०२ पूर्वपक्षनिरूपणम्

पूर्वपक्षस्तु

पूर्वपक्षनिरूपणम्

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु ॥ युक्तं पूर्वोक्तमत्तृत्वं ब्रह्मणि । प्रकृत्यर्थस्य संहर्तृत्वस्य प्रत्ययार्थस्यैकत्वस्य च सम्भवात् । इह तु प्रातिपदिकार्थः कर्मफलभोक्तृत्वं प्रत्ययार्थो द्वित्वं च कर्मबन्धरहिते निर्भेदे च ब्रह्मणि न युक्तम् । अन्यथा ‘‘सप्तदश प्राजापत्यान् पशूनालभत’’ इत्यादौ सङ्ख्यया कर्मभेदो न स्यात् । अन्नमयादीनां तु ‘‘स वा एष पुरुषोऽन्नरसमय’’ इत्यादौ यत्र ब्रह्मतोक्ता तत्रानेकत्वं न श्रुतम् । यत्र च ‘‘अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्ध्यन्ता’’मित्यत्रानेकत्वं श्रुतं तत्र न ब्रह्मतोक्ता । किंतु संज्ञाधिकरणन्यायेनान्नमयप्राणमयेत्यादिसंज्ञाभेदेनान्नमयादीनां भेदे शङ्किते दाक्षायणयज्ञादिशब्दवत्प्राणमयादिशब्दाः प्रकृते ब्रह्मणि गुणविधायकाः । न तु संज्ञामात्रम् । ततो न भेदका इत्यादिः परिहारस्तत्राभिप्रेतः । तथा चान्नमयादीनां ब्रह्मत्वं स्वीकृत्यैवात्र पूर्वपक्षः । अथवा बहुव्रीहित्वेऽपि ब्रह्मत्वमिति तत्र व्युत्पाद्यम् । अत्र त्वनेकत्वेऽपि ब्रह्मत्वमिति । तथा चान्नमयादीनामनेकत्वादब्रह्मत्वमिति शङ्काया अप्यत्रत्यसिद्धान्तेनैव परिहार्यत्वादत्रत्यपूर्वपक्षेऽन्नमयादीनामपि ब्रह्मत्वाक्षेपः । अत एव न्यायविवरणे ‘‘न चावयवत्वविरोध’’ इति तत्रोक्तम् । अत्र तु ‘‘द्विवचनश्रुतेरपि निरवकाशत्वं नास्ती’’ति । न च दारा इत्यादौ बहुवचनमिवात्र द्विवचनं शब्दसाधुत्वेनैव प्रसिद्धम् । न च बाधकं विना पिबन्तौ प्रविष्टौ छायातपाविति बहूनि द्विवचनानि वचनव्यत्ययेनैकस्मिन्नपि युक्तानि । न च ‘‘ग्रहं संमार्ष्टि’’ इत्यादाविवोद्देश्यविशेषणत्वात् सङ्ख्या न विवक्षितेति युक्तम् । ब्रह्मणि ऋतपानस्य अप्राप्तत्वात् ॥ ऋतं पिबन्तावित्यस्योद्देशकत्वेऽपि ‘‘छायातपा’’वित्यादेर्विधायकत्वावश्यंभावाच्च । ग्रहैकत्वस्य वाक्यभेदापत्त्या विध्यसंस्पर्शेऽपि प्रत्येकं ग्रहेष्वेकत्वस्य स्वरूपतः सत्त्वेनानुवादवत्प्रकृते ब्रह्मणि द्वित्वस्य स्वरूपत एवाभावेनानुवादकत्वासम्भवाच्च । न च पिबन्तावित्यादिकमन्यत्र द्वित्ववाच्येव सद् इहातिदेशतः प्राप्तम् । येन ‘‘अग्नये जुष्ट’’मिति मन्त्रस्य सौर्येऽतिदेशतः प्राप्तस्य ‘‘सूर्याये’’त्यूहवद्द्विवचनान्तस्यैकवचनान्ततयोहस्स्यात् । न चैकस्मिन्नेव यागे समिधो यजतीत्यादौ बहुवचनान्तसमित्पदमिवैकस्मिन्नैव ब्रह्मणि द्विचवनान्तं पिबत्पदमस्त्विति वाच्यम् । रूढस्य समिच्छब्दस्य बहुवचनप्रतिरूपकनामधेयत्ववद्यौगिकस्य पिबन्तावित्यादेस्तदयोगात् । छायात्वं च ब्रह्मणो न युक्तम् । जीववदविद्याश्रयत्वासम्भवात् । तस्मादत्र पिबन्तौ जीवेश्वरावेव । ईश्वरस्याभोक्तृत्वेऽपि छत्रिन्यायेन पातृत्वव्यपदेशः । गुहाप्रविष्टत्वब्रह्मशब्दौ तु जीवेऽपि युक्ताविति ॥

