पूर्वपक्षस्तु
पूर्वपक्षनिरूपणम्
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु । चक्षुरन्तस्स्थोऽग्निरेव । ‘‘य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मी’’त्यग्निनादित्यस्थस्य स्वात्मतयोपदिष्टत्वात् । चक्षुरादित्यदेवतयोश्च ‘‘आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविश’’दित्यादिश्रुत्यैक्यात् । यद्यप्यक्षिणी प्राविशदित्यत्र बाधकवशादक्षिशब्दो नादित्यदेवतापरः किन्तु जडपरः । तथाप्यन्तरक्षिणीत्यत्र चक्षुःपर्यायः स देवतापर एव । अभिमान्यधिकरणन्यायेन तस्याक्ष्यभिमानिदेवतायामेव मुख्यत्वात् । ‘‘यश्चक्षुषि तिष्ठंश्चक्षुषोन्तर’’ इति श्रुत्यन्तरेऽन्तरपुरुषाधिकरणत्वेनोक्तस्य चक्षुष इहान्तरक्षिणीति प्रत्यभिज्ञानाच्च । तत्रोक्तस्य च चक्षुषो ‘‘यं चक्षुर्न वेदे’’ति वाक्यशेषेण चेतनत्वात् । स्थानादिसूत्रादौ जडस्य स्थानत्वोक्तिस्तु परंपरया स्थानत्वात् । अत एव भाष्ये सन्न्यायरत्नावल्यां च ‘‘अक्ष्यादित्ययोरैक्या’’दित्येवोक्तम् । तत्वप्रदीपे च ‘‘अक्षीन्द्रिय प्रेरकादित्ययोरैक्या’’दित्येवोक्तम् । ‘‘अक्ष्यादित्ययोरेकविधत्वा’’दिति टीकापि भाष्याद्यनुसारेण प्रकारभेदनिषेधमुखेन प्रकार्यैक्यपरा नेया । यद्वा अक्षिणी प्राविशदित्यत्रेवान्तरक्षिणीत्यत्राप्यक्षिशब्दो जडपरः । एवं च स्थानादिसूत्रादिस्वारस्यम् । ‘‘य एष आदित्ये पुरुषो दृश्यते य एषोऽन्तरक्षिणि पुरुषो दृश्यत’’ इति वाक्यद्वयावैयर्थ्यं च । न चैवमक्ष्यादित्ययोर्भिन्नत्वादादित्यस्थत्वेऽप्यक्षिस्थत्वासिद्धिरिति वाच्यम् । आदित्यश्चक्षुरिति श्रुतावादित्यमण्डलस्थ चेतनस्य जडाक्षिप्रवेशोक्तया जडाक्ष्यादित्यमण्डलयोरेकचेतनस्थानत्वेनैकविधत्वात् । ‘‘य एष आदित्ये पुरुषो दृश्यत’’ इत्यत्राप्यादित्यपदेन मण्डलमेवोच्यते । ‘‘ऐक्या’’दिति भाष्येऽपि जडाक्ष्यादित्ययोरैक्यायोगादेकविधत्वमेवाभिप्रेतमिति टीकार्थः । यद्यप्यंशाधिकरणे ‘‘असावादित्यस्त्रिवृस्त्रिवृदिव वै चक्षुः शुक्लं कृष्णं कनीनिके’’ति श्रुत्या त्रिवृत्त्वेन अक्ष्यादित्ययोः साम्यं वक्ष्यते । तथापि न तदिह वक्ष्यते । तेनादित्यस्थस्याक्षिस्थत्वासिद्धेः ।
प्रकाशिका
उपपत्तेरित्यादिसिद्धान्तहेतुव्यावर्त्यैरग्निप्रापकश्रुत्यर्थवादाभ्यासैः पूर्वपक्षयन्य एषोंऽतरक्षिणीति वाक्येऽग्निरेवेत्यादिबह्वग्निश्रुतिसद्भावाच्चेत्यन्तटीकां तावद्व्यनक्ति ॥ पूर्वपक्षस्त्वित्यादिनाऽऽग्निपरतेत्यन्तेन ॥ नन्वग्निनाऽदित्यस्थस्य स्वात्मतयोपदेशेऽप्यक्षिस्थस्याग्नित्वं कुत इत्यतश्चक्षुरादित्यशब्दयोर्भाष्यतत्वप्रदीपाद्यनुरोधेन देवतापरत्वमुपेत्य तत्रोपपत्तिं वदंस्तावत्परिहारमाह ॥ चक्षुरिति ॥ आदित्यो मण्डलदेवता चेतनश्चक्षुरभिमानी भूत्वाऽक्षिगोलके प्राविशदित्यर्थः । नन्वक्षिणी इत्यत्राक्षिशब्दस्य गोलकपरत्वादत्राप्यक्षिशब्दस्य न देवतापरत्वमित्याशङ्क्य साधयति ॥ यद्यपीति ॥ बाधकेति ॥ आदित्यदेवतायाश्चक्षुर्देवतायां प्रवेशायोगरूपादित्यर्थः । चक्षुःपर्यायश् चक्षुरिन्द्रियपर्यायो न तदधिष्ठानगोलकपर्याय इत्यर्थः । सो ऽक्षिशब्दः ॥ अभिमानीति ॥ द्वितीयस्याद्यपादे ‘‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यां’’ इति तृतीयेऽधिकरणे ‘‘मृदब्रवी’’दित्यादिवाक्यं प्रमाणं न वेति संशये मृत्त्वादिहेतुना मृदादेर्जडत्वानुमानादभिमानिचेतनस्यानुपलम्भादिबाधितत्वाज्जडस्य च वक्तृत्वाद्ययोगादप्रमाणमिति प्राप्ते निरवकाशजडत्वयुक्तिनिर्दोषवेदवाक्यप्रामाण्योभयान्यथानुप पत्त्या ‘‘पृथिव्याद्यभिमानिन्यो देवताः प्रथितौजस’’ इत्यादिवचनेन च देवतातद्विग्रहतदन्तर्धानशक्तयादिसिद्धेर् अभिमन्यमानगतमृत्त्वादिमृच्छब्दप्रवृत्तिनिमित्तस्याभिमान्यधीनत्वस्याकाशनये ‘‘यतोऽत्यन्तपराधीनं चेतनादप्यचेतन’’मित्युक्तदिशा सिद्धत्वात् ‘‘तदधीनत्वा’’दित्यत्रोक्तन्यायेन स्वातन्त्र्यस्य शब्दवृत्तौ मुख्यनिमित्तत्वेन मृदादिशब्दानामभिमानिषु मृदादिजडेभ्यो मुख्यत्वान्मृदादिशब्दैर्देवताया एवाभिधानमिति वक्तृत्वाद्युपपत्तेः प्रमाणमेवेत्युक्तम् । तेन न्यायेन मुख्यत्वादित्यर्थः । तथा च मुख्यामुख्ययोर्मुख्ये कार्यसम्प्रत्यय इति न्यायेन मुख्यदेवताया एव ग्रहणं न त्वमुख्यजडस्येति भावः । युक्तयन्तरं चाह ॥ य इति ॥ चक्षुःशब्दस्य देवतापरत्वं कुत इत्यत आह ॥ तत्रेति ॥ श्रुत्यन्तर इत्यर्थः । जडस्य वेदनप्रसक्तेरभावेन न वेदेति निषेधायोगात्तदन्यथानुपपत्त्या चेतनत्वसिद्धिरिति भावः । व्यक्तमेतदुत्तरनये ।
ननु ‘‘स्थानादिव्यपदेशाच्चे’’ति सूत्रे ‘‘तद्यदस्मिन्सर्पिर्वोदकं वा सिंचति वर्त्मनी एव गच्छती’’ति श्रुतौ जडस्यैवाक्ष्णो असङ्गाख्यशक्तिव्यपदेशादक्षिशब्देन चेतनग्रहणे सर्पिराद्यलेपस्थानशक्तिव्यपदेशो न युक्त इत्यत आह ॥ स्थानेति ॥ असङ्गविष्ण्वाधारदेवताधारत्वाभिप्रायेण सिद्धान्ते तदुक्तिरित्यर्थः । अक्ष्णोर्जडत्वोपगमपरतया प्रतीयमानापि टीका चेतनपरत्वेन नेयेत्याह ॥ अक्षीति ॥ विधाशब्दस्य प्रकारार्थत्वादेकविधत्वादित्यनेनाक्ष्णोर्यद्देवताधिष्ठानत्वं तद्देवताधिष्ठानत्वमादित्यमण्डलस्यापि । न तु देवतान्तराधिष्ठानत्वमिति प्रकारभेदनिषेधप्रतीतावप्युभयाधारत्वरूपैकप्रकारवान्प्रकारी चेतन एक एवेति नेयेत्यर्थः । इदानीमनेकस्वारस्यानुरोधेन टीकारीत्याक्ष्णोर्जडत्वमुपेत्याक्ष्यादित्ययोरैक्यप्रकारमाह ॥ यद्वेति ॥ आदिपदेन सर्पिर्वेति श्रुतिर्गृह्यते ॥ वाक्यद्वयेति ॥ चेतनपक्षे द्वयोरेकदेवताकत्वादन्यतरवैयर्थ्यमिति भावः । एकविधत्वादिति टीकावाक्यं टीकोक्तव्यावर्त्यशङ्काव्यक्तिपूर्वं व्यनक्ति ॥ न चेति ॥ एवं जडत्वे । ननु य एष आदित्य इत्यत्रादित्यश्चक्षुर्भूत्वेत्यादाविवादित्यशब्दस्य चेतनपरत्वे मण्डलाभिमानि चेतनस्थस्यैव स्वात्मत योपदेशादक्ष्णश्चैकचेतनस्थानत्वेनैकविधत्वादक्षिचेतनस्थ एवाग्निरिति वाच्यमित्यत आह ॥ य एष इति ॥ एवं च प्राचीनरीत्याऽक्ष्यादित्यदेवतयोरेकत्वादादित्यदेवतान्तस्स्थस्य स्वात्मतयोपदेशेऽक्षिदेवतान्तस्स्थोऽपि स एव । उभयदेवताया एकत्वादित्यर्थः । टीकाकृन्मतेऽक्ष्यादित्ययोर्जडत्वेऽप्येकदेवताधिष्ठानत्वाताधिष्ठानत्वात्, अक्षिस्थस्य अग्नित्वे आदित्यस्थस्य स्वात्मतयोपदेशादिति हेतुर्न व्यधिकरण इति सिद्धम् ।
चन्द्रिकाबिन्दुः
आदित्यश्चक्षुर्भूत्वा चक्षुरभिमानिदेवो भूत्वा । ननु अन्तरक्षणीत्यत्राक्षिशब्दो जडपरः । अन्यथा अक्षिणी प्राविशदित्यत्रापि तत्परो न स्यात् । तथा च अक्ष्यादित्ययोरैक्यादिति भाष्योक्तमयुक्तमित्याशङ्कां वैषम्यप्रदर्शनपूर्वकं परिहरति ॥ यद्यपि अक्षिणी प्राविशदित्यादिना ॥ बाधकवशादित्यक्षिशब्दस्यादित्यदेवतापरत्वे चक्षुश्शब्दोदिताया आदित्यदेवतायास्तत्र प्रवेशो नोपपद्यते । अभेदादिति बाधकादित्यर्थः ॥ प्रत्यभिज्ञानादिति ॥ यश्चक्षुषीत्यादिवाक्ये योऽयमन्तरपुरुष उक्तः स एव य एषोऽन्तरक्षणि पुरुषो दृश्यत इति वाक्यस्थाक्षिशब्दवाच्ये प्रत्यभिज्ञायते । तथा च तत्रत्यचक्षुश्शब्देनाक्षिशब्दस्यैकार्थत्वं वक्तव्यमिति भावः । तत्रापि चक्षुश्शब्देनादित्यदेवताग्रहणे युक्तिं दर्शयति ॥ तत्रोक्तस्येति ॥ नन्वक्षिशब्दस्य देवतापरत्वे स्थानादिव्यपदेशादिति सूत्रास्वारस्यं सर्पिर्वोदकं वा सिञ्चतीत्यादिवाक्यसूचितस्थानशक्तयादेरसङ्गत्वादेरक्षिगोलक एवोपलम्भात् । तथा चाक्षिशब्दवाच्यादित्यस्य स्थानत्वं परम्परयोपपादनीयम् । स्थानत्वं गोलके तत्सम्बन्धित्वेन देवतायामित्यत आह ॥ स्थानादिसूत्रादाविति ॥ टीकापीति ॥ प्रकारभेदेऽपि चक्षुरादित्यदैवतयोर्विरुद्धधर्मनिराकरणपूर्वकं धर्म्यैक्यपरा नेयेत्यर्थः । श्रुतिसूत्रटीकादिस्वारस्यानुरोधेन पक्षान्तरमाह ॥ यद्वेति ॥ वैयर्थ्यं चेति ॥ य एष आदित्य इति वाक्यापेक्षयान्तरक्षणीति वाक्यस्यादित्यदेवतास्थत्वप्रतिपादकत्वविशेषाद् वैयर्थ्यं स्फुटम् । एकचेतनाधिष्ठितत्वमेकविधत्वं टीकाभिप्रेतमित्यभिप्रेत्याह ॥ आदित्यश्चक्षुरिति ॥
पाण्डुरङ्गि
अक्ष्यादित्ययोरैक्यादित्ययुक्तम् । आदित्यशब्दस्य मण्डलपरत्वे जडस्याक्षिषु प्रवेशासम्भवेन तद्गतचेतनपरत्वात् । य एषोंऽतरक्षिणीत्यत्राक्षिशब्दस्य जडपरत्वात् । न चात्राप्यक्षिशब्दस्य चेतनपरत्वेनाक्ष्यादित्ययोरैक्यं युक्तमिति वाच्यम् । आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशदित्यत्राक्षिशब्दस्य चेतनपरत्वे तत्रादित्यमण्डलस्थचेतनस्य तत्र प्रवेशासम्भवेनाक्षिशब्दस्य चेतनपरत्वासम्भवेन गोलकपरत्वस्यैव वक्तव्यत्वात् । तदनुसारेणान्तरक्षिणीत्यत्रापि गोलकपरत्वस्यैव विद्यमानत्वेन जडस्याक्ष्णश्चेतनेनादित्ये नैक्यासम्भवादित्यत आह ॥ यद्यपीति ॥ बाधकवशादिति ॥ अक्षिशब्दस्य चेतनपरत्वे तत्र चेतनप्रवेशानुपपत्तिरूपबाधकवशादित्यर्थः । चक्षुश्शब्दस्य देवतापरत्वेन तत्पर्यायाक्षिशब्दस्यापि देवतापरत्वमेवेत्याह ॥ चक्षुःपर्याय इति ॥ अभिमान्यधिकरणन्यायेनेति ॥ अभिमन्यमानवाचकानां शब्दानामभिमानिनि मुख्यत्वादिति न्यायेनेत्यर्थः । यश्चक्षुषि तिष्ठन्निति श्रुत्यन्तरे अन्तरपुरुषाधिकरणत्वेनोक्तस्य चक्षुषोऽन्तरक्षिणीत्यत्र प्रत्यभिज्ञानेऽप्यन्तरक्षिणीत्यत्रोक्तस्याक्ष्णश्चेतनत्वं कुतः । यश्चक्षुषि तिष्ठन्निति वाक्योक्तस्य चक्षुषोऽप्यचेतनत्वादित्यत आह ॥ तत्रोक्तस्येति ॥ ज्ञानप्रसक्तौ सत्यां तदभावश्चेतनत्वाभावेन सम्भवति । अचेतने ज्ञानप्रसक्तेरेवाभावात् । तथा च तदन्यथानुपपत्त्या चक्षुषश्चेतनत्वसिद्धिरित्यर्थः । नन्वक्षिशब्दस्य चेतनपरत्वे तद्यदस्मिन्सर्पिर्वोदकं वा सिञ्चतीत्यादिवाक्योक्ता सङ्गत्वरूपस्थानशक्तेरसम्भवेन जडस्यैव सम्भवेनाक्षिशब्देन जडपरत्वमेवास्थेयमित्यत आह ॥ स्थानादीति ॥ परम्परयेति ॥ मञ्जूषास्थोऽपि हि मणिर्गेहस्थ इति गीयत इति न्यायेनान्तरपुरुषाधिकरणचेतनाधिष्ठानत्वेन परम्परया स्थानत्वादित्यर्थः ॥ अत एवेति ॥ उक्तरीत्याऽऽदित्यशब्दवच्चक्षुश्शब्दस्यापि देवतापरत्वेनाक्ष्यादित्ययोरैक्यस्याभिप्रेतत्वादेवेत्यर्थः । नन्वेवमक्ष्यादित्ययोरैक्यं चेत्तर्हि टीकायामक्ष्यादित्ययोरेकविधत्वादित्येकविधत्वोक्तिरयुक्तेत्यत आह ॥ अक्ष्यादित्ययोरिति ॥ प्रकारभेदनिषेधमुखेनेति ॥ स्थानभेदात्तापकत्वतदभावादिना तदभेदानुपपत्तिरित्याशङ्क्य
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथास्थितिः ।
तदेव नाणुमात्रोऽपि भेदस्स्वांशांशिनोः क्वचित् ॥
इति न्यायेन प्रकारभेदनिषेधनेत्यर्थः । नन्वेवमक्ष्यादित्ययोरेकविधत्वादिति टीकाया भाष्याद्यनुसारेण प्रकारभेदनिषेधमुखेन प्रकार्यैक्यपरत्वेन व्याख्याने गौणत्वापत्तिः । किं च परंपरया स्थानत्वेन स्थानादिसूत्रादौ जडस्य स्थानत्वोक्तौ स्थानादिसूत्रस्याप्यस्वारस्यम् । य एष आदित्ये पुरुषो दृश्यते य एषोंऽतरक्षिणि पुरुषो दृश्यत इत्यत्र वाक्यद्वयवैयर्थ्यं च स्यादित्यस्वरसाट्टीकानुसारेण पक्षान्तरमाह ॥ यद्वेति ॥ नन्वेवमादित्यश्चक्षुरित्यत्रादित्यशब्दस्यादित्यमण्डलपरत्वे जडयोरक्ष्यादित्यमण्डलयोरैक्याभावेनाक्ष्यादित्ययोरिति भाष्यविरोध इत्यत आह ॥ ऐक्येति ॥ एकविधत्वमिति ॥ एकचेतनाधिष्ठितत्वरूपमेकविधत्वमित्यर्थः । ननु चाक्ष्यादित्ययोरेकचेतनाधिष्ठितत्वेनैकविधत्वं कुत उच्यते । त्रिवृत्त्वादिनाप्येकविधत्वसम्भवादित्यत आह ॥ यद्यपीति ॥