०९ अद्वैतमतपरीक्षा

अन्येतु

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अन्येतु ऋतं पिबन्तौ बुद्धिजीवौ गुहाप्रविष्टत्वादेस्तत्र सम्भवात्सर्वगते ब्रह्मण्यसम्भवाद्बुद्धेरपातृत्वेऽपि छत्रिन्यायेन पिबच्छब्द इति प्राप्ते ऋताख्यकर्मफलपानलिङ्गेनैकस्य जीवत्वे निश्चिते द्वितीयस्तज्जातीयश्चेतनः परमात्मैव । नन्त्ववचेतना बुद्धिः । अस्य गोर्द्वितीयेन भाव्यमित्युक्ते गवान्तरेणेवाश्वादिना सद्वितीयत्वाप्रतीतेः । एवं च प्रथमावगतऋतपानेन पिबतोर्जीवात्मपरमात्मत्वे निश्चिते चरमं गुहाप्रविष्टत्वादिकं कथञ्चिन्नेयम् । ब्रह्मणोऽपातृत्वेपि छत्रिन्यायेन पिबच्छब्द इति सिद्धान्त इत्याहुः ॥ अत्र ब्रूमः ॥

बुद्धिस्थत्वाद्भोक्तृतादेः पिबन् स्याच्चेतनः कथम् ।

चित्त्वेऽपि द्वित्वपूर्वस्याबाधार्थं सद्वितीयता ॥ १ ॥

विरूपयाऽपि बुद्ध्यास्तु किं च बुद्धेस्सरूपता ।

वर्तते सहजीवेन पारतन्त्र्यादिरूपतः ॥ २ ॥

त्वन्मते जपाकुसुमगतस्य लौहित्यस्य स्फटिक इव बुद्धिगतस्य कर्तृत्वादेर्जीवेऽध्यासात्कथं पातृत्वलिङ्गेनैकस्यापि चेतनत्वम् । येन तत्साजात्येन द्वितीयोऽपि चेतनः स्यात् । न हि लोके देह आत्मत्वमध्यस्तमित्यात्मा द्रष्टव्य इत्यादिश्रुतावात्मशब्दो देहपरः । भोक्तृत्वादेश्चिदचित्संवलनधर्मत्वे चान्योन्यधर्माध्यासोक्तिरयुक्ता स्यात् । एवं च परमते बुद्धेरेव पातृत्वेन प्रकृत्यर्थसम्भवात् । ज्ञानक्रियाशक्तिभेदेन प्रत्ययार्थस्य द्वित्वस्यापि कथञ्चित्सम्भवात्प्राणसहिता बुद्धिरेव पिबन्तावित्युच्यताम् । अथ द्वित्वे स्वारस्यमपेक्षसे तर्ह्यारोपितेन पातृत्वेन युक्तो जीवो बुद्धेर्द्वितीयस्स्यान्नतु तेनापि रहितं ब्रह्म । अथ श्रुतेरारोपितविषयत्वं न सहसे तर्हि छत्रिन्यायेन पातृत्वरहितं सजातीयं जडान्तरमेव बुद्धेर्द्वितीयमस्तु । चेतनस्य परमात्मनस्तु न कथञ्चिदनुप्रवेशः ॥

