०३ सिद्धान्तनिरूपणम्

सिद्धान्तस्तु

सिद्धन्तनिरूपणम्

तात्पर्यचन्द्रिका

सिद्धान्तस्तु ॥

पृथिव्यादेर्जडत्वे स्यादप्रसक्तनिराक्रिया ।

चित्त्वे तु तेन कार्त्स्न्येनावेद्यत्वं नेश्वरं विना ॥ १ ॥

‘‘यं पृथिवी न वेदे’’त्यादौ पृथिव्यादेर्जडत्वे यमित्यस्य वैयर्थ्यम् । ‘‘यमात्मा न वेदे’’त्यस्यानुपपत्तिश्च । अप्रसक्तप्रतिषेधापातश्च । ‘‘नान्तरिक्षे न दिवी’’त्यन्तरिक्षादावप्रसक्तचयननिषेधस्तु ‘‘हिरण्यं निधाय चेतव्य’’मिति विधिस्तुत्यर्थः । प्रकृते तु न तथा ॥ तस्मात्पृथिव्यादिस्तदभिमानिचेतन एव । तेन च साकल्येनावेद्यत्वं भाष्योक्तश्रुत्यादिभिर्हरेरेव । अन्तरत्वं च

बाह्यापेक्षां विना यस्तु रमते सोंऽतरः स्मृतः ।

अतिप्रियत्वाच्च हरेरन्तरत्वमुदाहृतम् ॥

इति स्मृत्युक्तं स्वतो नित्यतृ(प्तात्)प्तत्वात् ‘‘प्रेयः पुत्रा’’दित्यादिश्रुत्या परमप्रेयोरूपत्वा(पा)च्च ब्रह्मणोऽन्यत्र न युक्तम् । किं च श्रुत्यन्तरे ‘‘दिव्यो देव एको नारायण’’ इत्युपक्रम्य ‘‘यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेदे’’त्याद्युक्त्वा ‘‘एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण’’ इत्युपसंहारान्नारायण एवान्तर्यामी ।

पृथिव्यादेः शरीरत्वं यौगिकं गौणमेव वा ।

रूढस्यानुपपन्नत्वादग्नेरिन्द्रत्ववद्भवेत् ॥ १ ॥

यथा ‘‘इन्द्रो नभस्वा’’नितीन्द्रशब्दो गार्हपत्येऽपि स्वोचितैश्वर्यस्य सद्भावाद्योगेन वा इन्द्रवद्यज्ञसाधनत्वाद्गौण्या वा वृत्त्या वर्तते । उक्तं हि

स्यादग्नेर्गौणमिन्द्रत्वं यज्ञसम्बन्धकारितम् ।

इन्दत्यर्थानुसाराद्वा स्वकार्ये सोऽपि हीश्वरः ॥ इति ।

तथा शरीरशब्दोऽपि पृथिव्यादिषु योगेन वा शरीरवत्तन्नियम्यत्वेन गौण्या वा वृत्त्या वर्तताम् । चेतनानामपि देहद्वारा शीर्णताऽस्त्येव ।

प्रकाशिका

अधिदैवाधिभूताध्यात्मप्रकरणेषु पृथिव्याद्यविदितत्वतदन्तरत्वरूपनिरवकाशलिङ्गसत्त्वेन तद्बलेन पृथिव्यादिशरीरत्वस्य कथञ्चिन्नेयत्वादन्तर्यामी विष्णुरिति भावेन ‘‘अन्तर्यामी विष्णुरेवे’’त्यादिटीकां विवृण्वन्नविदितत्वस्य निरवकाशत्वं तावदाह ॥ पृथिव्यादेरिति ॥ यदुक्तं पृथिव्यादेर्जडत्वेन तदवेद्यत्वं प्रकृत्यादौ युक्तमिति तत्र बाधकत्रयं वदन्पूर्वार्धं व्यनक्ति ॥ यमिति ॥ जडे ज्ञानमात्रस्यैवाभावेन न वेदेत्येव वाच्यम् । न तु यमिति विषयविशेषोपादानमित्यर्थः ॥ यमात्मेति ॥ पृथिव्यादौ ज्ञानमात्रनिषेधे य आत्मेत्यादावपि तथात्वापत्त्या चेतनस्य ज्ञानसामान्यनिषेधायोग इत्यर्थः । श्लोकेऽप्रसक्तेत्युक्तिरुपलक्षणमिति भावः ॥ अप्रसक्तेति ॥ जडे ज्ञानप्रसक्तेरेवाभावादिति भावः ।

