०६ परमतद्वयाभिमतपूर्वपक्षसिद्धान्तयोर् निरासः

परमतद्वयेऽपीदमन्तस्तद्धर्मेत्यनेन गतार्थम्

परमतद्वयाभिमतपूर्वपक्षसिद्धान्तयोर् निरासः

तात्पर्यचन्द्रिका

परमतद्वयेऽपीदमन्तस्तद्धर्मेत्यनेन गतार्थम् । तत्रादित्यस्थत्ववदक्षिस्थत्वस्याप्युक्तेः । न च तत्रोद्गीथोपासनस्थमक्षिवाक्यं विषयः । अत्र तूपकोसलविद्यास्थमक्षिवाक्यमित्येतावतैवागतार्थत्वम् । श्रूयन्ते च तत्रेवात्राप्यन्यत्रासम्भववन्तोऽमृतत्वादयो ब्रह्मधर्माः । ब्रह्मशब्दश्चात्राधिकः । न चात्र ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’’ इति प्रसिद्धवदभिधानाद्दृश्यत्वोक्तेश्चाधिका शङ्का । तत्रापि ‘‘य एषोंऽतरक्षिणि पुरुषो दृश्यत’’ इति श्रुतेः । अत्रोक्तं भामत्याम् । तत्राक्षिस्थो जीवविशेष इति पूर्वः पक्षः । अत्र तु छायेति । भाष्ये तु सम्भवमात्रेण जीवाद्युक्तिः । तथा च जीवविशेषस्यापि ब्रह्मवत्परोक्षत्वाद्दृश्यत्वादिकमयुक्तम् । छायायां तु युक्तमित्यधिकाशङ्केति ॥ तन्न । दृश्यत्वानुपपत्त्या जीवपक्षत्यागे छायायां विषयवाक्यस्थपुरुषत्वामृतत्वादेः पूर्ववाक्योक्तस्य तज्ज्ञानेन पापालेपस्य चोत्तरवाक्योक्तस्य संयद्वामत्वादेश्च सर्वथाप्ययुक्तया छायापक्षस्य सुतरां त्याज्यत्वात् । छायायां स्तुत्यर्थममृतत्वाद्युक्तिश्चेज्जीवेऽपि तदर्थमेव दृश्यत्वाद्युक्तिरस्तु । तस्मान्न परमते पूर्वपक्षोत्थानम् । अस्माकं मते तु अन्तस्तद्धर्मेत्यत्रेन्द्रादि श्रुत्येन्द्रादेरन्तस्स्थत्वमिति प्राप्ते नेति सिद्धान्तः । अत्रत्वग्नेश्चक्षुरन्तस्स्थत्वमभ्यासार्थवादसहितबहुश्रुतिभ्य इति प्राप्ते नेति सिद्धान्त इति भेदः ।

प्रकाशिका

॥ परमतद्वयेऽपीति ॥ मायिनामिदमधिकरणशरीरम् । ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यत’’ इति श्रुतोऽक्षिस्थः किं छायापुरुष उत ब्रह्मेति संशये पूर्वम् ऋतं पिबन्तावित्यत्र पातृत्वलिङ्गेन प्रथममवगतचेतनद्वयानुरोधेन पश्चादवगतगुहाप्रवेशादयः कथञ्चिद्व्याख्याताः । तद्वदिहापि ‘‘दृश्यत’’ इति प्रत्यक्षाभिधानात्तस्य च छायायामेव सम्भवाद्दृश्यत्वेन प्रथममवगते छायापुरुषे तदनुरोधेनामृतत्वाभयत्वादयस्स्तुतिरूपेण कथञ्चिद्व्याख्येयाः । उक्तं च भामत्यां—

