०४ अद्वैतमतपरीक्षा

अन्ये तु

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्ये तु ॥ अचेतनं विश्वमचेतनस्य प्रधानस्यैव विकारो न तु चेतनस्य ब्रह्मणः । वैरूप्यात् । तस्मात् ‘‘तथाऽक्षरात्सम्भवतीह विश्व’’मित्यत्र प्रधानमेव हेतुतयोच्यत इति प्राप्ते विश्वं न ब्रह्मविकारः किन्तु तद्विवर्तः । सर्प इव रज्ज्वाः । अधिष्ठानाध्यस्यमानयोश्च न सारूप्यनियमः । तदुक्तं भामत्यां

विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणामिनः ।

अनादिवासनोद्धूतो न सारूप्यमपेक्षते ॥ इति ।

तस्माददृश्यत्वादिगुणकं शुद्धं ज्ञेयं ब्रह्मैवेति सिद्धान्त इत्याहुः ॥ तन्न । निर्विशेषपरत्वेऽस्य पादासङ्गतेः । त्वन्मते ब्रह्मविवर्तताया आरम्भणाधिकरणादिषु सिद्धत्वेन विकाराश्रयणेनेह पूर्वपक्षानुदयाच्च । विवर्तपरत्वे श्रुतौ रज्जुसर्पादिदृष्टान्तस्यैव वक्तव्यतयोर्णनाभ्यादिदृष्टान्तोक्तययोगाच्च । श्रुतेर्विवर्तपरत्वेऽप्रामाण्यापातस्यान्यत्रोक्तत्वाच्च । यद्भूतयोनिमिति योनिपदाद्ययोगाच्च । न हि रज्जुः सर्पस्य योनिरित्युच्यते । न वा सर्पस्ततः सम्भवतीति । किं च त्वद्रीत्या धर्मोक्तेरिति सौत्रपदोपात्तैः ‘‘यःसर्वज्ञ’’ इत्यादिवाक्यशेषोक्तैः सार्वज्ञादिकैस् तथा ‘‘सूर्यद्वारेण ते विरजाः प्रयान्ती’’ति सूर्यद्वारेण गम्यत्वादिकैश्च धर्मैर्विशिष्टं कथं विश्वविवर्ताधिष्ठानं मुमुक्षुज्ञेयं शुद्धं ब्रह्म स्यात् ।

यच्चोक्तं द्वितीयसूत्रे ‘‘दिव्यो ह्यमूर्त’’ इति दिव्यत्वादिविशेषणं जीवाद्भेदकमिति । तन्न । वस्तुतो निर्विशेषेऽदृश्य आरोपितविशेषणस्य तत्साध्यभेदस्य चाविरोधेऽपि मुमुक्षोर्भेदभ्रमनिरासायाभेदस्यैव वक्तव्यत्वेन भेदभेदकयोरुक्तययोगात् । विशिष्टरूपजीवाभेदभ्रमनिरासाय तदुक्तिरिति चेन्न । एकभ्रमनिरासाय भेदभेदकविषयभ्रमद्वयोत्पादनायोगात् । शुद्धबोधनेन भ्रमद्वयनिरासे च विशिष्टाभेदभ्रमस्यापि ‘‘अदृश्यत्वादिगुणक’’ इति प्रतिज्ञयैव लक्षणया शुद्धबोधिन्या निरासेन द्वितीयादिसूत्रवैयर्थ्यम् ।

यच्चोक्तं तृतीयसूत्रे ‘‘पुरुष एवेदं विश्व’’मिति सार्वात्म्यं रूपशब्दार्थ इति । तन्न । अस्मदुक्तरुग्मवर्ण इव सार्वात्म्ये रूपशब्दाप्रयोगात् । अत्रापि परपक्षे ‘‘अदृश्यत्वादिगुणक’’ इति गुणोक्तेः ‘‘विशेषणभेदव्यपदेशाभ्या’’मिति जीवादिभ्यो भेदोक्तेश्च निर्गुणत्वाद्वैतप्रतिकूलता स्फुटैव ॥