प्रकाशिका

आत्मानाविति सौत्रद्विवचनान्तात्मपदेन पिबन्तावितिश्रुतप्रकृतिप्रत्यययोर्द्वयोरपि गत्युक्त्या तदनुरोधेन टीकायामुक्तं द्वाभ्यां पूर्वपक्षं टीकासूचितपूर्ववैषम्योक्तिपूर्वं व्यनक्ति ॥ युक्तमिति ॥ अत्तीत्यत्र धातुरूपप्रकृत्यर्थस्य तिङ्प्रत्ययार्थस्येति वा अदितेरित्यदिति प्रातिपदिकार्थस्य सुप्रत्ययार्थस्येति वाऽर्थः ॥ इह तु प्रातिपदिकार्थ इति ॥ ऋतपिबत्प्रातिपदिकयोरर्थ इत्यर्थः । ननु भेदाभावेऽपि ब्रह्मणि द्वित्वं युज्यतां कोदोष इत्यत आह ॥ अन्यथेति ॥ द्वितीये ‘‘पृथक्त्वनिवेशात्सङ्ख्यया कर्मभेदः स्या’’दिति द्वितीयपादीयसप्तमाधिकरणे ‘‘सप्तदश प्राजापत्यान्पशूनालभत’’ इति वाक्ये किं सप्तदशपशुद्रव्यक एको याग उतैकैकपशुद्रव्यकास्सप्तदशयागा इति संशये प्राजापत्यशब्देन देवतासम्बन्धोपसर्जनकद्रव्यमेवोच्यते । यच्च प्रधानं तस्यैवार्थान्तरेण बहुत्वेनान्वयो नोपसर्जनदेवतासम्बन्धस्य । तथा च बहुभिः पशुभिर्व्यासज्यैकादेवता सम्बध्यते । द्रव्यदेवता सम्बन्धैक्यादेको याग इति प्राप्ते प्रथममेव प्रकृतिप्रत्यययोरन्वयाद्देवताविशिष्टमेव द्रव्यं प्राजापत्यशब्देनाभिहितम् । पश्चाद्विशिष्टेन रूपेण सङ्ख्ययाऽन्वेति । तथा च भिन्नैर्द्रव्यदेवतासम्बन्धैर्भिन्ना एव यागाः कल्प्यन्ते । एवं च सति चोदकावगतमेकपशुनिष्पन्नैकादशावदानद्रव्यकत्वं यागस्यानुगृहीतं भवति नान्यथेति सिद्धान्तितम् । यदि पिबन्तावित्यत्र द्वित्वसङ्ख्यया भेदो न स्यात्तदा सङ्ख्यया कर्मभेदो न स्यादित्यर्थः । आदिपदेन ‘‘द्वासुपर्णा द्वे ब्रह्मणी वेदितव्ये’’ इत्यादौ चेतनभेदो न स्यादिति गृह्यते । नन्विदमानन्दमयाधिकरण एव परिहृतम् । ‘‘बहुरूपत्वाच्चे’’ति ‘‘अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् । प्रोच्यत’’ इति च भाष्योक्तेरित्यतः ‘‘न हि तत्र द्विवचनं बहुवचनं वा शङ्कितम् । तदभावात् । किं नाम शब्दभेदादिना भेद’’ इति न्यायविवरणटीकानुरोधेन तां विशदयन्नेव परिहारमाह ॥ अन्नमयादीनामिति ॥ यत्र ब्रह्मवल्ल्याम् ॥ यत्र चेति ॥ नारायणोपनिषदि । संज्ञाधिकरणं जिज्ञासासूत्रे दाक्षायणयज्ञाधिकरणमानन्दमयनय एव विवृतम् । न्यायद्वयस्य शङ्कापरिहारोपयोगस्तत्रैव दर्शितः ।

