘‘अतः प्रसिद्धिलिङ्गयोरुभयोरपि निरवकाशत्वेन वैश्वानरश्रुतेरग्नाविष्णोस्साधारण्यमेव स्या’’दिति टीकायामित्यर्थः । या तु न्यायविवरणटीकायां रूढ्यान्तरधिकरणन्यायेन च विष्णौ तदितरत्र श्रुतेस्साधारण्योक्तिस्साऽभ्युपेत्यवादेन नेया । यापि तत्वप्रदीपे ‘‘पूर्वत्रान्यत्रप्रसिद्धिमात्रप्रतिषेधाज्ज्वलनजनार्दनयोस्साधारणस्य वैश्वानरशब्दस्य विष्णावेव प्रवृत्तिप्रदर्शनेनोभयत्रप्रसिद्धोभयविधपदकदम्बकसमन्वयावसरसूचनमाचरत्यग्नाविष्णोरित्यादिने’’त्युक्तिस्सापि टीकानुसाराद् यद्यप्येवं साधारण्यं तथापि लोकतोऽन्यत्रप्रसिद्धत्वादत्र निवेश इत्याद्यभिप्रायेण योज्येति भावः । टीकायां वैश्वानरशब्दस्य नामत्वोक्तेर्मूलं वदन्नणुभाष्यविरोधशङ्कां च निराह ॥ अत्रेति ॥ लोकेऽग्नौ रूढत्वाच्चेति ॥ ‘‘बहुभीरूढनामभि’’रित्यनुभाष्योक्तेः ‘‘श्रुतेरपि प्रसिद्धितो निरवकाशत्वा’’दिति टीकोक्तेः, ‘‘श्रुतेर्देवताभूतविशेषयोरूढत्वा’’दिति न्यायविवरणटीकोक्तेः, ‘‘वैश्वानरशब्दस्याविद्वद्रूढ्याग्निविषयस्यापी’’ति सन्न्यायरत्नावल्युक्तेश्चेति भावः । एतेन नामत्वे फलतो लिङ्गत्वे साक्षादेवैतत्पादान्तर्भावोऽस्य सूचितः । एवं ‘‘लोकतोऽन्यत्रे’’ त्यादिटीकां व्याख्याय ‘‘श्रुत्यादिसङ्गति’’मित्यादिटीकां व्यनक्ति ॥ अनन्तरेति ॥ पूर्वाधिकरणतद्विषयवाक्याभ्यामेतदधिकरणैतद्विषयवाक्ययोरित्यर्थः । आक्षेपप्रकारश्चाग्रे स्पष्टः । न च तद्भाष्यं प्रयोजनमात्रपरम् । उभयपरत्वे बाधकाभावादिति भावः । एतेन–

सार्वात्म्यरूपोपन्यासादक्षरं ब्रह्म वर्णितम् ।

जाठरादावनैकान्त्यशङ्का तस्य निरस्यते’’ ॥

इति कल्पतरूक्तसङ्गतिर्निरस्ता वेदितव्या । वैश्वानरनामसन्निहितोन्मानत्वमुखेन पूर्वत्र प्रधानसूत्रप्रतिज्ञोपात्तसर्वगतत्वाक्षेपसम्भवेऽपीदृशस्यायुक्तत्वात् । सार्वात्म्ये रूपशब्दाप्रयोगेन त्वद्रीत्या सार्वात्म्यस्य ‘‘रूपोपन्यासादि’’ति सूत्रार्थतया वर्णनायोगस्योक्तत्वाच्चेति ।

चन्द्रिकाबिन्दुः

वैश्वानरः विश्वनरसम्बन्धी विश्वजीवपतिरिति यावत् । ननु भवदुक्तरीत्याऽन्यत्र प्रसिद्धत्वमप्यागतं सूत्ररीत्योभयत्र प्रसिद्धत्वमपि । तथा चाविशेषादत्रैव द्वितीयपादे समन्वयः किमिति निरूप्यत इत्यत आह ॥ प्रथमेति ॥ पूर्वपादातिक्रम इत्यर्थः ॥ टीकाविरोधादिति ॥ तत्र नामत्वेनान्यत्र प्रसिद्धत्वस्यैवोक्तेरिति भावः । वैश्वानरशब्दस्य उभयत्र प्रसिद्धत्वं नास्तीति दर्शयितुम् आदावुभयत्र प्रसिद्धत्वप्रकारमानन्दमयाधिकरणोक्तं स्मारयति ॥ वैश्वानरशब्दस्येत्यादिना ॥ सूत्रस्थसाधारणशब्दाभिप्रायं दर्शयति ॥ सूत्रोक्तमिति ॥ संक्षेपेण प्राप्तं टीकाविरोधं परिहर्तुं वैश्वानरशब्दस्य नामत्वं द्रढयति ॥ अत्रानुव्याख्यानेति ॥ श्रुतिर् वैश्वानरनाम लिङ्गाधिकापाचकत्वाद्यनेकलिङ्गैः । अन्यत्र प्रसिद्धानां पादस्यान्ते समन्वीयत इति शेषः ॥ यौगिकत्वाभिप्रायेति ॥ गुणविशेषसमन्वयार्थं प्रवृत्तत्वादिति भावः ।