‘‘एष दृश्यत इत्येतत्प्रत्यक्षेऽर्थे प्रयुज्यते ।

परोक्षं ब्रह्म न तथा प्रतिबिम्बं तु युज्यते ॥ १ ॥

उपक्रमवशात्पूर्वमितरस्योपवर्णनम् ।

कृतं न्यायेन येनैव स खल्वत्रानुषज्यते’’ ॥ २ ॥ इति ॥

एवं प्राप्ते ब्रह्मैव अमृतत्वाभयत्वादेस्तस्मिन्नेवोपपत्तेः । न च दृश्यत्वेन प्रथमावगतछायैवात्रोच्यत इति वाच्यम् । दृश्यत इत्येतस्मादपि पूर्वं चेतनवाचिपुरुषपदेन परमात्मन एवावगतत्वात् । य एष इति सर्वनामशब्दौ सन्निहितपुरुषपदार्थं प्राप्य निराकाङ्क्षौ । दृश्यत इत्येतदपि सन्निहितपुरुषपदार्थं प्राप्य निराकाङ्क्षम् । पुरुषे च तद्विषयकशास्त्रजन्यज्ञानस्यातिस्फुटत्वाद्दृश्यत्वोपचारः । तदुक्तं भामत्याम्

अनिष्पन्नाभिधाने द्वे सर्वनामपदे सति ।

प्राप्य सन्निहितस्यार्थं भवेतामभिधातृणी ॥ इति ॥

यद्यपि भाष्ये ‘‘किं प्रतिबिम्ब उत जीवोऽथेन्द्रियस्याधिष्ठातृदेवतोत परमात्मे’’ति कोटिचतुष्टयं प्रदर्शितम् । तथापि भामत्यां ‘‘जीवदेवतयोरधिकाशङ्कायोगात्सम्भवमात्रेण जीवदेवते भाष्य उपन्यस्ते’’ इत्युक्त्वा कोटिद्वयमेव प्रदर्शितम् । रामानुजीयानां तु किमक्ष्याधारः पुरुषः प्रतिबिम्बजीवदेवताविशेषेष्वन्यतम उत परमात्मेति संशये य एष इति पदाभ्यां प्रसिद्धत्वेन दृश्यत इत्यभिधानाच्चोपक्रमानुगुण्येनान्यस्य स्तुत्यर्थत्वेन नेयत्वात् प्रतिबिम्बादिष्वन्यतम इति प्राप्ते निरुपाधिकात्मत्वामृतत्वाभयत्वब्रह्मत्वसंयद्वामत्वादीनां परमात्मन्येवोपपत्तेः प्रसिद्धत्वेन निर्देशस्य ‘‘यश्चक्षुषि तिष्ठन्नि’’त्यादिश्रुत्यन्तरे प्रसिद्धत्वेनोपपत्तेर् आपरोक्ष्यस्य च तदुपासनानिष्ठयोग्यापेक्षयोपपत्तेः परमात्मैवाक्षिस्थ इति सिद्धान्त इति । तत्र मतद्वयस्यैकरूप्येणान्तर्नयसुधावाक्यानि विवृण्वन्मिलित्वा दोषमाह ॥ गतार्थमिति ॥