प्रकाशिका

॥ अन्ये त्विति ॥ अदृश्यत्वादिगुणको भूतयोनि किं प्रधानमुत जीवोऽथ परमात्मेति सन्देहे नूपुरादेर्हेमपरिणामस्य हेमसरूपत्वदर्शनाद्रज्जुविवर्तस्य च भुजङ्गादेरज्जुसारूप्यदर्शनाज् जगतो जडस्य चेतनब्रह्मसारूप्यायोगेन ब्रह्मपरिणामविवर्तत्वयोरयोगात् ‘‘अक्षरात्सम्भवतीह विश्व’’मित्यचेतनं प्रधानमेव जगदुपादानतयोच्यते । भूतयोनिरिति योनिशब्दो यदि निमित्तवाची तदा जीव एवादृष्टद्वारा विश्वहेतुतयोच्यते । उक्तं च–

परिणामो विवर्तो वा सरूपस्योपलक्ष्यते ।

चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥

जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् ।

योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया ॥

एवं प्राप्तेऽक्षरं भूतयोनिं प्रक्रम्य वाक्यशेषे ‘‘यस्सर्वज्ञस्सर्ववि’’दित्यादिना सर्वज्ञस्य विश्वहेतुत्वावगमान्न जडं प्रधानमदृश्यत्वादिगुणकमक्षरम् । न चाक्षरात्परतः पर इत्ययुक्तम् । तत्राक्षरशब्देन मायाशक्तयपरपर्यायस्याव्याकृतस्य अश्नुते स्वकार्यमिति व्युत्पत्त्याक्षरपदेनाभिधानाद्ब्रह्मैवाक्षरात्सम्भवतीह विश्वमित्यत्र चोच्यते । तदुक्तं भामत्यां–

अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं मतम् ।

अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता ।

अश्नुते यत्स्वकार्याणि ततोऽव्याकृतमक्षरम् ॥ इति ।

यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति । सत्यम् । विश्वं न ब्रह्मविकारः । येन सारूप्यापेक्षा । विवर्तस्तु स्यात् । विसदृशेऽपि शङ्खे पीतिमारोपदर्शनात् । सारूप्यनियमाभावादिति सिद्धान्त इत्याहुरित्यर्थः । अनादिवासनेति ॥ हेतुमति विभ्रमे सादृश्याभावादनुयोगो युज्यते । अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हतीत्यर्थः । ज्ञेयं ब्रह्मैव न तु प्रधानं जीवात्मा वोपास्यत्वेनेत्यर्थः ॥ पादेति ॥ तृतीयपाद एव निवेशापत्तेरिति भावः ॥ आरम्भणेति ॥ ‘‘तदनन्यत्वमारम्भणशब्दादिभ्य’’ इत्यत्र कारणाद्ब्रह्मणः परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यत इत्यादिना त्वद्भाष्यादौ विवर्तत्वस्य वर्णितत्वादिति भावः । आदिपदेन प्रकृत्यधिकरणादि ग्राह्यम् । उपलक्षणमेतत् । न विलक्षणत्वादित्यधिकरणे जगतो चेतनत्वादिना ब्रह्मविलक्षणत्वेन न ब्रह्मोपादानकत्वमिति प्राप्ते वैलक्षण्येऽपि गोमयवृश्चिकादेः कार्यकारणभावोपलम्भात्तदुपादानकत्वं युक्तमिति सिद्धान्तितत्वेन परिणामत्यागेन विवर्तत्वाङ्गीकारायोगात् । एतच्छङ्कायास्तत्र सूत्र एव त्वन्मते निरासेनेहापि तथा पूर्वपक्षकरणायोगाच्चेत्यपि ध्येयम् । श्रुत्यनानुगुण्यं चाह ॥ विवर्तेति ॥ अन्यत्र न्यायामृतादौ ॥ योनिपदादीति ॥ सम्भवतीह विश्वमिति सम्भवशब्दो ऽन्नं च जायत इत्यादिशब्द आदिपदार्थः । तेषां कारणत्वप्रत्यायकत्वादिति भावः । आद्यसूत्रार्थं सिद्धान्ताननुगुणतया दूषयति ॥ किं चेति ॥