ननु ‘‘पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि हिरण्यं निधाय चेतव्यमित्यत्रेष्टकावेदिकारूपाग्निचयनस्य ‘‘नान्तरिक्ष’’ इत्यप्रसक्तविषयत्त्वेऽपि यथा नित्यानुवादत्वं तद्वत्स्यादित्यत आह ॥ नेति ॥ आद्यस्य द्वितीये पादेऽर्थवादनये ‘‘अभागिप्रतिषेधा’’दिति गुणसूत्रेणान्तरिक्ष इत्यादेरप्रसक्तनिषेधेनाप्रामाण्यमाशङ्क्य ‘‘अंत्ययोर्यथोक्त’’मिति सिद्धान्तगुणसूत्रेण हिरण्यस्तुत्यर्थमितरनिन्दा क्रियते । असति प्रसङ्गे निषेधो नित्यानुवाद इत्युक्तमभियुक्तैः । इह तु न तथा । विधेयान्तराभावादिति भावः । एवेत्यनेनाभिमानिनयन्यायेन पृथिव्यादिशब्दानामभिमानिन्येव मुख्यत्वान्मुख्यसम्भवे नामुख्यं ग्राह्यमिति सूचितम् । एतेन ‘‘पृथिव्यादीनामधिदैवत्वेन जडत्वाभावा’’दिति टीका विवृता । आत्मा न वेदेति पृथगुक्तिस्त्वात्माभिमानिपरत्वाद्युक्तेति भावः । ततश्च किमित्यत उत्तरार्धं व्यनक्ति ॥ तेन चेति ॥ चेतनेनेत्यर्थः । लेशेन विदितत्वस्य सर्वत्र सम्भवेन तन्निषेधायोगात्तदन्यथानुपपत्त्यैव साकल्येनाविदितत्वं लभ्यते । तच्च ‘‘न ते विष्णो जायमान’’ इत्यादिभिर्हरेरेवेत्यर्थः । ‘‘यःपृथिवीमन्तरो यमयती’’ति श्रुतान्तरत्वमपि निरवकाशमित्याह ॥ अन्तरत्वं चेति ॥ अन्यत्र न युक्तमित्यन्वयः ॥ स्मृत्युक्तमिति ॥ बृहदारण्यभाष्योक्तस्मृत्युक्तमित्यर्थः । पूर्वार्धतात्पर्यं स्वतो नित्यतृप्तत्वादिति । उत्तरार्धतात्पर्यं प्रेय इत्यादि ॥ श्रुत्येति ॥ वाजसनेयश्रुत्येत्यर्थः । सूत्रभाष्याद्युक्तमुपलक्षणं मत्वा स्वयं समाख्यामप्याह ॥ किञ्चेति ॥ श्रुत्यन्तरे सुबालोपनिषदि । ‘‘तदाहुः किं तदासीन्नैवेह किं च नाग्र आसीत् । अमूलमनाधारा इमाः प्रजाः प्रजायन्ते । दिव्यो देव एको नारायणश्चक्षुश्च द्रष्टव्यं च नारायणश्श्रोत्रं च श्रोतव्यं च नारायण’’ इत्युपक्रम्य ‘‘अन्तश्शरीरे निहितो गुहायामज एको नित्यः । यस्य पृथिवी शरीरं यः पृथिवीमन्तरे सञ्चरन् यं पृथिवी न वेद । यस्यापश्शरीरं योऽपोंऽतरे संचरन् यमापो न विदुः’’ इत्यादिना पृथिव्यब्वाय्वाकाशमनोहंकारबुद्धिचित्ताव्यक्ताक्षरमृत्युस्थत्वादिकमुक्त्वा अन्ते ‘‘एष सर्वान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायण’’ इत्युक्तत्वादित्यर्थः । अस्य प्रसिद्धत्वाद्भाष्यादावनुक्तिः ।