अस्तु वा जीवस्य पातृत्वम् । तथापि गोर्द्वितीयेनेत्यत्र द्वित्वस्य मुख्यस्य लाभात्सजातीयग्रहणम् । इह तु ब्रह्मग्रहणे जीवस्य ब्रह्माभेदान्न तात्त्विकं द्वित्वम् । तथाच यथाचन्द्रः सद्वितीय इति प्रामाणवाक्याद्विजातीयस्याप्यकल्पितभेदस्य न क्षत्रादेरेव धीर्नतु सजातीयस्यापि कल्पितभेदस्य चन्द्रान्तरस्य तथाऽत्रापि चेतनत्वेन जीवस्य सजातीयत्वेपि कल्पितभेदस्य ब्रह्मणो न धीः । किन्तु विजातीयत्वेपि धर्मिसमसत्ताकभेदाया बुद्धेरेव । न हि द्वित्ववत्साजात्यं शाब्दम् । येन तदनुरोधेन द्वित्वं बाध्येत । अपि चास्य जरठस्य गोर्द्वितीयेन बलवता भाव्यमित्युक्ते चरमस्यापि शाब्दस्य बलवत्त्वस्याबाधार्थं प्रथमेन जरठत्वेन तदाक्षिप्तदुर्बलत्वेन वा साजात्यस्येव प्रकृतेऽपि चरमस्यापि शाब्दस्य गुहाप्रविष्टत्वस्याबाधार्थं प्रथमपातृत्वाक्षिप्तेन चेतनत्वेन साजात्यस्यैव बाधोऽस्तु । न हि ‘‘यो वेद निहितं गुहायां’’ इत्यादिश्रुतिसिद्धमपि ब्रह्मणो गुहानिहितत्वं ‘‘सर्वगतस्य ब्रह्मणोऽर्भकौकस्त्वं न पारमार्थिक’’मिति वदतस्तव मते तात्त्विकम् । अस्तु वा जीवस्य ब्रह्मणा सद्वितीयत्वेऽपि द्वित्वादेरबाधः । तथापि कर्मफलभोक्तृत्वेन चेतनत्ववत्पारतन्त्र्यस्याप्याक्षेपात्परतन्त्रा बुद्धिर्जीवस्य द्वितीया स्यात् । चेतनस्य भोक्तृत्वनियमाभावेऽपि भोक्तुश्चेतनत्वनियमवत्परतन्त्रस्य भोक्तृत्वनियमाभावेऽपि कर्मफलभोक्तुः पारतन्त्र्यनियमात् । सम्भवति च बुद्धेर्भोगकरणत्वात्काष्ठानि पचन्तीत्यादाविव कर्तृत्वोपचारः । गोर्द्वितीयेनेत्यत्र तु गोत्वस्य शाब्दत्वात्तेनैव साजात्यं वाच्यमिति नातिप्रसङ्गः । छायातपत्वमपि चेतनाचेतनत्वादिना बुद्धिजीवादौ युक्तम् । किं च पूर्वपक्षे सिद्धान्ते च बुद्धौ ब्रह्मणि च छत्रिवल्लक्षणैव । पाता तु जीव एवेति प्रमेये विशेषाभावेन व्यर्था चिन्ता ।

मात्रयापि प्रमेयस्य भेदाभावे हि वादिनोः ।

शब्दमात्राय कलहो न युक्तो मूर्खयोरिव ॥ १ ॥

यच्चोक्तं ‘‘विशेषणाच्चे’’ति सूत्रस्योत्तरवाक्ये ‘‘आत्मानं रथिनं विद्धी’’ति जीवस्य गन्तृत्वेन ‘‘सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पद’’मिति परमात्मनश्च गम्यत्वेन विशेषणात्तावेवात्रापिबन्तावित्यर्थ इति । तन्न । जीवस्य रथित्वेन ‘‘बुद्धिं तु सारथिं विद्धी’’ति बुद्धेश्च सारथित्वेन विशेषणात्तावेवात्र पिबन्तावित्यपि प्रसङ्गात् । किं च पिबन्तावित्यस्य लक्षणया ब्रह्मपरत्वेऽपि जीवपरत्वस्यापि सत्त्वादिहचाध्याये ईक्षतेरित्यादौ सदादिशब्दानामन्यपरत्वं निरस्य ब्रह्मपरत्वस्यैवोक्तेराद्याध्यायासङ्गतिः । न चोक्तरीत्या साक्षात्सङ्गतिसम्भवे प्रासङ्गिकसङ्गतिर्युक्ता । यथाहुः ‘‘साक्षाद्युक्तं न प्रसज्यत’’ इति । तदेतदभिप्रेत्योक्तं भाष्ये ‘‘न च जीवे समन्वयोऽभिधीयत’’ इति । अत्रापि परमतेऽपि जीवब्रह्मणोर्भोक्तृत्वाभोक्तृत्वाभ्यां भेदसिद्धिः ॥

