पूर्वत्रादितिप्रातिपदिक श्रुतिबलादन्यत्रप्रसिद्धक्रियालिङ्गसमन्वय उक्तः
गुहाधिकरणम्
तात्पर्यचन्द्रिका
संगतिकथनम्
॥ ॐ गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॐ ॥
पूर्वत्रादितिप्रातिपदिक श्रुतिबलादन्यत्रप्रसिद्धक्रियालिङ्गसमन्वय उक्तः । अत्र तु पिबन्ताविति प्रत्ययश्रुतिबलादन्यत्रप्रसिद्धक्रियालिङ्गसमन्वय उच्यत इत्यवान्तरसङ्गतिः । अत्र पिबन्तौ किं जीवेश्वरौ किं वेश्वररूपविशेषाविति चिन्ता । तदर्थं गुहावेशब्रह्मशब्दादिकं किममुख्यं किं वा मुख्यमिति । तदर्थं पिबत्प्रातिपदिकार्थभूतं भोक्तृत्वं किं ब्रह्मणि न युक्तमुत युक्तमिति । तदर्थमभोक्तृत्वश्रुतिर्ब्रह्मणि भोक्तृत्वमात्रनिषेधपरोताशुभभोक्तृत्वनिषेधपरेति । तथा द्विवचनं किं ब्रह्मणि न युक्तमुत युक्तमिति ।
प्रकाशिका
पूर्वसङ्गतिमाह ॥ पूर्वत्रेति ॥ क्रियेति ॥ अदनरूपक्रियेत्यर्थः ॥ प्रत्ययेति ॥ द्विवचनरूपेत्यर्थः ॥ क्रियेति ॥ कर्मफलभोक्तृत्वरूपेत्यर्थः । प्रकृतिप्रत्यययोः पौर्वापर्यात्तन्मूलपूर्वपक्षनिरासकयोरप्यधिकरणयोः पौर्वापर्यमित्युक्तं भवति । ननु कर्मफलभोक्तृत्वं लोकत एवान्यत्र प्रसिद्धम् । न द्विवचनश्रुतिसाहित्यमपेक्षते । उक्तं च टीकायां ‘‘लोकतोन्यत्र प्रसिद्धस्य कर्मफलभोक्तृत्वलिङ्गस्ये’’ति । तत्कथं प्रत्ययश्रुतिबलादन्यत्रप्रसिद्धेत्युक्तिरिति चेदुच्यते । अस्मिन्पादे पूर्वत्रोत्तरत्र चान्यसाहित्येनेवान्यत्रप्रसिद्धेरुक्तत्वादत्रापि तथा भाव्यमिति भावेन वा । पूर्वं सर्वात्तृत्वस्य विष्णावुक्तौ तन्मध्यपतितकर्मफलात्तृत्वस्यापि सामान्यत उक्तत्वादन्यत्रप्रसिद्ध्यर्थमन्यसाहित्यमावश्यकम् ।
अत एव टीकायां ‘‘न च सर्वात्तृत्वेन तद्बाधः । श्रुतेर्निरवकाशत्वा’’दिति द्विवचनश्रुत्यैव बाधश्शङ्कितः । लोकत इति टीकातु प्राग्विशिष्यानुक्तत्वाशयेति भावेन वा लोकतोऽन्यत्र प्रसिद्धत्वेऽप्यन्यसाहित्येनाप्यन्यत्र प्रसिद्धेस्सत्वात्तदभिप्रायेण वैतदुक्तिरिति । यद्यपि पूर्वत्र प्रातिपदिकार्थप्रत्ययार्थयोर्विष्णौ सम्भवेऽपीह तयोरसम्भवादिति पूर्ववैषम्येण पूर्वपक्षप्रवृत्तेः प्रत्युदाहरणरूपाऽपि वक्तुं शक्या । तथापि सा वक्ष्यमाणदिशा सुज्ञानेति नोक्ता । ननु तथापि ‘‘सर्वात्तैकः परउक्त’’ इति भाष्ये ‘‘तद्यदा विष्णोरन्यस्यैव स्यात्तदा न तस्य सर्वात्तृत्व’’मिति टीकायां च पूर्वाक्षेपस्य दर्शितत्वात्तद्विरोधः । न च तत्प्रयोजनमात्रपरम् । इहोभयपरत्वेऽपि तस्य बाधकाभावादिति चेत्सत्यम् । तस्य वक्ष्यमाणदिशोपपादनसापेक्षत्वेन खडिति सुज्ञानत्वाभावेन तदपरित्यागेनैव सङ्गत्यन्तरकथनमेतदित्यदोषः ।