यद्वाऽधिदैवादिष्विति सामान्योक्तया श्रुत्यन्तरस्थाधिदैवादिप्रकरणस्यापि सूत्रादौ सङ्ग्रहसूचनादत्र तदुक्तिः । यद्वा तद्धर्मश्च व्यपदेशश्चेति समाहारद्वन्द्वेन सम्भृतिद्युव्याप्तीतिवदयं सूत्रभाष्यटीकासु तद्धर्मव्यपदेशादिति निर्देश इति मत्वा व्यपदेशशब्दार्थतया समाख्योक्तिरिति सूत्रादेरर्थांतरमपि ध्येयम् । यदपि पृथिव्यादिशरीरत्वं परसाधकं स्वबाधकं तस्यातद्धर्माभिलापादिति द्वितीयसूत्रांशलब्धं सावकाशत्वं ‘‘योगवृत्त्या तस्मिन्पृथिव्यादिशरीरत्वव्यपदेशोपपत्ते’’रिति भाष्यटीकोक्तमन्यत्रोक्तसावकाशत्वप्रकारं च सङ्गृह्याह ॥ पृथिव्यादेरिति ॥ ननु रूढिर्बलवतीत्यत उक्तं रूढस्येति ॥ उक्तबाधकेभ्य इति भावः । दृष्टान्तांशं व्यनक्ति ॥ यथेति ॥ ‘‘कदाचनस्तरीरसिनेन्द्र’’ इति पुरोनुवाक्या । ‘‘निवेशन’’ इति याज्या । ‘‘इन्द्रो न तस्था’’ वित्युपरिष्टाल्लक्षणश्रवणात् । तत्रैंद्य्रा गार्हपत्यमुपतिष्ठत इति श्रौतविनियोगेन मन्त्रस्य गार्हपत्यशेषतया तत्प्रकाशकत्वान्मन्त्रस्थेन्द्रशब्दस्येदिधात्वर्थस्योचितैश्वर्यरूपयोगेन वा यज्ञसाधनत्वगुणमूलया गौण्या वृत्त्या वेत्यर्थः ॥ उक्तं हीति ॥ तृतीये वार्तिककृतेत्यर्थः । पूर्वार्धं व्यनक्ति ॥ तथेति ॥

शीर्यते नित्यमेवास्माद्विष्णोस्तु जगदीदृशम् ।

रमते च परो ह्यस्मिन् शरीरं तस्य तज्जगत् ॥

इतीत्युक्तयोगेनेत्यर्थः । ननु यौगिकमपि शरीरत्वं पृथिव्यादेरपि चित्त्वेनायुक्तम् । यस्यात्मा शरीरमित्याद्ययोगश्च । चेतननित्यताया ‘‘यावदात्मभावित्वाच्च न दोष’’ इत्यादौ सेत्स्यमानत्वादित्यत आह ॥ चेतनानामपीति ॥ तादृशदेहसम्बन्धश्च ‘‘ज्ञोत एव, युक्तेश्चे’’त्यत्र सेत्स्यतीति भावः । एतेन दिशामप्यवान्तराभिमानिदेहद्वारा शीर्णताऽस्त्येवेति तत्रापि नायुक्तमिति ध्येयम् ।

चन्द्रिकाबिन्दुः

यमित्यस्येति ॥ जडाविदितत्वस्य सर्वत्र सत्त्वेन यमिति विशिष्योक्तिरयुक्तेत्यर्थः । यमात्मा न वेदेत्यस्यानुपपत्तिश्चेति ॥ यद्यात्मा चेतनस्तर्हि निषेधानुपपत्तिरचेतनश्चेदप्रसक्तप्रतिषेध इति भावः ॥ प्रकृते त्विति ॥ तद्वद्विधेरभावादिति भावः ।

बृहदारण्यकभाष्यसूचिताम् अन्तर्यामिणो विष्णुत्वसाधिकां समाख्यां दर्शयति ॥ किञ्चेति ॥ शरीरशब्दोऽपीति ॥ भगवदपेक्षयेति शेषः । ननु य आत्मनीत्यात्मशब्दोदितचेतनानां कथं योगेन शरीरत्वम् । तेषां नित्यत्वादित्यत आह ॥ चेतनानामपीति ॥

पाण्डुरङ्गि

यमित्यस्य वैयर्थ्यमिति ॥ विशेषविधेश्शेषनिषेधनान्तरीयकत्ववद्विशेषनिषेधस्य शेषविधिनान्तरीयकत्वस्यापि सत्त्वाद् यमिति विशेषनिषेधेनान्यज्ञानत्वं लभ्यते । तच्च पृथिव्यादेर्जडत्वादयुक्तमिति भावः । नन्वभिमानिजीवानां दुर्ज्ञानत्वादात्मा न वेदेत्युपपन्नमित्यरुच्याऽह ॥ अप्रसक्तेरिति ॥ किं चाभिमानिपरत्वे यः पृथिव्या अन्तर इत्युक्तान्तरत्वानुपपत्तिः । ननु चान्तरत्वं यदि भिन्नत्वं यदि वाऽन्तस्स्थत्वं द्वयमपि पृथिव्यादिशरीरकेऽभिमानिनि युक्तमित्युक्तमित्यत आह ॥ अन्तरत्वं चेति ॥