०५ सूत्रक्रमयोजनानिरूपणम्

सूत्रक्रमस्तु

सूत्रक्रमयोजनानिरूपणम्

तात्पर्यचन्द्रिका

सूत्रक्रमस्तु । आद्ये सूत्रे विषयवाक्यस्थश्रुतिलिङ्गोक्तिः । अत्र चान्तरुपपदाद्रमतेः ‘‘ञमन्ताड्ड’’ इति डप्रत्ययान्तेनान्तरशब्देनान्तस्स्थित्वा रमणमुच्यते । न त्वन्तःस्थितिमात्रम् । तथात्वे हि लाघवाय श्रुत्यनुगमाय चान्तस्तद्धर्मेतिवदन्तरित्येवावक्ष्यत् । न त्वन्तर इति । श्रुतौ चात्मशब्देनादेयं मातीति व्युत्पत्त्या रमणमुच्यते । तदुक्तमनुव्याख्याने

अन्तस्स्थित्वा रमणकृदन्तरस्समुदाहृतः ।

रमणं चात्मशब्देनादेयं मातीति चोच्यत ॥ इति ॥

द्वितीये तदुत्तरवाक्यस्थलिङ्गोक्तिः । तृतीये प्रकरणोक्तिः । तत्र च ‘‘कं ब्रह्मे’’ति ब्रह्मशब्दोक्तं पूर्णत्वरूपं श्रैष्ठ्यं विशिष्टत्वम् । विग्रहस्तु सुखेन विशिष्ट इति वा, विशिष्टं च तत्सुखं चेति वा, सुखेषु विशिष्टमिति वा । तत्राद्ये सुखेन श्रैष्ठ्यं सुखस्य श्रैष्ठ्यं विना नेति सुखस्यापि तत्सिद्धिः । द्वितीये ‘‘कडाराः कर्मधारय’’ इति विशिष्टशब्दस्य परनिपातः । तृतीये ‘‘सप्तमी’’ति योगविभागात्समासः । एवकारस्तु, तिष्ठतु तावत्खं ब्रह्मेति पूर्णज्ञानाभिधानम् । तन्निरपेक्षपूर्णसुखाभिधानादेवेति सूचनायेति टीकायामेवोक्तम् । चतुर्थे सूत्रे प्रकरणविच्छेदाशङ्कायामुपसंहारस्थलिङ्गेनोद्धारः । पञ्चमे परपक्षे बाधकोक्तिरिति ॥

प्रकाशिका

॥ श्रुतीति ॥ ‘‘आत्मेति होवाचे’’त्यात्मश्रुतिः । ‘‘एतद्ब्रह्मे’’ति ब्रह्मश्रुतिः । अमृतत्वाभयत्वरूपे लिङ्गे । नन्वत्र ‘‘अन्तस्तद्धर्मोपदेशा’’दितिवदन्तरुपपत्तेरित्येव वाच्यं न त्वन्तर इत्यत आह ॥ अत्र चेति ॥ यद्वाऽत्र क्रियाभावलिङ्गमुच्यते इत्युक्तमयुक्तम् । सूत्रे भावस्यैव प्रतीत्या क्रियाया अप्रतीतेरित्यत आह ॥ अत्र चेति ॥ रमु क्रीडायामित्यस्यान्तश्शब्द उपपदे सति ञमन्तत्वात् ‘‘ञमन्ताड्ड’’ इत्युणादिसूत्रेण डप्रत्यये डित्यभस्यापि टेर्लोपे उणादयो बहुलमित्युपपदांत्यलोपे दीर्घाभावे चान्तर इति भवति । ञमिति प्रत्याहारः । ननु ञमन्ताड्ड इत्यत्र वृत्तौ ‘‘डकारस्येत्संज्ञा प्राप्ता बहुलवचनान्न भवति । रम्यते रमयते वा रण्डापुनर्भू’’रित्युक्तम् । तथाप्युणादेर्यथा प्रयोगं वर्णनीयत्वेन दण्डमण्डरण्डादिप्रयोगनिर्वाहायेत्संज्ञा नेत्युक्तावप्यन्तर इत्यादिनिर्वाहायेत्संज्ञोत्सर्गप्राप्ता भवत्येवेति भावः । यद्वाऽऽद्यस्य तृतीये विद्याचञ्चुरित्यादिसिद्धये ‘‘षःप्रत्ययस्य चुट् इति योगविभागकरणं चुट् इत्यस्यानित्यत्वज्ञापनार्थ’’मिति वृत्त्यादावुक्तत्वेन रण्डादण्ड इत्यादावभावेऽपि क्वचिदित्संज्ञा भवत्येव ।