प्रकाशिका

अन्ये त्विति ॥ ऋतं पिबन्तौ बुद्धिजीवौ जीवेश्वरौ वेति संशये बुद्धिजीवावेव । गुहाविष्टत्वलिङ्गात् । नियतहृदयगुहाविष्टत्वस्य परिच्छिन्नयोर्बुद्धिजीवयोरेव युक्तत्वात् । सर्वगते ब्रह्मणि तदयोगात् । ‘‘सुकृतस्य लोक’’ इति सुकृतलोकावस्थानेन कर्मगोचरानतिक्रमस्य जीवस्य भोक्तृतया बुद्धेस्तु भोगसाधनतया तयोरेवोपपत्तेः । छायात्वरूपतमस्त्वस्य जडतया बुद्धौ प्रकाशत्वरूपातपत्वस्य जीवे सम्भवाच्च । बुद्धेरपातृत्वेऽपि पातृजीवसाहचर्याच्छत्रिवदुपपत्तेस्तावेव पिबन्ताविति प्राप्त इत्यर्थः । तदुक्तं भामत्यां–

नियताधारताबुद्धिजीवसंवेशिनी न हि ।

क्लेशात्कल्पयितुं युक्ता सर्वगे परमात्मनीति ॥

ऋतपानेन जीवात्मा निश्चितोऽस्य द्वितीयता ।

ब्रह्मणैव सरूपेण न तु बुद्ध्या विरूपया ।

प्रथमं सद्वितीयत्वे ब्रह्मणाऽवगते सति ।

गुहाश्रयत्वं चरमं व्याख्येयम् अविरोधतः ॥

इति भामतीं हृदि निधाय सिद्धान्तमनुवदति ॥ ऋताख्येति ॥ कथञ्चिदिति ॥ सालग्रामे हरिरितिवदुपलब्धार्थो देशविशेषोपदेशः । सुकृतस्य लोकवर्तित्वमपीश्वरे छत्रिन्यायेन नेयम् । छायातपत्वं च जीवस्याविद्याश्रयतया ब्रह्मणस्तदनाश्रयतयानेयमित्यर्थः । पिबतश्चित्त्वेऽवगते तदनुरोधात्सजातीयस्य ग्रहणं चरमस्य बाध इत्यादि स्यात् । तदेवासिद्धमित्याह ॥ बुद्धिस्थत्वादिति ॥ टीकारीत्याऽभ्युपेत्याप्याह ॥ चित्त्वेऽपीति ॥ स्वमतेऽभावाद्धेतोरसिद्धिमाशंक्य पूर्वार्धं व्याचष्टे ॥ त्वन्मत इति ॥ ‘‘एतत्सर्वं मन एवे’’त्यादिश्रुतेरिति भावः । नन्वारोपितपातृत्वेनापि जीव एव पिबच्छब्देन बोध्यत इत्यत आह ॥ न हीति ॥ तन्मतेऽपि केवलबुद्धिस्थत्वमसिद्धमित्यत आह ॥ भोक्तृत्वादेरिति ॥ अन्योन्यधर्मेति ॥ ‘‘अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्ये’’ति भाष्योक्तिरयुक्ता स्यादित्यर्थः । शक्तिभेदेऽपि न व्यक्तिभेद इति गुहाविष्टत्वमिव द्वित्वं न स्वरसमित्याशङ्क्याह ॥ अथेति ॥ तेनापि आरोपितपातृत्वेनापि ॥ न कथञ्चिदिति ॥ पातृत्वेन सजातीयत्वेन वेत्यर्थः । ‘‘चित्त्वेऽपी’’ति पादत्रयं व्याचष्टे ॥ अस्तु वेति ॥ कल्पितभेदस्य सत्त्वाद्द्वित्वं स्यादित्यत उक्तं न तात्विकं द्वित्वमिति । अत्राप्यतात्विकमेव द्वित्वं बोध्यतामित्यत आह ॥ तथा चेति ॥ एतेन ‘‘द्विवचनमिति चेत्तर्हि जीवेश्वराङ्गीकारोऽपि न स्यात् । तयोरैक्याङ्गीकारात् । काल्पनिकोऽस्ति तयोर्भेद इति चेत्तर्हीश्वरस्यैवाद्भुताचिन्त्यैश्वर्यवशाद्द्विरूपत्वेन द्वित्वमुपपाद्यता’’मिति सुधावाक्ये ईश्वरस्यैवास्त्वित्यापादने बीजमुक्तं भवति । ननु बुद्धावपि कल्पितभेदवत्त्वमविशिष्टमित्यत आह ॥ धर्मिसमेति ॥