ननु तत्र बहुत्वाश्रवणेन ‘‘बहुरूपत्वाच्चे’’त्यादि भाष्ये ‘‘अत एकस्सपञ्चधे’’त्यनुव्याख्याने च कथं तत्समाधानोक्तिः । ‘‘न चानन्दमयाधिकरणन्यायेन परिहारः । बाधकाभावा’’ दित्यत्रसुधावाक्यं च कथमित्यतोऽभ्युपेत्यवादेनेति भावेन परिहारान्तरमाह ॥ अथवेति ॥ तत्रानेकत्वसङ्ख्यसमाधानं चात्रत्यसिद्धान्तन्यायेनैवेति भावः ॥ द्विवचनेति ॥ निरवकाशतया प्रतीयमानाया अपीत्यर्थः । एतेन ‘‘पिबन्ताविति द्विवचनश्रुते’’रिति टीका विवृता ।

ननु न द्विवचनं निरवकाशम् । तस्य शब्दसाधुत्वमात्रार्थत्वेन वा एकवचनान्तस्यैव छान्दसद्विवचनान्तत्वेन वा द्वित्वबोधनेऽपि तस्योद्देश्यविशेषणत्वेनाविवक्षिततया वा द्विवचनस्य पूर्वोत्तरवाक्यानुरोधेनैकवचनान्ततयोहेनैकत्वप्रापकतया वा द्विवचनप्रतिरूपकत्वेन वा द्वित्वाप्रापकत्वेनैकस्मिन्नुपपत्तिरिति चोद्यानि क्रमेण निरस्यन्नाद्यं निराह ॥ न च दारा इति ॥ प्रसिद्धमिति ॥ ‘‘दाराः पुंसि च भूम्नयेवे’’त्यादिवन्नैघण्टुक्याः प्रसिद्धेरभावात्तथा कल्पनमयुक्तमित्यर्थः । द्वितीयं निराह ॥ न च बाधकमिति ॥ ‘‘व्यत्ययो बहुल’’मिति ‘‘सुपां सुलु’’गित्यादिशास्त्रेणैकवचनस्य द्विवचनमिति वचनव्यत्ययकल्पनं ‘‘अहल्यायै जारे’’त्यादौ विभक्तिव्यत्यय इव सति बाधके । न हीह जीवेश्वरविषयत्वेनोपपत्तौ किञ्चिद्बाधकमस्तीत्यर्थः । गुहाप्रविष्टत्वादिबाधकं तु निरसिष्यत इति भावः । तृतीयमाशङ्क्य निराह ॥ न च ग्रहमिति ॥ ग्रहाधिकरणं प्राग्विवृतं छन्दोधिकरणे । ‘‘ऐन्द्रवायवं गृह्णाति मैत्रावरुणं गृह्णाती’’त्यादिनोत्पन्नानां ‘‘ग्रहैर्यजेते’’ति होमसाधनत्वेन प्राप्तानां संमार्गरूपसंस्कारविधानार्थं ग्रहमिति ग्रहशब्दोद्देश्यकत्वात्तद्गता सङ्ख्या न विवक्षितेति वक्तुं युक्तम् । इह तु ऋतपानस्य ब्रह्मण्यप्राप्ततया विधेयत्वान्न तथा सम्भवति । किन्तु ‘‘पशुना यजेते’’त्यादाविव विधेयगतत्वेन विवक्षितैवेत्यर्थः ।