ननु न प्रत्ययश्रुतिबलादन्यत्र प्रसिद्धता । प्रत्ययाज्जीव एवेत्यप्रतीतेः । तस्य द्वित्वबोधकत्वेन जीवेश्वरोभयप्रापकत्वादिति चेन्न । सिद्धान्तकोटितोऽन्यत्र प्रसिद्धेरेवान्यत्रप्रसिद्धशब्दार्थत्वादत्र विष्णोरेव सिद्धान्तकोटित्वेन जीवसहितस्य तस्य ततोऽन्यत्वात् । अत एव द्विवचनश्रुत्या कर्मफलात्तृत्वमुभयत्र प्रसिद्धमित्यपि चोद्यं निरस्तम् । विष्णोरेवेति सिद्धान्तकोटौ कर्मफलात्तृत्वस्य द्विवचनश्रुत्याऽप्राप्तेः । तथा द्वयोः प्राप्तत्वेऽपि जीवेश्वरावित्यस्य न्यायेनैव व्युत्पाद्यत्वादिति । विषयसंशयटीकां व्यनक्ति ॥ अत्रेत्यादिना ॥ ‘‘ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो येच त्रिनाचिकेता’’ इत्यत्र काठके ऋतपानकर्तृत्वेनोक्तौ विषय इत्यर्थः । श्रुत्यर्थष्टीकायां स्पष्टः । ननु गुहां प्रविष्टावित्येतदेव धर्मीकृत्य सन्दिह्यताम् । तथाच सौत्रनिर्देशोऽपि साक्षात्सङ्गतस्स्यात् । अन्यथा पिबन्ताविति ब्रूयात् । न च तस्य ब्रह्मलिङ्गत्वेन संशयायोगः । गुहाप्रविष्टत्वस्य ‘‘हृदि ह्येष आत्मे’’ति जीवेऽपि सम्भवात् । द्विवचनश्रुतिबलेन गुहाप्रविष्टत्वं जीवेश्वरयोरिति पूर्वपक्षसम्भवाच्चेति चेन्मैवम् । गुहाप्रविष्टत्वस्य सर्वत्र प्रसिद्धेति नये विष्णोस्सिद्धत्वात्तत्समन्वयेऽपूर्वगुणालाभात् ।
पातृत्वसमन्वये तु कर्मफलभोक्तृत्वस्यापूर्वगुणस्य लाभात् । प्रागुक्तलक्षणस्य साक्षादाक्षेपसम्भवाच्च । तत्र प्रातिपदिकार्थस्य प्रत्ययार्थस्य च द्वयोरप्यनुपपत्त्या पूर्वपक्षे विशेषहेतुसत्वाच्च । अत एव सूत्रे आत्मपदेनादेयं मातीति व्युत्पत्त्या पातृत्वमुच्यते । वक्ष्यमाणदिशा गुहाप्रविष्टत्वस्य विष्णावेव प्रसिद्ध्या संशयायोगाच्च । सौत्रनिर्देशस्य तु गतिर्वक्ष्यत इति ॥ जीवेश्वराविति ॥ एतेन ‘‘विष्णोरन्यस्य वे’’ति टीका विष्णोरेवान्यस्यापि वेति व्याख्येयेत्युक्तं भवति । ननु बुद्धिजीवौ प्राणजीवौ बुद्धिप्राणौ वा सम्भवतः । कथं जीवेश्वराविति विशिष्योक्तिः । मैवम् । पातृत्वेनैकस्य जीवत्वावश्यंभावेन गोर्द्वितीयेन भाव्यमित्यादौ सजातीयस्येवात्रापि सजातीयस्यैव द्वितीयस्येश्वरस्य ग्राह्यत्वात् । न च जीवान्तरमेव वेति ग्राह्यमिति युक्तम् । एकस्मिन्देहे भोक्तृजीवद्वयायोगात् । न च चैद्यादौ जीवद्वयं दृष्टमिति वाच्यम् । तस्य प्रबलनिमित्तादिना क्वाचित्कत्वेन प्रतिशरीरं जीवद्वयायोगात् । ब्रह्मप्रकरणाच्च तस्यैव द्वितीयस्योचितत्वादिति भावः ॥ रूपविशेषाविति ॥ ईश्वरद्वयाभावेनेश्वरावित्यनुक्त्वा रूपविशेषावित्युक्तम् ॥ ब्रह्मशब्दादिकमिति ॥ ‘‘यस्सेतुरीजानानामक्षरं ब्रह्म तत्पर’’मित्युक्तसेतुत्वादिरादिपदार्थः । मुख्यमिति चिन्तानन्तरं मुख्यत्वे बाधकमस्त्युत नेति चिन्ता स्फुटत्वान्नोक्ता ॥ श्रुतिरिति ॥ अनश्नन्नित्यादिश्रुतिर्यदि भोक्तृत्वसामान्यनिषेधपरा तर्हि प्रातिपदिकार्थभोक्तृत्वायोगात् पिबत्प्रातिपदिकार्थरूपबाधकसत्त्वेन ब्रह्मशब्दादेर्मुख्यत्वायोगेन जीवेश्वराविति पूर्वपक्षे फलम् । यदि विशेषनिषेधपरा तदा ब्रह्मणि भोक्तृत्वयोगेन बाधकाभावाद्ब्रह्मशब्दादेर्मुख्यत्वे नेश्वररूपविशेषाविति सिद्धान्ते फलमिति स्फुटत्वान्नोक्तम् । अत्र द्वौ पूर्वपक्षौ । प्रातिपदिकार्थमुपजीव्यप्रवृत्तः प्रत्ययार्थमुपजीव्यप्रवृत्तश्चेति । आत्मानाविति प्रातिपदिकप्रत्ययाभ्यां द्वयोर्गतेर्वक्ष्यमाणत्वात् । तत्राद्योपयुक्तचिन्तापरंपरेयम् । द्वितीयोपयुक्तामाह ॥ तथेति ॥ किं वा मुख्यमिति चिन्तानन्तरमियं चिन्ता ध्येया । यदि द्विवचनं न युक्तं तदा बाधकसत्त्वेन ब्रह्मशब्दादेरमुख्यत्वेन जीवेश्वराविति फलिष्यति । यदि तु युक्तं तदा बाधकाभावाद्ब्रह्मशब्दादेर्मुख्यत्वेनेश्वररूपविशेषाविति फलिष्यतीति भावः । नन्वियं चिन्ता प्रातिपदिकार्थभूतं भोक्तृत्वं द्विवचनं च न युक्तमुत युक्तमिति पूर्वत्रैव निवेश्यतामिति चेन्न । तदर्थमभोक्तृत्वश्रुतिरितिवक्ष्यमाणचिन्ताया अनन्वयापत्तेः । तस्याः प्रातिपदिकार्थमात्रविषयत्वादिति ।
चन्द्रिकाबिन्दुः
प्रत्ययश्रुतिबलादिति ॥ यद्यपि टीकायां लोकत एव कर्मफलभोक्तृत्वस्यान्यत्रप्रसिद्धिरुक्ता । तथापि पूर्वाधिकरणसङ्गतिप्रदर्शनलाभेन प्रातिपदिकश्रुतिबलादित्युक्त्वा प्रत्ययश्रुतिबलादित्युक्तमिति ध्येयम् । अत एव आनन्दमयाधिकरणे सङ्गतिकथनसमये सर्वगतत्वाद्युक्तया तदीयलिङ्गानां स्वतोऽप्यन्यत्रप्रसिद्धिरुक्तेति भावः ॥ तथेति ॥ इयं च प्रथमचिन्तानन्तरमेव द्रष्टव्या । अन्यथाऽनेकत्वसंख्याया निर्भेदेऽप्युपपत्तौ ।
पाण्डुरङ्गि
प्रातिपदिकार्थस्य कर्मफलभोक्तृत्वस्य ब्रह्मण्यसम्भवे हेतुः कर्मबन्धरहित इति ।