एवं हि सूत्रार्थः । अदृश्यादिगुणको भूतयोनिः परमात्मैव । यस्सर्वज्ञस्सर्वविदित्यादिना सार्वज्ञादिधर्मोक्तेरिति । तथा चैवंविधं ब्रह्म कथमधिष्ठानमित्यर्थः । नन्वेते धर्मा अतात्विकाः । अतो न दोष इति चेत्तर्हि प्रधानादिनिरासायोगात्सिद्धान्तानुत्थितिरिति भावः ॥ यच्चोक्तमिति ॥ ‘‘दिव्यो ह्यमूर्तः पुरुषस्स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाश्शुभ्र’’ इत्यदृश्यत्वादिगुणकभूतयोनेश्शारीराद्विलक्षणत्वेन दिव्यत्वामूर्तत्वादिना विशेषणान्न जीवः । तथा प्रकृतस्य भूतयोनेरक्षरात्परतः पर इत्यक्षरात्परतः प्रधानात्पञ्चमीनिर्दिष्टात्पर इति प्रथमान्तत्वेन भेदव्यपदेशान्न प्रधानं भूतयोनिरित्यर्थ इत्युक्तमित्यर्थः । तत्रैतदधिकरणबोध्ये निर्विशेषे भूतयोनिशब्दार्थे ब्रह्मणि तत्वतो दिव्यत्वादिविशेषणस्य भेदस्य चाभावेन ताभ्यां जीवप्रधानव्यावृत्त्ययोगात् । आरोपितयोस्तयोस्तत्र सम्भवोऽस्तीति चेत् तत्राह ॥ वस्तुत इति ॥ विशेषणेत्यादिकं लक्षणया शुद्धं बोधयतीति भेदभेदकोभयभ्रमोऽपि निवर्तिष्यत इत्यत आह ॥ शुद्धबोधनेनेति ॥ उपलक्षणमेतत् । त्वन्मते मन्मत इव विशेषहेतोरनुपन्यासेन दिव्यपुरुषत्वादिविशेषणेन प्रधानेऽप्ययुक्तेन द्वयोरपि निराससम्भवात् ‘‘सकारणं कारणाधिपाधिप’’ इति वदक्षरात्परतो जीवादित्यपि वक्तुं शक्यत्वेन भेदव्यपदेशेनापि द्वयोर्निराससम्भवेन प्रत्येकमेकैकनिरासायोगात् । विशेषणभेदाभ्यां क्रमेण जीवप्रधाननिरासे सूत्रे नेतरे इत्येव स्त्रीलिङ्गेन नपुंसकलिङ्गेन वा निर्देष्टव्यत्वेन नेतरावित्यस्यास्वारस्यं च । मन्मते तु द्वाभ्यां क्रमेण प्रधानचेतनयोर्निरास इति नेतराविति पुल्लिङ्गस्वारस्यमित्यपि ध्येयम् । रूपशब्दाप्रयोगादित्युपलक्षणम् । त्वन्मते पूर्वसूत्रयोरन्यतरविवक्षितैकविज्ञाननिबन्धनसर्वविज्ञानान्तर्गतत्वात्सर्वात्मभावस्येत्यपि ध्येयम् । इदमधिकरणं परैर्नारभ्यमेवेत्याह ॥ अत्रापीति ॥

चन्द्रिकाबिन्दुः

न सारूप्यनियम इति ॥ पीतश्शङ्ख इत्यादौ व्यभिचारादिति भावः । उत्तरदूषणसौकर्याय निष्कृष्य दर्शयति ॥ तस्मादिति ॥ त्वन्मत इति ॥ यद्यप्यारम्भणाधिकरणमुत्तरत्र तथापि सिद्धत्वस्याहानेरिति भावः ॥ श्रुतेरिति ॥ विवर्तस्य मिथ्यात्वादिति भावः ॥ भेदभेदकयोरिति ॥ विशेषणभेदपदाभ्यामिति शेषः ।

पाण्डुरङ्गि

॥ न सारूप्यनियम इति ॥ न खलु बाह्यसारूप्यनिबन्धनतस्सर्वो विभ्रम इति नियमनिमित्तमस्ति । आन्तरादपि कामक्रोधोन्मादस्वाप्नादेर्मानसापचारात्सारूप्यानपेक्षास्यापि भ्रमस्य दर्शनात् । अपि च हेतुमति विभ्रमे तदभावादनुयोगो युज्यते । अनाद्यविद्यातद्वासनाप्रवाहमध्यपतितस्तु नानुयोगमर्हतीति तदुक्तेरिति भावः । नन्वेतदधिकरणपूर्वपक्षदशायामारम्भाधिकरणसिद्धान्तानुन्मेषान्न तेनास्य गतार्थतेत्यत आह ॥ विवर्तपरत्व इति ॥ अन्यत्रेति ॥ न्यायामृत इत्यर्थः ॥