ननु टीकायां ‘‘यौ सुकृतनिर्मितशरीरे हृदयगुहां प्रविष्टौ तत्रापि सर्वजीवोत्तमेऽतिपूर्णे वायौ प्रतिष्ठौ सुकृतफलं भुञ्जानौ तौ ब्रह्मविदः पञ्चमहायज्ञवन्तो द्युपर्जन्यादिपञ्चाग्निनिष्ठा वा त्रिवारकृतनाचिकेताश् च्छायातपौ वदन्ती’’ति पिबन्तावनूद्य च्छायातपत्वविधेरुक्तत्वात्कथमेवमित्यत आह ॥ ऋतमिति ॥ गुहाविष्टत्वादिरादिपदार्थः । एकस्यैवोद्देश्यत्वादिति भावः । तथा च च्छायातपावित्यत्र द्विवचनं निरवकाशमित्यर्थः । ‘‘पिबन्ताविति द्विवचनश्रुते’’रित्युक्त्वा टीकायां ‘‘श्रुतेर्निरवकाशत्वा’’दित्युक्तम् । तत्स्वारस्यमनुरुध्य पिबन्तावित्यस्यानुवाद्यत्वेऽपि ग्रहवैलक्षण्येन तत्रत्यद्विवचनस्येश्वरेऽनुपपन्नतामाह ॥ ग्रहेति ॥ एकत्वस्य विधेयान्वयायोद्देश्यकोटिप्रवेशे ग्रहस्याप्युद्देश्यत्वेन प्रत्युद्देश्यं वाक्यपरिसमाप्त्या ग्रहं संमृज्यादेकं संमृज्यादिति वाक्यभेदः । विधेयकोटिप्रवेशे संमार्गस्यापि विधेयत्वेन विधेयभेदाद्ग्रहं संमृज्यात् स च संमार्ग एक इति वाक्यभेदापत्त्येत्यर्थः । चतुर्थमाशङ्क्य निराह ॥ न च पिबन्तावित्यादिकमिति ॥ मन्त्रोहाधिकरणमुक्तं जिज्ञासाधिकरणे । ‘‘अग्नये जुष्टं निर्वपामी’’ति दर्शपौर्णमासिकाग्नेयहविर्निर्वापमन्त्रस्य ‘‘सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम’’ इति विहिते सौर्ययागे ‘‘आग्नेयवत्सौर्यः कर्तव्य इत्यतिदेशतः प्राप्तस्य यथासूर्यायेति प्रातिपदिकमात्रे ऊहस्तथा पिबन्ताविति द्विवचनान्तस्य पिबन्तमित्येकवचनरूपप्रत्ययमात्रोहस्स्यात् । न चात्र तथातिदेशतः प्राप्तम् । इहैवास्याम्नानादित्यर्थः । पञ्चममाशङ्क्याह ॥ न चैकस्मिन्निति ॥ प्राग्विवृतमभ्यासाधिकरणं समन्वयाधिकरणे । तत्र हि समिदादीनां यागनामत्वमुक्तम् । एकसमिदाख्यप्रयाजवाचिनोऽपि समिच्छब्दस्य रूढत्वेनोच्चैर्वृक्ष इत्यादाविव बहुवचनप्रतिरूपकत्वेनोपपत्तावपीह यौगिकत्वात्तथा न वक्तुं युज्यत इत्यर्थः ।

