यद्वैकस्यानेकत्वमपि तत्र सिद्धान्ते व्युत्पाद्यम्
सूत्रक्रमयोजनानिरूपणम्
तात्पर्यचन्द्रिका
यद्वैकस्यानेकत्वमपि तत्र सिद्धान्ते व्युत्पाद्यम् । अत एव तत्र ‘‘बहुरूपत्वादधिकरणत्वाधेयत्वादि तस्यैव युज्यत’’ इति न्यायविवरणेऽनेकत्वसङ्ख्योक्त्यर्थ आदिशब्दः । अत्र तु कर्मबन्धरहितस्यापि भोक्तृत्वमात्रमिति भेदः । तत्राद्यपक्षे न सङ्ख्येति सूत्रे सङ्ख्योपसंग्रहशब्दोक्तैकस्यानेकत्वानुपपत्तिः पूर्वपक्षेऽभ्युच्चययुक्तिः । अपि शब्दोक्ताधाराधेयभावानुपपत्तिस्तु मूलयुक्तिः । द्वितीयपक्षे तु गुहां प्रविष्टाविति सूत्रे आत्मानौ हीति द्विवचनेनात्मान्तरात्माख्यरूपद्वयोक्तिः सिद्धान्तेऽभ्युच्चययुक्तिः । आदेयं मातीति व्युत्पत्त्याऽऽत्मशब्दोक्तं शुभभोक्तृत्वं मूलयुक्तिः । यद्वा अत्र भोक्तृत्ववदनेकत्वे व्युत्पादितेऽपि न तत्र केवलमाधाराधेयभावानुपपत्तिशङ्का । किन्तु द्वित्वयुक्तस्यास्तु ब्रह्मत्वं गुहाप्रविष्टत्वादिलिङ्गात् । पञ्चत्वयुक्ते तु न ब्रह्मलिङ्गाद्यस्तीत्येकस्यानेकत्वानुपपत्तिरूपसामान्यन्यायस्यानपवाद इति शङ्का ‘‘प्राणस्य प्राण’’मित्यादिब्रह्मलिङ्गानि सन्तीत्यादि समाधानं चेत्याद्यूह्यम् । ‘‘नाणुरतच्छते’’रित्यत्र तु ‘‘व्याप्ता ह्यात्मानश्चेतना’’ इति वाक्ये ब्रह्मलिङ्गाभावादनपोदितेन बहुत्वेन जीवस्य प्राप्तत्वाद्व्याप्त्यणुत्वश्रुत्योर्विरोधे शङ्किते ‘‘स आत्मेदं सृजती’’त्यादिपूर्ववाक्ये ब्रह्मलिङ्गसद्भावात् ‘‘तदयं प्राणोऽधितिष्ठती’’त्यत्रैकवचनेन निर्दिष्टे ‘‘आतेन यात’’मिति द्विवचनवदत्रापि ‘‘स आत्मे’’त्येकवचननिर्दिष्टे ‘‘व्याप्ता आत्मान’’ इति बहुवचनम् । ततो न विरोध इति वक्ष्यत इति न तेनापि गतार्थता । सुखदुःखहेतुत्वरूपं गौणं छायातपत्वं प्रतियोगिभेदेनाविरुद्धम् । अत्र च सूत्रे यद्यपि समन्वेतव्यमृतपातृत्वमृतं पिबन्ताविति साक्षादेव वक्तव्यम् । तथापि गुहाप्रविष्टत्वरूपहेतुमपि वक्तुमृतपातृत्वसमानाधिकरणगुहाप्रविष्टत्वोक्तिद्वारा तदुक्तिः । यद्यपि चात्र तत्तु समन्वयादित्यतोऽनुषक्तस्य तच्छब्दस्य पूर्वत्रानन्दमयस्तद्ब्रह्मेत्यादिरूपेणान्वय-वदुत्तरत्राप्यन्तरस्तद्ब्रह्मेत्यादिरूपेणान्वयवच्चात्राप्यन्वयः सिद्धः । तथापि सूत्रे श्रौतद्विवचनस्य गतिं वक्तुमात्मान्तरात्माख्यरूपद्वयवाचिद्विवचनान्तात्मशब्द प्रयोगः । अत्र च विषयवाक्यक्रमात्सूत्रक्रमः ।
प्रकाशिका