ननु प्रथमावगतं साजात्यं मुख्यमुपेत्य चरमावगतं द्वित्वमेव गुहाविष्टत्वमिवातात्विकं गृह्यतामित्यतोऽस्य शाब्दत्वात्साजात्यस्य तदभावादित्याह ॥ न हीति ॥ किं त्वाक्षिप्तमित्यर्थः । यदपि प्रथमेन चरमस्य गुहाप्रविष्टत्वस्य बाध इति तदप्ययुक्तमित्याशयेन द्वित्वपूर्वस्येत्यत्र पूर्वपदार्थं विवृण्वन्नाह ॥ अपि चेति ॥ जरठस्य वृद्धस्य । प्रथमेन श्रुतेनेति शेषः । जरठस्य द्वितीयो बलवानजरठ एवोपादीयते । तद्वदिह गुहाप्रविष्टत्वस्य त्वन्मते परिच्छिन्नयोर्बुद्धिजीवयोरेव मुख्यत्वेन सर्वगते ब्रह्मण्यमुख्यत्वेन ब्रह्मग्रहणे तद्बाधः स्यात् । स च न युक्तः । आक्षिप्तेन शाब्दबाधस्यान्याय्यत्वात् । अतस्तदबाधाय द्वितीया विरूपापि बुद्धिरेव ग्राह्येत्यर्थः । ब्रह्मपक्षे गुहाविष्टत्वममुख्यं तात्विकं नेत्येतदुपपादयति ॥ न हीति ॥ ब्रह्मणोऽर्भकौकस्त्वं न पारमार्थिकमित्यर्भकौकस्त्वसूत्रगततदीयभाष्यानुवादः । ‘‘किं च बुद्धे’’रित्यादिपादत्रयं व्याचष्टे ॥ अस्तु वेति ॥ ननु चेतनस्यैव भोक्तृत्वे तेन व्यापकस्य चेतनत्वस्याक्षेपेपि कथं पारतन्त्र्यस्याक्षेप इत्यतोऽस्यापि तद्व्यापकत्वात्समव्याप्तेस्तूभयत्राप्यभावादिति भावेनाह ॥ चेतनस्येति ॥ कूटस्थचेतने तदभावादिति भावः ॥ कर्मेति ॥ कर्मवशत्वादिति भावः ।