ननु तत्र ‘‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यत’’ इत्यादित्यस्थत्वमुक्तम् । इह त्वक्षिस्थत्वमुच्यत इति वा तत्राद्याध्यायगतोद्गीथोपासनागतवाक्यं विषय इह तु चतुर्थाध्यायगतोपकोसलविद्यास्थं विषय इति वाक्यभेदेन वा तत्र ‘‘सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्मे’’त्यादिसार्वात्म्यादेरिवात्र ब्रह्मलिङ्गाभावेन वा य एष इति प्रसिद्धत्वेन दृश्यत इत्यपरोक्षत्वेनात्र निर्देशेन तद्वाक्यवैलक्षण्येन विशेषशङ्कासत्त्वेन वा पौनरुक्तयनिरासस्सेत्स्यतीत्यत आद्यं निराचष्टे ॥ तत्रेति ॥ ‘‘इत्यधिदैवत’’मित्युक्त्वाऽनन्तरं ‘‘अथाध्यात्म’’ मित्युपक्रम्य ‘‘य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवकर्तत्सामे’’त्यादिश्रवणात् । उदाहृतं चैतत्त्वयापि तत्रेति भावः । द्वितीयं निराह ॥ न चेति ॥ एतावतैवेति ॥ तथात्वे वाक्यानंत्येन प्रतिवाक्यमधिकरणारम्भे शास्त्रापर्यवसानं स्यादिति भावः । तृतीयं निराह ॥ श्रूयन्ते चेति ॥ ब्रह्मशब्दश्चेति ॥ यद्यपि तत्रापि तद्यजुस्तद्ब्रह्मेत्यस्ति ब्रह्मशब्दः । तथापि ब्रह्मणश्शब्दो ब्रह्मशब्द इत्यात्मशब्दश्चात्राधिक इत्यर्थ इत्याहुः । अन्ये तु लेखकदोषमूलोऽयम् । आत्मशब्दश्चात्राधिक इत्येव पाठ इत्याहुः । अत एवान्तर्नयसुधायां सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्मा इत्येवोक्तम् । अपरे तु ब्रह्मशब्दश्चेति यथाश्रुत एव पाठः । अयमर्थः । कं ब्रह्म खं ब्रह्मेत्युपक्रमे द्विर्ब्रह्मशब्द एतदमृतमभयमेतद्ब्रह्मेति मध्ये स एनान्ब्रह्म गमयतीत्यन्ते च ब्रह्मशब्दश्रवणाद्ब्रह्मशब्दश्चात्राधिको बहुल इत्यर्थ इत्याहुः । चतुर्थं प्रत्याह ॥ न चात्रेति ॥ एवं मतद्वयसाधारण्येन पौनरुक्तयमुपपाद्य यद्भामत्यां गतार्थत्वमाशङ्क्य समाहितं तदनूद्य निराह ॥ अत्रोक्तमिति ॥ छायेति ॥ प्रतिबिम्ब इत्यर्थः । कथं तर्हि भाष्ये जीवदेवते अप्युपन्यस्ते इत्यत उक्तं भाष्य इति ॥ तदीयभाष्ये । किमतो यद्येवमित्यतस्ततो विशेषशङ्कामाह ॥ तथा चेति ॥ पूर्ववाक्येति ॥ ‘‘अहं तु ते तद्वक्ष्यामि तद्यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति । ब्रवीतु मे भगवानिति । तस्मै स होवाच य एषोंऽतरक्षिणि पुरुषो दृश्यत’’ इति श्रवणादक्षिस्थज्ञानेन पापालेपस्य पूर्ववाक्योक्तस्यायुक्तयेत्यर्थः । ‘‘एष उ एव वामनिरेष हि सर्वाणि वामानि नयती’’त्यत्र त्वदुक्तरीत्या पुण्यफलोत्पत्तिकारणत्वादिरूपसंयद्वामत्वादेरित्यर्थः । ननूक्तममृतत्वादिकं स्तुत्यैव कथञ्चिन्नेयमिति तत्राह ॥ छायायामिति ॥ जीवेऽपीति ॥ अविद्यमानकथनस्योभयत्र तुल्यत्वात् । तथा च न ततो विशेषाशङ्केति भावः ।

ननु भवन्मतेऽपि ‘‘ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठा’’मित्यग्निश्रुत्याऽग्नेः ‘‘अन्तः प्रविष्टं कर्तार’’मित्यादावन्तस्स्थत्वमिति प्राप्ते विष्णोरेवेति तत्रैवोक्तत्वादिह पुनरग्नेरन्तस्स्थत्वशङ्कायोगात्पौनरुक्तयमित्यत आह ॥ अस्माकमिति ॥ तत्रान्तस्स्थत्वसामान्यमिह चक्षुरन्तस्स्थत्वं तत्रेन्द्रादीनामनेकेषामिह त्वग्नेरेव तत्र श्रुतिमात्रेणेह त्वभ्यासादिभिरिति महान् भेद इत्यर्थः ॥

चन्द्रिकाबिन्दुः

छायेति ॥ छायापुरुषो नाम अक्षिणी सर्वैर्दृश्यमाना प्रतिमा ।

पाण्डुरङ्गि

इत्येतावतैवेति ॥ अन्यथा विषयवाक्यभेदमात्रेणाधिकरणभेदेऽति-प्रसङ्गस्स्यादित्यर्थः ।