०५ अद्वैतमतपरीक्षा

अन्ये तु शरीरादिराहित्याद्ब्रह्मणो न नियन्तृत्वं पटवदिति

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

॥ अन्ये तु शरीरादिराहित्याद्ब्रह्मणो न नियन्तृत्वं पटवदिति प्राप्ते शरीरराहित्यमसिद्धम् । चैत्रकर्मनिर्मितस्य चैत्रशरीरत्ववद्ब्रह्मविषयकाविद्याकल्पितस्य जगतस्तच्छरीरत्वादिति सिद्धान्तः । तदुक्तं भामत्यां

देहेन्द्रियादिनियमेनास्य देहेन्द्रियान्तरम् ।

तत्कर्मोपार्जितं तच्चेत्तदविद्यार्जितं जगत् ॥

इतीत्याहुः । तन्न । तदविद्याकल्पितस्य तच्छरीरत्वे ब्रह्मवत्स्वतः शरीरशून्यशुक्तिस्थाण्वाद्यज्ञानकल्पितस्य रूप्यदेहादेः शुक्तिस्थाण्वादिशरीरत्वापातात् । ब्रह्मणः स्वाविद्याकल्पितेनास्मदादिसंसारेण संसारित्वापाताच्च । जगदार्जनात्प्रागशरीरस्यैव स्रष्टृत्ववन्नियन्तृत्वस्याप्युपपत्तेश्च । न चाशरीरस्यानियन्तृत्वे शङ्किते गौणशरीरोपादानं युक्तम् । किञ्च शुद्धं न नियन्तृ । अशुद्धं त्वविद्याकल्पितत्वान्नाविद्या विषयः । यच्चोक्तं देहादिनियन्तुरपि जीवस्य भिन्ननियन्तृनियम्यत्वे तन्नियन्तुरीश्वरस्यापि भिन्ननियन्तृनियम्यत्वेनानवस्थापातान्नियन्तृ ब्रह्म नियम्यजीवाभिन्नमिति । तन्न । अभेदे सुतरां नियन्तृत्वायोगात् । श्रुतिसूत्रयोर्भेदोक्तययोगाच्च । काल्पनिकभेदेन नियन्तृत्वादिकं युक्तमिति चेत्तर्हि यथा देहादिनियन्तुर्जीवस्य व्यावहारिकभेदवानीशो नियन्ता तथेशस्यापि व्यावहारिकभेदवानन्यो नियन्ता स्यादिति व्यावहारिकनियन्तृपरंपरयाऽनवस्था स्यात् । अथ ‘‘न वैशेष्या’’दित्युक्तन्यायेनेशस्य स्वातन्त्र्यादिविशेषान्न नियन्त्रन्तरं तर्ह्यनवस्थापरिहारो नाभेदेन । किंतु स्वातन्त्र्येणेति सत्यभेद एवास्तु । किं चानवस्थातो बिभ्यता शरीरजीवयोरेवैक्यं स्वीकार्यम् । प्रमाणविरोधस्तु जीवपरैक्येऽपि ‘‘भेदेनैनमधीयत’’ इति सूत्र एवोक्तः । किं चैवं सति स्वकार्यं प्रति कारणस्यापि पृथिव्यादिकस्य ब्रह्मकार्यत्वे ब्रह्मणोऽप्यन्यकार्यत्वमित्यनवस्थापरिहाराय पृथिवीब्रह्मणोरभेदः स्यात् । प्रमाणविरोधस्तु जीवपरैक्येऽपि सम इत्युक्तम् ।