ननु बुद्धेः पारतन्त्र्येण साजात्येऽपि करणभूतायाः कथं भोक्तृत्वेन पिबन्ताविति कर्तृकोटिनिवेश इत्यत आह ॥ सम्भवतीति ॥ तर्हि गवादावप्येवं सुवचत्वेन सजातीयस्य तत्र धीर्न स्यादित्यत आह ॥ गोरिति ॥ ननु छायातपत्वविशेषणाज्जीवेश्वरावित्युच्यत इत्यत आह ॥ छायेति ॥ बुद्धिजीवादौ चेतनत्वाचेतनत्वादिनेति यथायोगमन्वयः । आदिपदेन बुद्धिप्राणयोर्ग्रहणम् । छायातपत्वं च तमस्त्वप्रकाशत्वादिना कथञ्चिदुपेयमिति । एवम् अथ द्वित्वे स्वारस्यमित्यादिना ग्रन्थेन ‘‘किं च पिबतोर्बुद्धिजीवत्वे किं छिन्नं किं वा जीवेश्वरत्वे लब्ध’’मिति टीकावाक्यस्य प्रातिपदिकार्थपातृत्वस्य प्रत्ययार्थद्वित्वस्य च बुद्धिजीवपक्षे न छेदः। जीवेश्वरत्वे त्वीश्वर आरोपितपातृत्वस्याप्यभावेन प्रातिपदिकार्थस्य जीवेश्वरयोरैक्यांगीकारेण प्रत्ययार्थद्वित्वस्य च लाभो नास्तीति । तथा बुद्धिजीवत्वे श्रौतं गुहाप्रविष्टत्वं न छिन्नम् । जीवेश्वरत्वे तु सर्वगतेश्वरेऽर्भकौकस्त्वरूपं गुहाप्रविष्टत्वं नेति तन्न लब्धम् । साजात्यलाभस्त्वप्रयोजकः । साजात्यस्याश्रौतत्वादिति । तथा बुद्धिजीवत्वे पारतन्त्र्यादिना साजात्यमपि न छिन्नम् । चेतनाचेतनत्वादिना छायातपत्वं च न छिन्नम् । जीवेश्वरत्वे तु तयोरैक्येन न मुख्यं साजात्यादिलब्धमिति च त्रेधा तात्पर्यं निरूप्य अधुना परेणापि जीवे तदभ्युपगमात् । ईश्वरे समन्वयसिद्धिरिति चेन्न । ईश्वरे लिङ्गस्यौपचारिकत्वाभ्युपगमादिति तदुत्तरटीकावाक्यानुरोधेन तस्य तात्पर्यांतरं व्यनक्ति ॥ किं चेत्यादिना ॥

ननु तेन बुद्धिजीवावित्युक्तम् । मया तु जीवेश्वरावित्यतोऽयमेव विशेष इत्यत आह ॥ मात्रयेति ॥ ब्रह्मेति शब्दमात्रमेतदित्यर्थः । एतेन त्वन्मते मन्मत इव गुहाविष्टत्वस्याहेतुत्वाद्ब्रह्मग्रहणे पिबत्प्रातिपदिकाक्षिप्तसाजात्यस्यैव हेतुत्वात्सूत्रे लाघवाय सुबोधाय साजात्यसूचनाय च प्रथमानुल्लङ्घद्योतनाय च पिबन्तावित्येव निर्देशस्स्यात् । न च सर्वगतस्य ब्रह्मणो गुहावच्छिन्नत्वायोगाद्गुहागतौ बुद्धिजीवौ न ब्रह्मेति पूर्वपक्षयुक्तिसूचनाय तदुपादानम् । ‘‘नियताधारताबुद्धिजीवसंवेशिनी’’ति भामत्युक्तेरिति वाच्यम् । ‘‘जीवमुख्यप्राणलिङ्गादिति चे’’दित्यादाविव पूर्वपक्षपरत्वद्योतकनिर्देशाभावात् । ‘‘सम्भोगप्राप्तिरिति चे’’दित्यतश्चेदित्यनुकर्षस्य क्लिष्टत्वात् । ‘‘अर्भकौकस्त्वा’’दिति पूर्वनयसूत्रेण गुहावच्छेदनिबन्धनशङ्कायाः परिहृतत्वाच्चेत्याद्यसूत्राक्षरासामंजस्यं स्पष्टमिति भावेन विशेषणबलाज्जीवेश्वरावत्र प्रतिपाद्यौ वाच्याविति शङ्कानिरासाय द्वितीयसूत्रार्थमप्यनूद्य निराह ॥ यच्चेति ॥ ‘‘इति व्याख्यानमयुक्तम् । समन्वयासङ्गतत्वा’’दित्यादिटीकां व्यनक्ति ॥ किं च पिबन्तावित्यस्येति ॥ ननु जीवपरत्वेऽपि ब्रह्मपरत्वमात्रेण सङ्गतिस्स्यादित्यत आह ॥ इह चाध्याय इति ॥