ननु श्रुत्यनुक्तं कथं सूत्र्यत इत्यत आह ॥ श्रुतौ चेति ॥ आङ्पूर्वाद्ददातेर्मन्यतेश्च क्विपि सति आदेयमुपादेयं सुखं सुखसाधनं वा मात्यनुभवतीति सुधोक्तनिर्वचनेनेत्यर्थः ॥ इति चेति ॥ न केवलं सूत्रे श्रुतौ चेत्यर्थः । नन्वेवं सूत्रेऽन्तर इत्यस्य चक्षुरन्तस्स्थ आत्मेत्यर्थतयाऽऽत्मशब्दस्य प्रतिज्ञाभागप्रविष्टत्वात्कथमात्मश्रुतित्वेन हेतूकरणम् । मैवम् । अन्तस्स्थत्वमात्रस्यैव साध्यताविवक्षायामात्मश्रुतेर्हेतुत्वस्याभिमतत्वात् । अत एव भाष्ये ‘‘चक्षुरन्तस्स्थो विष्णुरेवे’’त्येवोक्त्वा ‘‘ब्रह्मशब्दाद्युपपत्तेश्चे’’त्युक्तम् । न्यायविवरणटीकायां च चक्षुरन्तस्थो हरिरेव । अमृतत्वाभयत्वोपपत्तेः । आत्मादिशब्दा’’दित्युक्तम् । सूत्रे चामृतत्वाभयत्वरूपनिरवकाशोपपत्तेरेवोक्तिः । अत्र टीकायां ‘‘चक्षुरन्तर’’ इति सामान्योक्तिः ॥ द्वितीय इति ॥ स्थानादिसूत्रे । तत्र स्थानादीत्यस्य स्थानशक्तिरात्मशक्तिरित्यर्थः ॥ लिङ्गेति ॥ पुरुषसम्बन्धनिमित्तसर्पिराद्यसङ्गत्वादिलिङ्गेत्यर्थः । यदत्रोक्तं श्रुतप्रकाशे ‘‘अक्ष्णोर्निर्लेपत्वं नाक्षिस्थस्य विष्णुत्वे हेतुः । तत्सम्बन्धेन काचादिलेपस्याप्यभावप्रसङ्गा’’दिति । तन्न । ‘‘स ईशस्सोऽसपत्नः यत्स्थानत्वादिदं चक्षुरसङ्गसर्ववस्तुभि’’रित्यादिप्रागुक्तश्रुतिविरोधात् । ‘‘इतिहासपुराणाभ्यां वेदं समुपबृंहये’’दित्युक्तया स्मृतिवशेन श्रुत्यर्थस्य च वाच्यत्वात् । क्वाचित्ककाचादिदोषस्य तदीयदुरदृष्टसहायेनेश्वरेणैव कारितत्वादिति ॥ तृतीय इति ॥ सुखविशिष्टेत्यत्रोपक्रमे कं ब्रह्म खं ब्रह्मेति पूर्णसुखत्वरूपब्रह्मलक्षणाभिधानात्प्रकरणस्य वैष्णवत्वावगमादिति तत्रोच्यत इत्यर्थः ।

ननु श्रुतौ कं ब्रह्मेति सुखस्यैवोक्तया तत्सम्बन्धाभिधानाभावाद्विशिष्टपदमयुक्तमित्यतो न सम्बन्धवाचकं तदित्याह ॥ तत्र चेति ॥ तत्र ब्रह्मपदेन न विष्णुरित्यभिमतम् । किं तु कं सुखं पूर्णमित्येव तस्यार्थ इति भावः । तर्हि विशिष्टसुखाभिधानादिति विशिष्टपदस्य पूर्वनिपातस्स्यात् । ‘‘उपसर्जनं पूर्व’’मिति पाणिनिस्मरणात् । अस्य च विशेषणत्वेनोपसर्जनत्वादित्यत आह ॥ विग्रहस्त्विति ॥ सप्तमीति ॥ ‘‘सप्तमी शौंडै’’रिति सूत्रेण शौण्डादिभिरेव सप्तमीतत्पुरुषविधानात्तत्र च विशिष्टपदस्यापाठाद्योगविभागेन सप्तम्यन्तमिष्टविषये समस्यत इत्यभियुक्तोक्तेस्समास इत्यर्थः । विष्णोस्सुखरूपत्वात्सुखेष्विति विग्रहप्रदर्शनम् । ‘‘नन्वत्र सुखाभिधानादित्येव पूर्तौ विशिष्टपदं व्यर्थम् । न व्यर्थम् । सुखस्यान्यत्रापि सत्त्वेन व्यभिचारापत्त्या तन्निरासकत्वा’’दिति सुधायामेवोक्तेरिति भावः ॥ चतुर्थ इति ॥ श्रुतोपनिषदिति सूत्रे विद्याशब्दाभ्यासेनेति भावः ॥ लिङ्गेनेति ॥ ‘‘स एनान्ब्रह्म गमयती’’त्येतद्विद्याफलत्वेन ब्रह्मगत्यभिधानरूपलिङ्गेनेत्यर्थः ।

चन्द्रिकाबिन्दुः

अत्र चेति ॥ यद्यप्यन्तर इति स्थिते रोरीति लोपे च कृते ढ्रलोप इत्यादिना दीर्घे सति अन्तार इति भवेत् । तथाप्यनित्यत्वाच्छान्दसत्वाद् वा अनात् ॥ श्रितम् । सुखेष्विति ॥ अवधारणसप्तमीयम् ॥ कडारा इति ॥ कडारादिषु सुखशब्दो ज्ञेयः । सप्तमीति ॥ शौण्डादिगणस्थैरेव समासविधानादिति भावः ।

पाण्डुरङ्गि

॥ अन्तरुपपदादिति ॥ अत्र चान्तश्शब्दसमानार्थकोऽन्तशब्द एव विवक्षित इति वा उपपदांत्यलोपो विवक्षित इति वा समाधानं बोध्यमिति । तेन रोरीति रेफलोपे ढ्रलोप इति दीर्घत्वेंऽतार इति स्यादिति निरस्तं भवति ॥ प्रकरणोक्तिरिति ॥ प्रकरणादौ विद्यमानोपक्रमादेः श्रुतिलिङ्गादेः प्रकरणनिश्चायकत्वादिति भावः ।