ननु नवमे द्वितीयपादान्तिमाधिकरणे ‘‘प्रयाजेऽपीति चे’’दित्यत्र समिधो यजतीत्यादौ समिदादिकं देवतात्वेनोद्दिश्य तत्संस्कारत्वेन यागा विधीयन्तेऽथारादुपकारकतया यागा इति विशये सामवायिकत्वलाभात्संस्कारविधिरिति प्राप्ते तथात्वे देवतात्वलिङ्गस्य ‘‘यदग्नये सायं जुहोती’’त्यादाविव चतुर्थीनिर्देशस्याभावेन चतुर्थ्यर्थे द्वितीयाया उपचारापत्तेरारादुपकारकत्वेन यागविधिः । समिदादिशब्दास्तु मन्त्रवर्णप्राप्तदेवतां निमित्तीकृत्य नामधेयानि देवता एवानुवदन्ति । न चानुवाद उपचारो दोष इति सिद्धान्तितत्वात् । श्येनशब्दस्य पक्षिविशेषे रूढस्य तत्सादृश्याद्गौण्या वृत्त्या यागनामत्वमिव देवतागणविशेषे निरूढस्य समिच्छब्दस्य तत्प्रकाशकमन्त्रसम्बन्धापादितदेवतासम्बन्धे यागे लाक्षणिकनामत्वान्न रूढत्वमस्ति । उक्तं च शाबरभाष्ये ‘‘समिदादिमन्त्रकत्वाद्यजीनां समिदादिशब्दा वाचका’’ इति । लक्षणायां च लिङ्गव्यत्यय इव वचनव्यत्ययोऽपि न दोष इति चेन्न । पौर्णमास्यधिकरणपूर्वपक्षे फलवाक्यस्थदर्शपौर्णमासाभ्यामिति पदस्य द्विवचनप्रतिरूपकाव्ययत्वमाश्रित्य प्राकरणिकसर्वयागनामधेयत्वमुक्तम् । तद्वत्प्रकृतेऽपि वक्तुं शक्यमित्यभिप्रायेणैवमुक्तमित्यविरोधः । द्विवचनस्य सम्भावितावकाशनिरासेन ‘‘श्रुतेर्निरवकाशत्वा’’दिति टीकां समर्थ्य तदुपलक्षणमिति भावेन लिङ्गान्तरस्यापि तदाह ॥ छायात्वं चेति ॥ आतपत्वस्य विद्यावत्त्वेनोपपत्तावपीदमयुक्तम् । यद्यपि

छायात्वविद्या संप्रोक्ता जन्यविद्या तपस्स्मृतम् ।

जीवगृध्रस्य तौ पक्षावध ऊर्ध्वपथोः पृथक् ॥

तौ विष्णोस्तु न विद्येते नित्यविद्यास्वरूपिणः’’ । इत्यष्टमस्कन्धस्थपञ्चमाध्यायतात्पर्योक्त्या द्वयमपीशे न युक्तं तथापि पररीत्यैवमुक्तमिति ध्येयम् । यथोक्तं न्यायविवरणटीकायां ‘‘छायातपत्वं चाविद्याविद्यावत्त्वेन जीवेश्वरयोरूपपद्यत’’ इति ॥ तस्मादिति ॥ प्रातिपदिकार्थप्रत्ययार्थयोर्विष्णुमात्रेऽनवकाशत्वादित्यर्थः । ‘‘न चैवं जीवेशग्रहणेऽप्यनुपपत्ति’’रित्यादिटीकां व्यनक्ति ॥ ईश्वरस्येति ॥ एकस्य छत्रित्वेऽपि तत्साहचर्यादन्येष्वपि छत्रिणो गच्छन्तीति यथा व्यपदेशस् तथा भोक्तृजीवसन्निधानादीश्वरोऽपि तथोपचर्यत इत्यर्थः । निरवकाशविष्णुलिङ्गादिबाध इत्यत आह ॥ गुहेति ॥ जीवस्यापि ‘‘हृदिह्येष आत्मे’’ति गुहास्थत्वात् ‘‘बृहजाति जीवे’’ त्यादिना जीवेऽपि प्रयोगादिति भावः ।