ननु जीवेश्वरभेदस्यासत्यत्वाज्जीवपरत्वद्वारा ब्रह्मण्येव समन्वयः प्रसज्यत इत्यत आह ॥ न चेति ॥ अस्मद्रीत्या साक्षादित्यर्थः । यद्वा देवताधिकरणमिव प्रसङ्गादिदमत्र निवेशितमित्यत आह ॥ न चेति ॥ प्रसज्यते प्रसङ्गात्प्राप्यत इत्यर्थः ।

चन्द्रिकाबिन्दुः

ननु पिबन्तौ जीवब्रह्मणी इति कथं नेयमित्यतो ऽध्यस्तत्वाद्यभिप्रायेण नेयमित्याह ॥ एवं चेति ॥ चेतनः कथमिति ॥ जीवो वा ईश्वरो वा चेतनः कथं पिबन् स्यात् किन्तु जडेतरमेव साजात्येन पिबन् स्यादित्यर्थः । पारतन्त्र्यादीत्यादिपदेन चेतनत्वभोक्तृत्वयोः परिग्रहः । एतच्च सम्भवतीति चेदिति वाक्यव्याख्यानावसरे स्पष्टयिष्यते । ननु जीवे आरोपितं कतृत्वमस्ति । तदभिप्रायेणैव जीवस्यापि तत्प्रातिपादिकार्थत्वमुच्यते इत्यत आह ॥ न हीति ॥

ननु भोक्तृत्वादिकं जीवेऽध्यस्यम् । तस्य जीवबुध्द्युभयधर्मत्वाङ्गीकारादित्यत आह ॥ भोक्तृत्वादेरिति ॥ बुद्धेरेव पिबत्प्रातिपदिकार्थत्वे द्विवचनानुपपत्तिमाशङ्क्य प्राणशब्दवाच्यक्रियाशक्तिक्रियां बुद्धौ द्विवचनं घटयति ॥ एवं चेति ॥ स्वारस्यं विभिन्नवाक्याभिप्रायेणैव स्वारस्यम् । तेनापि आरोपितभोक्तृत्वाभिप्रायेणापि । छत्रिन्यायमुपपादयितुं पातृत्वरहितमिति ॥ चित्वेऽपि द्वित्वपूर्वस्येति द्वितीयार्धं व्याचष्टे अस्तु वेत्यादिना । किन्त्विति ॥ यद्यपि जीवेश्वरभेदवद् बुद्धिजीवभेदोऽपि कल्पित एव तथापि बुद्धिजीवभेदः धर्मिसमसत्ताकः । न ब्रह्मगतभेदः । ब्रह्मसमसत्ताको ऽतस्तद्विहाय एतदुपपादनमेव स्वरसमिति भावः । जीवेश्वरग्रहणे साजात्यलभ्यत्वे साजात्यानुरोधेन द्वित्वमेव यथाकथञ्चिन्नेयमित्यत आह ॥ न हीति ॥ पातृत्वाक्षिप्तचेतनत्वेन पातृत्वस्य श्रौतगुहाप्रविष्टत्वलिङ्गेन बाध उचितः । तथा च श्रौतगुहाप्रविष्टत्वानुसारेण बुद्धिजीवाविति पूर्वपक्ष एवोचितो जात इत्यत आह ॥ अपि चेति ॥