ननु तत्र टीकायां न्यायविवरणे च ‘‘आधाराधेयत्वादी’’त्यादि पदास्वारस्यम् । टीकायां बहुत्वानुपपत्त्या पूर्वपक्षकरणं चास्वरसमित्यतस्सर्वस्वारस्यायाह ॥ यद्वेति । कथं तर्ह्यपौनरुक्त्यमित्यत आह ॥ अत्र त्विति ॥ पक्षद्वयेऽप्युभयत्रानेकत्वोक्तेरपौनरुक्त्यं स्पष्टयति ॥ तत्राद्येति ॥ सङ्ख्योपसंग्रहादपि न विरोध इत्युक्त्या पूर्वपक्षे सङ्ख्यानुपपत्तिरर्थादुक्तेत्यर्थः ॥ अभ्युच्चयेति ॥ यथा परमते ईक्षतिनये प्रायपाठे निरस्तेऽपीत्यभ्युच्चयत्वेनात एव प्राण इत्यत्र तदुक्तिः । यथा वा सर्वत्रेतिनये स्वमते हेत्वन्तरेण पूर्वपक्षे चक्षुर्मयत्वादेरभ्युच्चयत्वेनोक्तिः । तथैव सुधायामुक्तेः । तथेहापीत्यर्थः । ‘‘प्राणादयो वाक्यशेषा’’दिति तत्रत्यगुणसूत्रव्यावर्त्यपूर्वपक्षानुरोधेन पक्षान्तरमाह ॥ यद्वाऽत्र भोक्तृत्ववदिति ॥ किं त्वित्यस्यानपवाद इत्यन्वयः । अत एव टीकायाम् ऋतं पिबन्तावित्यादाविव स्वगतभेद शून्यस्यापि परमात्मनो बहुरूपत्वेन बहुत्वोक्तिः किं न स्यादिति चेन्न । प्रतिशरीरमात्मान्तरात्मेतिवद्बहुत्वे मानाभावा’’दित्युक्तमिति भावः । प्राणादीनां प्राणत्वादिप्रदत्वलिङ्गानीत्यर्थः ॥ इत्यादीति ॥ आदिपदेनाधाराधेयभावोऽपि रूपभेदाद्युज्यत इति समाधानं गृह्यते ॥ इत्याद्यूह्यमिति ॥ अत्रैकस्यानेकत्व आत्मान्तरात्मेतिवत्तत्र प्रतिशरीरं बहुत्वे मानं नेति शङ्कायां शरीरान्तर्गताकाशप्राणादिपञ्चजननियामकत्वेन तेषु नानाभावस्य न्यायप्राप्तत्वाद्बहुत्वं सिद्धमिति समाधानमूह्यमित्यर्थः ।
ननु द्वितीयस्य तृतीयपादे ‘‘उत्क्रान्तिगत्यागतीना’’मिति नये जीवः किं व्याप्तोऽथाणुरिति संशये ‘‘व्याप्ता ह्यात्मानश्चेतना निर्गुणाश्चे’’ति श्रुतेर्बहुवचनावरुद्धाया ईश्वरविषयत्वायोगेन जीवविषयत्वावश्यंभावेन श्रुतिबलाद्व्याप्त इत्याशङ्कातन्निरासयोर्नाणुरतच्छतेरिति चेन्नेतराधिकारादिति गुणसूत्रेण कृतत्वात्तेन पौनरुक्त्यमित्यत आह ॥ नाणुरिति ॥ अनपोदितेनेति ॥ अत एव तत्र टीका ‘‘न चेश्वररूपबाहुल्यार्था । बाधकं विना श्रुतेर्बाधायोगा’’दितीति भावः । ‘‘अणुर्ह्येष आत्मा यं वा एते सिनीतः पुण्यं चापुण्यं चे’’त्यणुत्वश्रुतिर्ज्ञेया । ऐतरेयके ‘‘अथ देवरथ’’ इत्युपक्रम्य ‘‘तदयं प्राणोऽधितिष्ठती’’त्युक्त्वा ‘‘तदुक्तमृषिणा आतेन यातं मनसो जवीयसे’’ति द्विवचनान्तमन्त्र उदाहृतः । एवं द्विवचनं न बाधकमित्युक्त्वा तत्प्रसङ्गप्राप्तपौनरुक्त्यं च व्युदस्तम् । अधुना प्रागुक्तं छायात्वमपि न बाधकम् । तस्या विद्याश्रयत्वरूपत्वाभावात् । किन्तु यथा छाया प्राणिनां सुखहेतुस्तथा विदुषां सुखहेतुत्वादातपवदज्ञानां दुःखहेतुत्वाच्छायातपावित्युच्येते रूपविशेषावित्याशयेन टीकोक्तमेवाह ॥ सुखेति ॥ ‘‘स छायेव विदुषां प्रभुः । आतपः पापिना’’मिति तद्भाष्योक्तस्मृतेः । परपक्षेऽपि छायातपशब्दयोरविद्याविद्यावद्वाचकत्वाभावादिति भावः । तदुक्तं तत्वप्रदीपे ‘‘अमरासुराणां छायातपरूपाविति योजनायोगादमराणामाह्लादकावसुराणां तापकावित्यर्थ’’ इति । एतेन ‘‘छायातपत्वं चान्यत्र व्याख्यात’’मिति न्यायविवरणटीका विवृता अतो बाधकाभावाद्गुहाविष्टत्वादिसाधकभावात्पिबन्तावीश्वररूपविशेषावेवेति स्थितम् । सूत्राक्षरासामंजस्यमाशंक्याह ॥ अत्रेति ॥ ऋतं पिबन्तावित्येवोक्तौ न लिङ्गोक्तिस्स्यादिति भावः । यद्यपि ऋतं पिबन्तावित्युक्तौ ऋतपातृत्वद्वित्वरूपपूर्वपक्षयुक्त्योस्सूचनमस्ति तथापि पूर्वपक्षयुक्तितोऽपि सिद्धान्तयुक्तिसूचनस्य ज्यायस्त्वादिति भावः । धर्मिनिर्देशे प्रयोजनमुक्त्वा साध्यनिर्देशस्यापि तदाह ॥ यद्यपीति ॥ विच्छेदशङ्कानिवृत्त्यर्थमुक्तं पूर्वत्रोत्तरत्रापीति ॥ द्विवचनस्य गतिं वक्तुमित्युपलक्षणम् । ‘‘आदेयमुपादेयं सुखं मात्यनुभवती’’त्युत्तरनयसुधोक्तनिर्वचनेन ऋतं पिबन्ताविति प्रातिपदिकार्थोक्तिद्वाराऽनशनश्रुतेर्गतिं वक्तुं चेत्यपि ध्येयम् ॥ अत्रेति ॥ पूर्वम् ऋतं पिबन्ताविति वाक्यम् । उत्तरं तु यस्सेतुरिति वाक्यमिति तत्क्रमात्क्रमः । यद्यपि श्रुतिरूपसाधकोक्तिपरत्वाद्द्वितीयस्य प्राथम्यमुचितं तथापि तस्योत्तरवाक्यगतत्वेन विषयवाक्यगतत्वाभावात्क्रम इति भावः ।
चन्द्रिकाबिन्दुः
न्यायविवरणस्थादिशब्दानुसारेण पक्षान्तरमाह । यद्वेति ॥ अभ्यधिकाशङ्कया तत्प्रवृत्तिरिति पक्षान्तरमाह ॥ यद्वेति ॥ प्रतियोगिभेदेन सज्जनदुर्जनलक्षणप्रतियोगिभेदेन ॥ विषयवाक्यक्रमादिति ॥ ऋतं पिबन्ताविति प्रथमवाक्यं, यस्सेतुरिति द्वितीयवाक्यम् ।
पाण्डुरङ्गि
नन्वेतदयुक्तम् । तथा सति न सङ्ख्योपसङ्ग्रहादपीति सूत्रोक्ताया एकस्यानेकत्वानुपपत्तिरूपयुक्तेरुक्तिस्तत्र न स्यात् । किं च बहुरूपत्वादधिकरणाधेयत्वादिकमिति न्यायविवरणेऽनेकत्वसङ्ख्योक्त्यर्थादिशब्दानुपपत्तिश्च स्यादित्यस्वरसादाह ॥ यद्वेति ॥ ननु प्रथमपक्षे न सङ्ख्योपसङ्ग्रहादित्यस्यास्वारस्यमुक्तरीत्या द्वितीये तु गुहां प्रविष्टावित्यस्येत्यत उभयानुसाराय पक्षान्तरमाह ॥ यद्वेति ॥ छायात्वं ब्रह्मणो न युक्तं जीववदविद्याश्रयत्वाभावादिति पूर्वपक्षोक्तं बाधकं परिहरति ॥ सुखेति ॥ प्रतियोगिभेदेन विद्वदविद्वद्रूपप्रतियोगिभेदेनेत्यर्थः ।