चन्द्रिकाबिन्दुः

ननु अनेकत्वसंख्यायुक्तानामेवान्नमयादीनामानन्दमयाधिकरण एव ब्रह्मताया उक्तत्वात् तेनेदं गतार्थमित्यत आह ॥ अन्नमयादीनां त्विति ॥ दाक्षायणेति ॥ दर्शपूर्णमासप्रकरणे श्रुतानां दाक्षायणादिशब्दानां प्राकरणिकदर्शपूर्णमासयोरेवावृत्तिलक्षणगुणविधायित्वमङ्गीकृतम् । द्विवचनं दारा इत्यादिवत् केवलं साधुत्वार्थं वा वचनव्यत्यासेन वा उद्देश्यविशेषणत्वेन वा एकस्मिन्नपि ऊहेन वा समिदादिनामवद् रूढवचनत्वेन वा इति ॥ पञ्चगृहमिति ॥ ऋतं पिबन्तावित्यस्येति ॥ टीकायाम् ऋतं पिबन्तावित्यस्य उद्देश्यविशेषणतया योजना प्रदर्शितेति ध्येयम् । चतुर्थं निराकरोति ॥ न च पिबन्तावित्यादिकमिति ॥ प्रकृतिविकृतिभावस्य ब्रह्मपक्षेऽभावादिति भावः । पञ्चमं निराकरोति ॥ न चैकस्मिन्नेवेति ॥

पाण्डुरङ्गि

प्रत्ययार्थभूतद्वित्वस्य ब्रह्मण्यसम्भवे हेतुमाह ॥ निर्भेदेति ॥ ननु च द्वित्वरूप सङ्ख्यानिर्भेदे ब्रह्मण्यपि किं न स्यादित्यत आह ॥ अन्यथेति ॥ द्वित्वादि सङ्ख्यायाभेद साधकत्वमनङ्गीकृत्य निर्भेदेपि ब्रह्मणि सङ्ख्याभ्युपगम इत्यर्थः । नन्वन्नमयादावनेकत्व श्रवणेऽप्यानन्दमयाधिकरणे तस्य ब्रह्मत्वसमर्थनेन तन्न्यायेन द्वित्वश्रवणेऽपि प्रकृते ब्रह्मत्वं किं न स्यादित्यत आह ॥ अन्नमयादीनां त्विति ॥ संज्ञाधिकरणन्यायेति ॥ संज्ञाचोत्पत्तिसंयोगादिति संज्ञाधिकरणन्यायेनेत्यर्थः । गुणविधायकाः सर्वोपजीव्यत्वमहाप्राणत्वरूपगुणविधायका इत्यर्थः । ननु तथापि अनन्योऽप्यन्यशब्देन तथैको बहुरूपवान् । बहुरूपत्वाच्च न विकारित्वमविरोधश्चेति भाष्ये तच्च वाधूलशाखायामष्टरूपमुदाहृतमित्यादिनाऽनुव्याख्याने च तत्प्रकरणे साक्षादश्रुताया अप्यार्थिकानेकत्वसङ्ख्याया रूपबाहुल्याभिप्रायेण गतिकथनात् । अत्रान्नमयादीनां पूर्वपक्षिणा ब्रह्मत्वाङ्गीकार इदं व्यर्थमेव स्यात् । न चानश्नन्नित्यादेः कर्मफलात्तृत्वं स्वत एवान्यत्र प्रसिद्धमिति । तर्हि द्विवचनश्रुतिसाहित्योक्तिवैयर्थ्यात् । पूर्वाधिकरणेऽत्तृत्वस्यापि प्रतिपादनेनानशनोक्तेर्गतेरपि पूर्वाधिकरणसिद्धान्ताङ्गीकारेणैव पूर्वपक्षिणं प्रतिसिद्धत्वात् । अद्यतेऽत्तिच भूतानीति श्रुतेर् महाभोक्तामहाभोग्य इत्यर्थोन्नमये भवेदित्यनुव्याख्यानाच्चात्रान्नमयशब्देनापि ब्रह्मत्वाङ्गीकारे तदनुपपत्ति शङ्काया अनुदयाच्च । अत एव टीकायां पिबन्तावित्येतदुद्देश्यकोटौ निवेशितमित्याद्यरुच्याह ॥ अथ वेति ॥ तथाचेति ॥ अन्नमये भोक्तृत्वमप्युपलक्षणीयम् ।