ननु श्रुतिसिद्धत्वाद्ब्रह्मण्येव गुहानिहितत्वमङ्गीक्रियत इत्यत आह ॥ न हीति ॥ किं च बुद्धेः सरूपतेति कारिकांशं व्याचष्टे ॥ अस्तु वेति ॥ पारतन्त्र्यस्येति ॥ भोक्तुश्चेतनत्वं प्रतीव पारतन्त्र्यं प्रत्यपि व्याप्यत्वादिति भावः । व्यापकव्यभिचारोऽप्रयोजक इत्यत आह ॥ चेतनस्येति ॥ चेतनत्वेन बुद्धेरपि जीवसाम्यमस्ति । न च बुद्धेः करणत्वात् कथं कर्तृव्युत्पन्नचेतनशब्दार्थत्वम् । तर्हि ब्रह्मण्यपि कथं चेतनत्वं कर्तृत्वोपचारो ब्रह्मणीति चेत् तर्हि बुद्धावपि तथात्वमस्तु कर्तृत्वोपचारसम्भवात् । तथा च बुद्धेरपि चेतनत्वेन साजात्यमस्तीत्याह ॥ सम्भवति चेति ॥ यथा बुद्धावपि भोक्तृत्वेन साजात्यमस्ति । न च बुद्धेर् भोगकरणत्वेन कथं भोगकर्तृत्वमिति वाच्यम् ॥ ब्रह्मणीवात्रापि औपचारिकोपदेशसम्भवादित्याह ॥ सम्भवति चेति ॥ तथा च जीवसाजात्यं बुद्धेर्भोक्तृत्वेनास्तीति भावः । एवं सुधासूचितप्रकारेण दूषणमभिधायेदानीं टीकोक्तानि दर्शयति ॥ किञ्चेत्यादिना ॥

ननु सिद्धान्ते जीवेश्वरौ पिबन्तौ । पूर्वपक्षे बुद्धिजीवौ पिबन्तौ । एवं च पिबच्छब्दविचारो युक्त इत्यत आह ॥ मात्रयेति ॥ अस्य विचारस्याध्यायसङ्गतिं दर्शयति ॥ किञ्चेति ॥

पाण्डुरङ्गि

ननु भोक्तृत्वादिकमहंकारधर्मः । अहंकारश्च चिदचित्संवलनात्मक इति तत्र चिद्भागस्यापि प्रविष्टत्वेन भोक्तृत्वादेश्चिद्रूपजीवधर्मता सम्भवत्येवेत्यत आह ॥ भोक्तृत्वादेरिति ॥ तथा सति वस्तुगत्या भोक्तृतादेस्तद्धर्मतापत्त्याऽन्योन्यधर्माध्यासोक्तेरयोगेन तत्प्रतिपादकयुष्मदस्मत्प्रत्ययगोचरयोरित्यादिभाष्यानारम्भस्स्यादिति । चित्त्वेऽपि द्वित्वपूर्वस्याबाधार्थं सद्वितीयता । विरूपयापि बुद्ध्याऽस्तु इत्येतत्संग्रहांशं व्याचष्टे ॥ अस्तु वेति ॥ ननु यथा ब्रह्मग्रहणे जीवस्य ब्रह्माभेदान्न तात्विकं द्वित्वं तथा बुद्धिग्रहणेऽपि बुद्धेरपि जीवाभिन्नत्वान्न तात्विकं द्वित्वमिति कथं बुद्धिरपि द्वितीयतया गृह्येतेत्यत आह ॥ धर्मीति ॥ जीवबुद्ध्योरभेदेन भेदस्य कल्पितत्वेऽपि बुद्धिजीवरूपधर्मिव्यावहारिकसत्तासमानसत्ताकस्य भेदस्य सत्त्ववज् जीवब्रह्मभेदस्य जीवब्रह्म रूपधर्मिसमसत्ताकस्याभावेन द्वितीयतया ब्रह्मग्रहणासम्भवेऽपि बुद्धेर्द्वितीयतया ग्रहणं भवतीति भावः ।