प्रकाशिका

अन्ये त्विति ॥ अत्रान्तर्यामी किं प्रधानमुत पृथिव्याद्यभिमानिदेवता किं वा प्राप्ताणिमाद्यैश्वर्यः कश्चिद्योगी जीवोऽथ परमात्मेत्यादि भाष्ये प्रदर्शितम् । भामत्यां तु अचेतनस्य प्रधानस्य द्रष्टृत्वश्रोतृत्वविज्ञातृत्वादीनामेष त आत्मेत्युक्तात्मत्वस्य चायोगात् पृथिव्याद्यभिमानिनो देवस्य प्रतिनियतनियमनात् ‘‘यस्सर्वांल्लोकानन्तरो यमयति यस्सर्वाणि भूतान्यन्तरो यमयती’’त्युक्त सर्वलोकभूतनियमनायोगाद् योगिजीवस्य च ‘‘जगद्व्यापारवर्ज’’ मिति वक्ष्यमाणन्यायेन ज्ञानिनो नियमनादिव्यापाराभावान्न प्रधानाभिमानिदेवयोगिजीवानामत्र सन्देहविषयता । किन्तु जीवमात्रं वा परमात्मा वेति सन्देहे जीवमात्रमेव । लोके चेतनस्य शरीरिणः स्वशरीरेन्द्रियादौ शरीरेण वास्यादौ नियमनादिकार्योपलम्भाज्जीवस्य च शरीरेन्द्रियादि मत्त्वा द्द्रष्टृत्वादिसम्भवाच्च । अदृष्टादिद्वारा सर्वलोकादिनियन्तृत्वोपपत्तेश्च । य इत्येकवचनस्य च जात्यभिप्रायत्वात् । न च जीवस्याप्यन्यो नियन्ताऽऽवश्यक इति वाच्यम् । तस्याप्यन्यस्तस्याप्यन्य इत्यनवस्थापत्तेः । उक्तं च–

स्वकर्मोपार्जितं देहं तेनान्यच्च नियच्छति ।

तक्षादिरशरीरस्तु नात्मान्तर्यामितां भजेत् ॥ इति ।

एवं प्राप्ते सर्वस्य विकारजातस्य तदविद्याशक्तिपरिणामत्वात्तस्य च चैत्रकर्मनिर्मितस्य चैत्रशरीरादित्ववद्ब्रह्मणश्शरीरेन्द्रियादिस्थानत्वाद्यथायथं पृथिव्यादिकार्यकारणैस्तानेव पृथिव्यादिदेवान् शक्नोति नियन्तुमित्यधिदैवादिषूक्तोऽन्तर्यामी ब्रह्मैव । आत्मत्वामृतत्वादिधर्माणां व्यपदेशात् । न चानवस्था । नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुत्या नियन्तृब्रह्मणो नियम्यजीवाद्भेदानभ्युपगमात् । अविद्याकल्पितजीव परमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रुतय इति सिद्धान्त इत्यर्थः ॥ देहेन्द्रियादीति ॥ किमिदमशरीरत्वं यतो नियन्तृत्वाभाव उच्यते नियम्यातिरिक्तदेहराहित्यं वा देहसम्बन्धाभावो वा । नाद्यः । अस्य जीवस्य स्वदेहादिनियमने कार्ये न देहान्तरमस्तीति व्यभिचार इत्यर्थः । द्वितीयं शङ्कते ॥ तत्कर्मेति ॥ जीवे स्वकर्मोपार्जितदेहसम्बन्धोऽस्तीति चेत्परस्यापि देहासम्बन्धोऽ सिद्ध इत्याह ॥ तदविद्येति ॥ तद्विषयत्वादविद्यायास्तदविद्यात्वम् । पूर्वपक्षभागस्य प्रागेवास्मदीयपूर्वपक्षे दूषितत्वाद् अतिप्रसङ्गापादनेन सिद्धान्तांशं निराह ॥ तन्नेति ॥ रूप्यदेहादेरिति यथाक्रममन्वयः । नन्वगत्या स्रष्टृत्वाङ्गीकारेऽपि न नियमनं तथा वाच्यमित्यत आह ॥ न चेति ॥ अस्तु वा तदज्ञानकल्पितं तच्छरीरमिति । तथापि किं शुद्धस्येदं शरीरमुत विशिष्टस्येति विकल्प्य क्रमेण निराह ॥ किं चेति ॥ शुद्धस्य नियन्तृत्वमेव नास्ति । निर्विकारत्वात् । तस्य शरीराद्युपपादनक्लेशो व्यर्थः । विशिष्टं तु नियामकं भवति । तस्याविद्याविषयत्वाभावान्न तदीयत्वमविद्याया इति न तदविद्यार्जितं जगदिति न तच्छरीरत्वम् उक्तं च–

आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।

पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ इति ।

अनवस्थाशङ्कापरिहारौ च भाष्योक्तावनूद्य निराह ॥ यच्चेति ॥ प्रतिबन्दीमापादयन्ननवस्थापरिहारं प्रकारान्तरेणैव तेनैव वाचयति ॥ तर्हीति ॥ उक्तन्यायेन सर्वत्रेत्यधिकरणसूत्रेणोक्तन्यायेनेत्यर्थः ॥ किं चेति ॥ कियन्तं दूरं गत्वाऽभेदाश्रयणेन किमित्यर्थः । ननु देहाभेदे तस्य नाशेऽस्यापि नाशेन स्वर्गाद्युद्देशेन धर्माधर्मादिविधायकप्रमाणविरोधोऽनुभवविरोधश्चेत्यत आह ॥ प्रमाणविरोध इति ॥ अनवस्थानिरासाय नियन्तुर्नियम्याभेदेऽङ्गीक्रियमाणे कार्यस्याप्यभिन्नकारणजन्यत्वं स्याद् अन्यथोक्तदोषादिति जडाभेदोऽप्युपेयस्स्यादित्याह ॥ किं चैवं सतीति ॥ ननु यःपृथिव्यां तिष्ठन्नित्यादिभेदोक्तिर्विरुध्यत इत्यत आह ॥ प्रमाणेति ॥ उपलक्षणमिदम् । पृथिव्यादेः स्वातिरिक्तज्ञानप्रकाश्यत्वे ज्ञानस्यापि स्वव्यतिरिक्तज्ञानापेक्षत्वेनानवस्थाप्रसङ्गात्तन्निरासाय ज्ञानजडयोरभेदस्स्यात् । ज्ञानस्य स्वप्रकाशत्वे नियन्तुस्स्वातन्त्र्यमस्तु । एवं पृथिव्यादेस्स्वव्यतिरिक्तेन धारणे तत्रापि तथेत्यनवस्थेत्याद्यपि ध्येयम् ।

चन्द्रिकाबिन्दुः

नियन्तृत्वमिति ॥ य आत्मानमन्तरो यमयतीति वाक्यमिति शेषः । इदमेव तन्मतेऽपि विषयवाक्यमिति भावः ॥ देहेन्द्रियादीति श्लोकः कल्पतरौ व्याख्यातः । स्वतश्शरीरशून्येत्युक्तया स्वकर्मार्जितशरीरमेव शरीरमन्यं भवतीति सूचयतीति सूचितम् । अविद्याकल्पितशरीराङ्गीकारोऽपि व्यर्थ इत्यभिप्रेत्याह ॥ जगदार्जनादिति ॥ न चेति ॥ गौणसिद्ध्यसिद्धकार्याक्षमत्वादिति भावः ॥ भिन्नेति ॥ जीवापेक्षया भिन्नेत्यर्थः ॥ सुतरामिति ॥ भिन्नत्वपक्षे अनवस्थायामपि नियन्तृत्वं सम्भावितम् । अभेदपक्षे सम्भावनापि नास्तीति भावः ॥ तर्हीति ॥ देहेन साकं व्यावहारिकभेदवतः जीवस्य देहनियन्तृत्ववज् जीवेन साकमपि व्यावहारिकभेदवत ईश्वरस्य तन्नियन्तृत्वाङ्गीकारे तत्राप्येवमित्यनवस्था स्यादित्यर्थः ।

नियम्यनियामकभावपक्षेऽनवस्थावत् कार्यकारणभावपक्षेऽपि सा स्यादित्याह ॥ किञ्चेति ॥

पाण्डुरङ्गि

॥ तदुक्तं भामत्यामिति ॥ किमत्राशरीरत्वं यतो नियन्तृत्वाभावः । किं नियम्यातिरिक्तदेहरहितत्वं वा देहसम्बन्धाभावो वा देहभोक्तृत्वाभावो वा । नाद्य इत्याह ॥ देहेति ॥ देहादौ तत्तदात्मा तत्साक्षाद्बुद्धिस्थोऽस्येत्युक्तः । अथवा तस्माज्जीवात्मैवेत्युपसंहारस्थो जीवात्मा परामृष्टः । अस्य स्वदेहादिनियमनेन देहाद्यन्तरमतोऽनेकान्तिकतेत्यर्थः । द्वितीयं शङ्कते ॥ तदिति ॥ परस्यापि देहासम्बन्धोऽसिद्ध इत्याह ॥ तदविद्येति ॥ तद्विषयत्वादविद्यायास्तदविद्यात्वम् । तृतीये तु सोपाधिकतैव । मुक्तस्यापि पराभेदेन पक्षत्वान्न साध्याव्याप्तिः ॥ शरीरजीवयोरिति ॥ शरीरजीवयोर्भेदे शरीरस्य भिन्ननियन्तृनियम्यत्वापत्त्या अनवस्थापातादिति भावः ।