ननु गुरोर्दारा आगता इत्यत्र दारा इति बहुवचनवद् ऋतं पिबन्तावित्यत्र द्विवचनमपि शब्दसाधुत्वेनैव किं न स्यादित्याशङ्क्य दारादिशब्देषु बहुवचनादेश्शब्द साधुतैव नत्वर्थसाधुता । न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम् । प्रकृते चास्मद्रीत्या जीवेश्वर परत्वेऽर्थसाधुत्वमपि सम्भवतीति भावेनाह ॥ न च दारा इत्यादाविति ॥ देवदत्तः पिबन्तावित्यप्रयोगादिति भावः । ननु द्विवचनस्य वचनव्यत्ययेन ब्रह्मणि सम्भवात्कथं द्वित्वस्य ब्रह्मपक्षे बाधकतेत्यत आह ॥ न चेति ॥ बहूनि द्विवचनानि अभ्यासाद्द्वित्वे निश्चिततात्पर्यकाणीत्यर्थः । अनेकेषामपि द्विवचनानां वचनव्यत्ययःसति बाधके सम्भवत्येवेत्यतो बाधकं विनेत्युक्तम् । न च ग्रहं संमार्ष्टीत्यत्रोद्देश्यविशेषणभूतस्यैकत्वस्य विवक्षायां सोमगतद्वादश ग्रहाणामपि संमार्जनाभावापत्त्याऽविवक्षितत्ववत्प्रकृतेऽपि द्वित्वस्योद्देश्य विशेषणत्वेन विवक्षा किं नस्यादित्यतो वैषम्येण परिहरति ॥ न चेति ॥ ब्रह्मणीति ॥ तथाच विधेयविशेषणत्वेनोद्देश्य विशेषणत्वमेव नास्तीत्यविवक्षानुपपत्तिरिति । ननु सर्वात्तृत्वेन ऋतपानस्यापि प्राप्तत्वेन विधेयत्वानुपपत्त्योद्देश्य विशेषणत्वमेव वक्तव्यमित्यरुचेराह ॥ ऋतं पिबन्तावितीति ॥ किं च ग्रहं संमार्ष्टीत्यत्र ग्रहं संमृज्यात् तच्चैकं कुर्यादित्युभयविधाने वाक्यभेदापत्त्या ग्रहगतैकत्वस्य विधिसंस्पर्शाभावेऽपि ग्रहेष्वेकत्वस्य सत्त्वेनोद्देश्यत्वसम्भवेऽपि प्रकृते ब्रह्मणि द्वित्वस्य स्वरूपत एवाभावान्नोद्देश्यत्वमित्यभिप्रेत्य दोषान्तरमाह ॥ ग्रहैकत्वस्येति ॥

ननु सूर्यदेवताकयागे अग्नय इत्यादेस्सूर्यायेत्यादिरूपेणोहवत्प्रकृतेऽपि पिबन्ताविति द्विवचनान्तस्याप्येक वचनान्ततयोहः किं न स्यादित्यतो वैषम्येण परिहरति ॥ न चेति ॥ छत्रिन्यायेनेति ॥ छत्र्यच्छत्रिसमुदाये छत्रिण इति व्यपदेशवत्पिबदपिबत्समुदाये पातृत्वव्यपदेशो युक्त इत्यर्थः । साधकमुक्त्वा बाधकं परिहरति ॥ गुहाप्रविष्टत्वेति ।