ननु कल्पितभेदस्य ब्रह्मणोद्वितीयतया ग्रहणे द्वित्वबाधापत्त्या द्वित्वानुरोधेन साजात्यबाधकल्पने विजातीयग्रहणेन साजात्यबाधापत्त्या साजात्यानुसारेण द्वित्वस्यैव बाधः किं न स्यादित्यतः स्यादेतदेवं यदि द्वित्ववत्साजात्यमपि शाब्दं स्यान्न ह्येतदस्तीत्याह ॥ न हीति ॥ नन्वस्मत्पक्षेऽपि चरमश्रुतस्य गुहां प्रविष्टत्वस्य यो वेद निहितं गुहायां गुहाहितं गह्वरेष्ठं पुराणं गुहां प्रविश्यतिष्ठन्तीमित्यादिश्रुतिभिर्ब्रह्मलिङ्गत्त्वनिश्चयात्पूर्वपक्षिणा च तस्य ब्रह्मलिङ्गत्वाज्ञानेन ब्रह्मपक्षे बाधकत्वेन शङ्कितत्वमित्यत आह ॥ न हि यो वेदेत्यादि ॥ तात्विकत्वाभावे हेतुः सर्वगतस्येति । तथा च तद्बाधस्तदवस्थ एवेत्यर्थः । किं च बुद्धेस्सरूपता । वर्तते सहजीवेन पारतन्त्र्यादिरूपत इति सङ्ग्रहांशं व्याचष्टे ॥ अस्तु वेति ॥ ननु कर्मफलभोक्तृत्वेन पारतन्त्र्याक्षेपोऽनुपपन्नः । परतन्त्रस्य भोक्तृत्वनियमाभावादिति चेत्तर्हि कर्मफलभोक्तृत्वेन चेतनत्वाक्षेपोडपि न स्यात् । चेतनस्यापि भोक्तृत्वनियमाभावात् । न च चेतनस्य भोक्तृत्वनियमाभावेऽपि भोक्तुश्चेतनत्वनियमाद्भोक्तृत्वेन चेतनत्वाक्षेप इति वाच्यम् । तर्हि परतन्त्रस्य भोक्तृत्वनियमाभावेऽपि भोक्तुः पारतन्त्र्यनियमेन पारतन्त्र्याक्षेपोऽपि सम्भवतीत्याशयवानाह ॥ चेतनस्येति ॥ न चाचेतनाया बुद्धेर्न भोक्तृत्वम् । भोगकर्तृत्वम् । भोगकर्तृत्वमेव हि भोक्तृत्वमिति वाच्यम् । ईशपक्षेऽपि साम्यात् । किं च बुद्धेरेव भोक्तृत्वव्यपदेश उपचारेणोपपद्यत । करणे कर्तृत्वोपचारात् । न चोपचारे प्रयोजनाभावः । रूढोपचारत्वादित्याह ॥ सम्भवति चेति ॥ रूढोपचारत्वप्रदर्शनार्थमेव काष्ठानि पचन्तीत्यादिदृष्टान्तप्रदर्शनमिति ॥ नन्वेवमस्य गोर्द्वितीयेन भाव्यमित्यत्रापि विजातीयाश्वादिनापि सद्वितीयत्वापत्त्या सजातीयगवान्तरेण सद्वितीयत्वं न स्यादित्यत आह ॥ गोर्द्वितीयेनेत्यत्र त्विति ॥ साक्षादिति ॥ साक्षात्सङ्गतिसम्भवे प्रसङ्गसङ्गतिर्नाद्रियत इति संमतिग्रन्थार्थः ।